________________
तिलकमञ्जरी म्बरतलस्य लीलादुकूलवितानमिव फणीन्द्रस्य, अट्टहासमिव पातालत्र्यम्बकस्य, निःसरणवर्मेव बलिकीर्तिकलापस्य, रसातलप्रवेशद्वारमिव मन्दाकिनीप्रवाहस्य [ख], शेषाहिफणाचक्रवालद्युतिजालमिवोच्छलितं, विधुन्तुदग्रासभयादिन्दुचन्द्रिकापटलमिव गलितं, प्रलयदिवसकरोष्मणाकाशमिव स्रुतम् , अदभ्राभ्रदहनसंपर्केण शरदभ्रवृन्दमिव द्रुतं, मैनाकवियोगदुःखरुदितहिमाचलाश्रुजलमिव संगलितम् [ग], अभ्रमण्डलस्थलमिव जलीभूतम् , अवदाततया स्वच्छतया च सैन्धवीकपोलच्छविभिरिव केरलीदशनकिरणैरिव लाटीकटाक्षच्छटाभिरिव निर्मितं, सर्वतश्च सोपानक्रमरचिता भिराभोगविजितैः पयोधिभिरुपायनप्रहिताभिरिव तरङ्गमालाभिरिन्द्रनीलशिलाश्रेणिभिरवनद्धस्य रोधसो विसारिणा प्रभावितानेन हरितायमान लशैवलमिव सपद्मिनीदलमिव तीरवारि बिभ्राणम् , अदभ्रविस्तारतिरस्कृतेन सेवाविधित्सयेव समग्रग्रहचक्रपरिवृतेन वियता प्रतिमाव्यपदेशेन सर्वात्मना कृतानुप्रवेशं, प्रत्यग्रपलशकलपाटलैरुपान्ततरुपल्लवप्रतिबिम्बैर्विप्रलभ्यमानमुग्धमीनम् [घ ], अम्भःप्रतिफलनच्छलेन च क्वचित्पवनतरलिततरङ्गसङ्गभङ्गुरैः पूगतरुभिस्तरन्महा
पुनः दिशां लिङ्गसाम्याद् दिगङ्गनानां, विलासरौप्यदर्पणमिव विलासोपकरणभूतं रजतमयदर्पणमिव; पुनः अम्बरतलस्य गगनतलस्य, प्रतिबिम्बमिव; पुनः फणीन्द्रस्य सपेराजस्य, लीलादुकूलवितानमिव लीलाये-विलासाय, दुकूलस्यपट्टवस्त्रस्य, वितानम्-उल्लो चमिव; पुनः पातालत्र्यम्बकस्य पातालवास्तव्यशिवस्य, अट्टहासमिव शौक्लयाद् महाहास्यमिव; पुनः बलिकीर्तिकलापस्य बले:-पातालाधिष्ठातुर्दैत्यस्य, यः कीर्तिकलापः-कीर्तिराशिः, तस्य निःसरणवमव निर्गमनमार्गमिव; पुनः मन्दाकिनीप्रवाहस्य गङ्गाप्रवाहस्य, रसातलप्रवेशद्वारमिव पातालप्रवेशद्वारमिव [ख]; पुनः उच्छलितम् उत्पतितं, शेषाहिफणाचक्रवालद्युतिजालमिव शेषाहे:-शेषनागस्य, यत् फणाचक्रवालं-फणामण्डलं, तदीयं द्युतिजालं-कान्तिकलापमिव; पुनः विधुन्तुदग्रासभयात् विधुन्तुदेन-राहुणा यः, ग्रासः-भक्षणं, तद्भयात्, गलितं पतितम् , इन्दुचन्द्रिकापटलमिव इन्दोः-चन्द्रस्य, या चन्द्रिका-ज्योत्स्ना, तस्याः पटलं-समूहमिव; पुनः प्रलयदिवसकरोष्मणा प्रलयकालिकसूर्यतापेन, नृतं स्यन्दितम्, आकाशमिव