________________
टिप्पनक-परागविवृतिसंवलिता। परिसरम् , अविरतास्फालिततरङ्गततिना तरलितबालपुष्करेण प्रबलसीकरासारसिक्तककुभा वन्यद्विरदयूथेनेव सद्यो जलादुत्तीर्णेन मरुता दूरत एव सूच्यमानं [अ], निरन्तराभिस्तरुणकुन्तलीकुन्तलकलापकान्तिभि
र्ध्वान्तमालाभिरिव रसातलोल्लासिताभिरुल्लसन्मयूरकेकारवमुखराभिः शिखरदेशविश्रान्तमत्तसारसाभिरिभकलभकरावकृष्टिविघटमानविटपाभिश्चटुलवानरवाह्यमानलतादोलाभिरम्भःपानानन्दनिद्रायमाणश्वापदसंकुलाभिरम्बुगर्भनिर्भरनिभृताभ्रमण्डलीविभ्रमाभिर्वनराजिभिरन्धकारितया भुजङ्गराजमूर्येव मथनायासमण्डलीभूतयाऽभ्रंलिहशिखरोपशल्यया पाल्या परितः परिक्षिप्तम् [क], अर्णःपूर्णमालवालमिव त्रिलोकीलतायाः, कान्तिसंततितिरोहितान्तरालं नाभिमण्डलमिव भूतधात्र्याः, विलासरौप्यदर्पणमिव दिशां, प्रतिबिम्बमिवा
टिप्पनकम्-अविरतास्फालिततरङ्गततिना तरलितबालपुष्करेण प्रबलसीकरासारसिक्तककुभा वनद्विरदयूथेनेव सद्यो जलादुत्तीर्णेन मरुता सूच्यमानं समानि विशेषानि, केवलमेकत्र तरलितबालपुष्करेण चञ्चलीकृतपुच्छशुण्डाग्रेण, अन्यत्र तरलितबालपझेन [अ] । उपशल्यं-समीपम् [क] ।
ग्रीष्मसमये, अदृष्टपाराभिधानं न दृष्टः पारः-अग्रिमोऽवधिर्यस्य तादृशं, सरः कासार, दृष्टवान् नयनगोचरीकृतवान् , इत्यप्रेणान्वेति; कीदृशम् ? महाभोगपरिसरं महान् भोगः-विस्तारो यस्य तादृशः परिसरः-प्रान्तभूमिर्यस्य तादृशम् ; पुनः मरुता पवनेन, दूरत एव सूच्यमानं प्रत्याय्यमानम् , कीदृशेन ? अविरतास्फालिततरङ्गततिना अविरतं-निरन्तरम् , आस्फालिता-संघट्टिता, तरङ्गततिः-तरङ्गश्रेणिर्येन तादृशेन, पुनः तरलितबालपुष्करेण तरलितानि-व्याधूतानि, बालपुष्कराणि बालकमलानि येन तादृशेन, पुनः प्रबलसीकरासारसिक्तककुभा प्रबलानां स्थूलानां, सीकराणां-जलकणानाम् , यद्वा प्रबलैः-अव्याहतैः, शीकराणाम् , आसारैः-धारापातैः, सिक्ताः-क्षालिताः, ककुभः-दिशो येन तादृशेन, पक्षे चञ्चलीकृतपुच्छशुण्डाग्रभागेन, पुनः वन्यद्विरदयूथेनेव वन्यानां-वने भवानां, द्विरदानां-हस्तिनां, यूथेनेव-वृन्देनेव, सद्यः तत्क्षणे, जलात्, उत्तीर्णेन ऊर्वमागतेन; पुनः कीदृशम् ? पाल्या दुर्गस्थानीयरक्षकप्रान्तभागेन, परिक्षिप्तं परिवेष्टितम् , कीदृश्या ? वनराजिभिः वनश्रेणिभिः, अन्धकारितया आवृतया, कीदृशीभिः ? निरन्तराभिः अविच्छिन्नाभिः, पुनः तरुणकुन्तलीकुन्तलकलापकान्तिभिः तरुण्याः-युवत्याः, कुन्तल्याः-कुन्तलाख्यजनपदस्त्रियाः, कुन्तलकलापस्येव-केशपाशस्येव, कान्तिः-शोभा यासां तादृशीभिः, पुनः रसातलोल्लासिताभिः पातालोन्नीताभिः, ध्वान्तमालाभिरिव अन्धकारपङ्किभि- - -रिवेत्युत्प्रेक्षा, पुनः उल्लसन्मयूरकेकारवमुखराभिः उल्लसतां-प्रमोदमाप्तानां, नृत्यतामित्यर्थः, मयूराणां, केकारवैः-केकाशब्दैः, मुखराभिः-वाचालाभिः, पुनः शिखरदेशविश्रान्तमत्तसारसाभिः शिखरदेशे-ऊर्ध्वप्रदेशे, विश्रान्ताः-श्रमापनयनाय स्थिताः, सारसाः-पक्षिभेदा यासु तादृशीभिः, पुनः इभकलभकरावकृष्टिविघटमानविटपाभिः इभकलभानां-हस्तिशावकानां, करावकृष्टिभिः-शुण्डादण्डाकर्षणैः, विघटमाना-विश्लिष्यन्तः, विटपाः-शाखा यासां तादृशीभिः, पुनः चटुलवानरवाह्यमानलतादोलाभिः चटुलै:-चापल्यशीलैः, वानरैः-मर्कटैः, वाह्यमाना-आन्दोल्यमाना, लतारूपा दोला यासु तादृशीभिः, पुनः अम्भःपानानन्दनिद्रायमाणश्वापदसंकुलाभिः अम्भःपानानन्देन-जलपानजनिततृया, निद्रायमाणैः-निद्रामनुभवद्भिः, श्वापदैः-हिंस्रपशुभिः, संकुलाभिः-व्याप्ताभिः, पुनः अम्बुगर्भनिर्भरनिभृताभ्रमण्डलीविभ्रमाभिः अम्बुगर्भाणांजलपूर्णोदराणां, निर्भरनिभृतानाम्-अत्यन्तनिःशब्दानाम्, अभ्रमण्डलीनामिव-मेघमालानामिव, विभ्रमः-विलासः शोभेत्यर्थः, यासां तादृशीभिः, पुनः कीदृश्या ? मथनायासमण्डलीभूतया मथनायासेन-समुद्रमन्थनश्रमेण, मण्डलीभूतया-पुञ्जीभूतया, भुजङ्गराजमूत्यैव सर्पराजमूर्येवेत्युत्प्रेक्षा, पुनः अभ्रंलिहशिखरोपशल्यया अभ्रंलिहस्य-गगनचुम्बिनः, शिखरस्यशृङ्गस्य, उपशल्यया-समीपवर्तिन्या; [क] । पुनः कीदृशम् ? अर्णःपूर्ण अर्णसा-जलेन, पूरितोदरम् , किमिव ? त्रिलोकीलतायाः त्रयाणां लोकानां समाहारः-त्रिलोकी त्रिभुवनं, तद्रूपाया लतायाः, आलवालमिव मूलस्थजलाधारमिव; पुनः भूतधाच्या भूताना-प्राणिनां, धात्र्याः-जनन्या उपमातुर्वा पृथिव्याः, कान्तिसन्ततितिरोहितान्तरालं कान्तिसन्तत्या-कान्तिकलापेन, तिरोहितम्-आवृतम् , अन्तरालं-मध्यं यस्य तादृशं, नाभिमण्डलमिव मण्डलाकारनाभिप्रदेशसदृशम् ;
"Aho Shrutgyanam"