________________
६८
टिप्पनक-परागविवृतिसंवलिता । रागकुसुमादिभिरापाद्यमानचित्तप्रसादस्य, कदाचित् प्रेतसाधकस्येव नक्तञ्चराध्यासितासु भूमिषु कुशसंस्तराननुचितानलङ्कणिस्य, कदाचिद् विपक्षभीतभिल्लपतेरिव प्राकृतजनदुरारोहानुपलपल्यङ्कानधिशयानस्य [ऐ], सुहृद्वार्तापलब्धये च मार्गवर्तिषु ग्रामेषु वृद्धार्यलोकानुपसर्पतो, बृहत्सु नगरेषु त्रिचतुराण्यहानि यात्राभङ्गमाचरतः, शबरपल्लीषु रणपराजयप्रतिपन्नदास्यान दस्युसेनापतीनितस्ततः प्रेषयतः, तापसाश्रमपदेषु पृष्टनिमित्तकुलपतिप्रेरितस्य पुरः पुरो गच्छतः, शीघ्रतरलङ्घितानेकसुन्दरार्यजनपदस्य, श्रुतिपरिचितेषु च प्रान्तप्रदेशेषु विकृतभाषावेषसविशेषजनितकौतुकान् कचिदेकचरणान् क्वचिदश्वाननान् कचित् करभकन्धरोदग्रग्रीवान् कचिल्लोमलुप्तसकलावयवदर्शनान् मानुषसमूहानीक्षमाणस्य [ओ], बालचन्दनवृक्षखण्ड
नक्तञ्चराध्यासितासु भूमिषु कुशसंस्तराननुचितानलं कुर्वाणस्य एकत्र नक्तञ्चराः-राक्षसाः, अन्यत्र सिंहादयः, भूमिषु-श्मशानेषु, धरासु, एकत्र संस्तरान् कुर्वाणस्य-विधानस्य, कथम् ? अनुचितानलं-चिताग्निं लक्ष्यीकृत्य, अन्यत्र संस्तरान् अनुचितान्-अयोग्यान् , अलङ्कुर्वाणस्य-भूषयतः, विपक्षभीतभिल्लपतेरिव प्राकृतजनदुरारोहान् पल्लयङ्कानधिशयानस्य एकत्र सामान्यपुरुषदुःखारोहान् पल्ल्या उत्सङ्गान् , अन्यत्र नीचजनदुरारोहान् महार्हस्पस्या()[शय्याः] अधिशयानस्य-आरोहतः [ऐ]।
क्वचिदवसरे, प्रेतसाधकस्येव पिशाचादिसाधनातत्परजनस्येव, नक्तञ्चराध्यासितासु राक्षसाधिष्ठितासु, पक्षे सिंहाद्याश्रितासु, भूमिषु श्मशानभूमिषु, पक्षे पृथ्वीतलेषु, अनुचितान् राजपुत्रायोग्यान् , कुशसंस्तरान् कुशमयकटान् , अलङ्कुर्वाणस्य शोभयतः, पक्षे अनुचितानलं चिताग्निं लक्ष्यीकृत्य, कुर्वाणस्य-विदधानस्य; पुनः कदाचित् कस्मिंश्चित् काले, विपक्षभीतभिल्लुपतेरिव शत्रुत्रस्तवनेचराधिपतेरिव, प्राकृतजनदरारोहान् प्राकृतजनैः-सामान्यजनैः, दुःखेन आरोढुं शक्यान् , उपलपल्यङ्कान् प्रस्तरपर्यङ्कान्, 'प्राकृतजनदुरारोहान् पल्लयङ्कान्' इति पाठे एकत्र सामान्यजनदुःखारोहान् , अन्यत्र नीचजनदुरारोहान् ; एकत्र महार्हशय्याः, अन्यत्र पल्ल्या उत्सङ्गान् ; अधिशयानस्य स्खपतः [ऐ]; च पुनः, सुहृद्वार्तापलब्धये