गगनमण्डलमिव; पुनः अदभ्राभ्रदहनसम्पर्केण अदभ्रस्य-प्रचुरस्य, अभ्रदहनस्य-इरम्मदाख्यस्य मेघस्याग्नेः, सम्पर्केण-संयोगेन, द्रतं गलितं, शरदभ्रवृन्दमिव स्वच्छतया शरत्कालिकमेघमण्डलमिव; पुनः संगलितं सम्पतितं, मैनाकवियोगदुःखरुदितहिमाचलाश्रुजलमिव मैनाकस्यतदाख्यस्वप्रसूतपर्वतस्य, वियोगेन-विश्लेषेण, यदुःखं तेन रुदितस्य-विमुक्ताश्रुकस्य, हिमाचलस्य-हिमालयपर्वतस्य, अश्रुजलमिव [ग]; च पुनः, जलीभूतं जलीभावमापन्नम् , अभ्रमण्डलस्थलमिव मेघमण्डलस्थलमिवः पुनः अवदाततया धवलतया, च पुनः, स्वच्छतया निर्मलतया, सैन्धवीकपोलच्छविभिरिव सैन्धवीनां-सिन्धुदेशस्त्रीणां, कपोलयोःगण्डस्थलयोः, छविभिः-कान्तिगिरिव; पुनः केरलीदशनकिरणैरिव केरलीनां-केरलदेशस्त्रीणां, दशन किरणैः-दन्तरश्मिभिरिव, पुनः लाटीकटाक्षच्छटाभिरिव लाटीनां-लाटदेशस्त्रीणां, कटाक्षच्छटाभिः-अपाङ्गदर्शनशोभाभिरिव, निर्मितं उत्पादितम् ; च पुनः, सोपानक्रमरचिताभिः सोपानक्रमेण-अवतरणिकाऽऽकारेण, रचितामिः-कल्पिताभिः, पुनः आभोगविजितैः स्वविस्तारपराजितैः, पयोधिभिः समुद्रैः, उपायनप्रहिताभिः प्राभृतरूपेण प्रेषिताभिः, तरङ्गमालाभिरिव तरङ्गपति भिरिवेत्युत्प्रेक्षा, इन्द्रनीलशिलाश्रेणिभिः तदाख्यविशिष्टशिलापङ्गिभिः, अवनद्धस्य आबद्धस्य, रोधसः तटस्य, विसारिणा विस्तारिणा, प्रभावितानेन कान्तिकलापेन, हरितायमानं हरितमिवावभासमानम् , अत एव सशैवलमिव तदाख्यजलतृणसंवलितमिव; पुनः सपद्मिनीदलमिव कमलिनीपत्रावृतमिवेत्युत्प्रेक्षा, तीरवारि तटस्थजलं, बिभ्राणं दधानम् ; पुनः अदभ्रविस्तारतिरस्कृतेन अदभ्रेण-भूयसा, विस्तारेण, तिरस्कृतेन-निर्जितेन, अत एव सेवाविधित्सयेव सेवाचिकीर्षयेव, समग्रग्रहचक्रपरिवृतेन अखिलग्रहमण्डलपरिवेष्टितेन, वियता आकाशेन, प्रतिमाव्यपदेशेन प्रतिबिम्बव्याजेन, सर्वात्मना सर्वाकारेण, कृतानुप्रवेशं कृतः, अनुप्रवेशः-पश्चात् प्रवेशो यस्मिस्तादृशम् । पुनः प्रत्यग्रपलशकलपाटलैः अभिनवमांसद्रक्तवणः, उपान्ततरुपल्लवप्रतिबिम्बैः समीपस्थवृक्षनूतनपत्रप्रतिबिम्बः, विप्रलभ्यमानमुग्धमीनं विप्रलभ्यमानाः-प्रतार्यमाणाः, मुग्धाः-असंजातविवेकाः, मीनाः-मत्स्या यस्मिंस्तादृशम् [घ] पुनः अम्भःप्रतिफलनच्छलेन
"Aho Shrutgyanam"