________________
तिलकमञ्जरी स्येवावगमितमार्गसहस्यशिशिरसुरभेः, दक्षिणायनान्तविनकृत इव प्रवर्धमानेन तेजसा प्रतिविषसमुत्तर ककुभमाक्रामतः क्रमेण मासाः षडतिजग्मुः [औ]।
__ अथास्ति पश्चिमेनाष्टापदशैलमनतिदूरवर्ती वैताढ्यपर्वतस्य, शिखरोच्छ्रायखर्वितान्तरिक्षो, नितान्तविततावकाशः शिरसि स्निग्धहरिताभिः सर्वत एवान्धकारितो वनलेखाभिः, अनुमेखलं सिद्धायतनमण्डलेषु सिद्धमिथुनैः सततारब्धमङ्गलगीतिः, अगाधसलिलेन सितविशालवालुकापुलिनशालिना समाधिसुखसाधनाय संनिधानाश्रमनिवासिभिस्तापसैः स्थानस्थानरचितचारुमणिशिलावेदिकेन त्रिदशसिन्धुस्रोतसा परिगतः, प्रान्तेष्वविश्रान्तनिर्झरनिनादो, नित्यमुदितनृत्यन्मयूररुतमुखरितासंख्यकन्दरो, लतामन्दिरच्छन्नसुन्दरानेक. सानुरेकशृङ्गो नाम शिखरी [अं]।
तस्य सर्वदा कुसुमफलसमृद्धशाखिनि शिखरपृष्ठे प्रस्थितः समरकेतुरेकदा निदाघसमये महाभोग
टिप्पनकम्-बालचन्दनवृक्षषण्डस्येवाध्वगमितमार्गसहस्यशिशिरसुरभेः एकत्र पथिकक्षुन्नमार्गसमर्थस्य, तथा शीतलसुगन्धेः, अन्यत्र मार्गनीतमृगसिरः पौष-माघ-फाल्गुन-चैत्र-वैशाखस्य [औ]।
व्यतीताः, मार्गसहस्यशिशिरसुरभयः-मार्गः- मार्गशीर्षमासः, सहस्यः-पौषमासः, तदुभयात्मको हेमन्त इत्यर्थः, शिशिरः-माघ
सरभिः-चैत्र-वैशाखात्मको वसन्तऋतश्च येन तादृशस्य, पक्षे अध्वनि-पथि, गमिताः-प्रयापिताः, मार्गसहाः-शैत्यसौरभसाहाय्येन मार्गसहनकर्तारः, पथिका येन तादृशस्य, पुनः शिशिरसुरभेः शीतसुगन्धेः; पुनः दक्षिणायनान्तदिनकृत इव दक्षिणं यत् अयनं-गतिः, मकरसंक्रमणमासादारभ्य मीनसंक्रमणमासपर्यन्तं मासषट्कम् , तस्यान्ते यो दिनकृत्-सूर्यः, तस्यैव, प्रवर्धमानेन अतिदीप्यमानेन, तेजसा मरीचिना, पक्षे उत्साहेन, प्रतिदिवसं प्रतिदिनम् , उत्तरी ककुभं दिशम् , आक्रामतः व्यामुवतः, पक्षे गच्छतः [ औ] ।
अथ अनन्तरम् , अष्टापदशैलं तन्नामकं सुवर्णपर्वतं, पश्चिमेन अदूरपश्चिमदिग्वी; पुनः वैताठ्यपर्वतस्य तन्नामकरूप्यपर्वतस्य, अनतिदूवर्ती किञ्चिदूरस्थः, एकशृङ्गो नाम तत्संज्ञकः, शिखरी पर्वतः, अस्ति वर्तते । कीदृशः ? शिखरोच्छ्रायखर्वितान्तरिक्षः शिखरस्य-शृङ्गस्य, उच्छायेण-औन्नत्येन, खर्वितं-ह्रखतामापादितम् , अन्तरिक्षं-गगनं येन तादृशः; पुनः नितान्तविततावकाशः अत्यन्तविस्तृतचत्वरः; पुनः स्निग्धहरिताभिः स्निग्धाभिः-सरसाभिः, अत एव हरिताभिः-हरितवर्णाभिः, वनलेखाभिः वनपङ्किभिः, सर्वत एव परित एव, अन्धकारितः आवृतः पुनः अनुमेखलं प्रतिनितम्बप्रदेश, सिद्धायतनमण्डलेषु सिद्धानां-देवविशेषाणां यानि आयतनानि-भवनानि, तन्मण्डलेषु-तत्समूहेषु, सिद्धमिथुनैः सिद्धदम्पतिभिः, सततारब्धमङ्गलगीतिः सततम्-अविरतम् , आरब्धा-प्रवर्तिता, मङ्गलगीतिः-माङ्गलिकगानं यस्मिंस्तादृशः; पुनः त्रिदशसिन्धुस्रोतसा त्रिदशसिन्धोः-सुरनद्याः, गङ्गाया इत्यर्थः, स्रोतसा-प्रवाहेण, प्रान्तेषु-सीमास्थानेषु, परिगतः व्याप्तः, कीदृशेन ? अगाधसलिलेन निम्नसीमरहितजलेन, अतिगम्भीरजलेनेत्यर्थः, पुनः सितविशालवालकापुलिनशालिना सिता-शुभ्रा, विशाला-विपुला, वालुका-सिकता, तस्याः पुलिनैः-जलादचिरोत्थितस्थलैः, शालते-शोभते यस्तादृशेन, पुनः समाधिसुखसाधनाय समाधिसौविध्यसम्पादनाय, सन्निधानाश्रमनिवासिभिः समीपस्थाश्रमस्थैः, तापसैः तपखिभिः, स्थानस्थानरचितचारुमणिशिलावेदिकेन स्थाने स्थाने-प्रतिस्थानं, रचिता-कल्पिता, चारुमणिशिलावेदिका-प्रशस्तमणिरूपप्रस्तरमयचतुरस्रभूमियस्मिंस्तादृशेन; पुनः कीदृशः ? अविश्रान्तनिर्झरनिनादः अविश्रान्ताःअविच्छिन्नाः, निर्झराणां-वारिप्रवाहाणां, निनादाः-ध्वनयो यस्मिंस्तादृशः; पुनः नित्यमुदितनृत्यन्मयूररुतमुखरितासंख्यकन्दरः नित्यं-सततं, मुदितानां-मेघागमहृष्टानां, मयूराणां, रुतैः-कूजितैः, मुखरिताः-वाचालिताः, असंख्याः-बहवः, कन्दराः-गुहा यस्मिंस्तादृशः; पुनः लतामन्दिरच्छन्नसुन्दरानेकसानुः लतामन्दिरैः-लतापिहितोदरगृहैः, छन्नाःआवृताः, सुन्दराः-मनोहराः, अनेके सानवः-समभूभागा यस्मिंस्तादृशः [अं]।
सर्वदा सर्वस्मिन् काले, कुसुमफलसमृद्धशाखिनि कुसुमैः-पुष्पैः, फलैश्च समृद्धाः-शाखिनो-वृक्षा यस्मिंस्तादृशे, तस्य प्रकृतपर्वतस्य, शिखरपृष्ठे शिखरो_भागे, प्रस्थितः प्रयातः, समरकेतुः, एकदा एकस्मिन् समये, निदाघसमये
"Aho Shrutgyanam"