सुहृदः-मित्रस्य, हरिवाहनस्येत्यर्थः, वार्तायाः-समाचारस्य, उपलब्धये-ज्ञानाय, मार्गवर्तिषु मार्गस्थेषु, ग्रामेषु गृहौघेषु, वृद्धार्यलोकान् वृद्धान् आर्यान्-श्रेष्ठांश्च, लोकान्-जनान् , उपसर्पतः उपगच्छतः; पुनः बृहत्सु विशालेषु, नगरेषु, त्रिचतुराणि त्रीणि वा चत्वारि वा, अहानि दिनानि, यात्राभङ्गं प्रयाणधाराविच्छेदम् , आचरतः । कुर्वतः; शबरपल्लीषु शबरजातीयक्षुद्रग्रामेषु, रणपराजयप्रतिपन्नदास्यान् रणेषु-युद्धेषु, पराजयेन प्रतिपन्नं-स्वीकृतं, गृहीतमिति यावत् , दास्य-दासत्वं यैस्तादृशान् , दस्युसेनापतीन् रिपुसेनानायकान् , इतस्ततः अत्र तत्र, प्रेषयतः व्यापारयतः; पुनः तापसाश्रमपदेषु तापसानां-तपस्विनाम् , आश्रमस्थानेषु, पृष्टनिमित्तकुलपतिप्रेरितस्य पृष्टं-जिज्ञासितं, निमित्तं-भ्रमणहेतुर्येन तादृशेन, कुलपतिना-दशसहस्रमुनीनामन्नपानादिभिः पोषणपूर्वकमध्यापकेन प्रेरितस्य-पुरः प्रयातुं व्यापारितस्य, तदुक्तम्-'मुनीनां दशसाहस्रं योऽन्नपानादिपोषणात् । अध्यापयति विप्रर्षिरसौ कुलपतिः स्मृतः ॥; अत एव पुरः पुरः अग्रे अग्रे, गच्छतः, शीघ्रतरलवितानेकसुन्दरार्यजनपदस्य शीघ्रतरम्-अतिसत्वरं, लविताः-अतिक्रान्ताः, अनेके सुन्दरआर्याः-श्रेष्ठाश्च, यद्वा सुन्दराणाम् , आर्याः-श्रेष्ठाः, जनपदा देशा येन तादृशस्य; च पुनः, श्रुतिपरिचिते -श्रवणा मात्रेण, परिचितेषु-श्रुतपूर्वेष्वित्यर्थः, प्रान्तप्रदेशेषु वननिकटवर्तिप्रदेशेषु, विकृतभाषावेषसविशेषज
कान् विकृताभिः-बीभत्साभिः, भाषाभिः, वेषैः-कृत्रिमाङ्गमण्डनैश्च, सविशेषम्-अत्यन्तं, जनितं कौतुकं दिदृक्षारसो यैस्तादृशान् , पुनः क्वचित कुत्रचित् प्रदेशे, एकचरणान् अद्वितीयपादान , पुनः क्वचित कुत्रापि प्रदेशे, अश्वाननान् अश्वस क्वचित् कस्मिंश्चित् प्रदेशे, करभकन्धरोदयग्रीवान् करभः-उष्ट्रः, तस्य कन्धरा-ग्रीवा, तद्वत् उदग्रा-उन्नता ग्रीवा येषां तादृशान् , पुनः क्वचित क्वापि प्रदेशे, लोमलप्तसकलावयवदर्शनान् लोमभिः-रोमसमूहै:, लुप्त-निवारित, सकलावयवदर्शनं-सर्वाङ्गविलोकनं येषां तादृशान् , मानुषसमूहान् मनुष्यगणान् , ईक्षमाणस्य अवलोकमानस्य [ओ]; पुनः बालचन्दनवृक्षखण्डस्येव अभिनवचन्दनवनस्येव, अध्वगमितमार्गसहस्यशिशिरसुरभेः अध्वनि-मार्गे, गमिताः
"Aho Shrutgyanam"