________________
तिलकमञ्जरी तदुपनीतसहायः पुनरचलत् । अनेन च क्रमेण प्रतिदिवसमखण्डितप्रयाणस्य करिकलभकस्येव दूरपातिभिः पदैरध्वनि सर्पतो, यावकरसस्येव वारं वारं लङ्घितमहेलाधरस्य, मारुतेरिव क्रमेणोत्तीर्णदुरवतारसिन्धोः, कदाचिदग्न्याहिताग्नेरिव शुष्कपादपारण्याश्रयिणः, कदाचिदुत्तमप्रकृतेरिव महाजनपदानुसारिणः, कदाचिन्महामुनेरिव फलमूलकन्दैः कल्पिताभ्यवहारस्य, कदाचिदमरस्येव संकल्पमात्रोपनतदिव्याहारस्य, कदाचिदनेरिव शीतलैः प्रस्रवणवारिभिः स्वयंधौतपादस्य, कदाचिदिष्टदैवतस्येव दर्शनानुरक्तजनेन स्नपनवसनाङ्ग
टिप्पनकम्-यावकसरस्येव वारं वारं लच्चितमहेलाधरस्य एकत्र आक्रान्तयोषिदधरौष्ठस्य, अन्यत्र अतिफ्रान्तगुरुपर्वतस्य । मारुतेरिव क्रमेणोत्तीर्णदुरवतारसिन्धोः एकत्र परिपाट्या उत्तीर्णदुःखावतारसमुद्रस्य, अन्यत्र उत्तीर्णदुःखावतारसरितः, मारुतिः-हनूमान् । अग्न्याहिताग्नेरिव शुष्कपादपारण्याश्रयिणः एकत्र शुष्कवृक्षारणिकाष्टाश्रितस्य, अन्यत्र शुष्कवृक्षकान्तारसेविनः । उत्तमप्रकृतेरिव महाजनपदानुसारिणः एकत्र पूज्यजनस्थानानुसृतस्य अन्यत्र बृहद्देशानुगामिनः । महामुनेरिव फलमूलकन्दैः कल्पिताभ्यवहारस्य उभयत्रापि समानम् । अमरस्येव संकल्पमात्रोपनतदिव्याहारस्य एकत्र चिन्तनमात्रोपगतामृताहारस्य, अन्यत्र चिन्तनमात्रागतचारुभोजनस्य । अद्रेरिव वारिभिः धौतपादस्य एकत्र प्रक्षालितपर्यन्तपर्वतस्य, अन्यत्र धौतचरणस्य । इष्टदैवतस्येव दर्शनानुरक्तजनेनापाद्यमानचित्तप्रसादस्य एकत्र दर्शनं -मतम् , अन्यत्र अवलोकनम् , शेषं समानम् । प्रेतसाधकस्येव
कृतगतिप्रतिबन्धं कृतप्रयाणप्रतिबन्धं, तं मित्रधरम् , उपपत्तिभिः स्वप्रयाणसमर्थकयुक्तिभिः, संबोध्य सम्यग बोधयित्वा, प्रतिबन्धाद् वारयित्वेत्यर्थः, च पुनः, सुदरम् अतिदूरं, कृतानुव्रजनं कृतानुगमनं, तं मित्रधर, विनिवर्त्य परावर्त्य, अनपेक्षिततदुपनीतसहायः अनपेक्षितः-उपेक्षितः, तदुपनीतः-तेन-मित्रधरेण, उपनीतः-समर्पितः, सहायः-सार्थगामी येन तादृशः सन् , पुनः अचलत् प्रयातः । अनेन अनुपदवर्णितेन, क्रमेण विधिना, प्रतिदिवसं प्रतिदिनम् , अखण्डितप्रयाणस्य अविच्छिन्नयात्रस्य, समरकेतोरिति शेषः,कमेण पर्यायेण, षड्मासाः, अतिजग्मुः अतिक्रान्ता इत्यग्रेणान्वेति । कीदृशस्य ? करिकलभकस्येव हस्तिशावकस्येव, दूरपातिभिः दूरपर्यन्तोत्क्षेपणशालिभिः, पदैः चरणैः, अध्वनि मार्गे, सर्पतः गच्छतः, पुनः यावकरसस्येव अलक्तरसस्येव, लङ्घितमहेलाधरस्य लचितः-अतिक्रान्तः, महान्-विशालः, इलापृथ्वी धरतीति इलाधरः-पर्वतो येन, पक्षे महस्य-उत्सवस्य, इला-स्थानमिति महेला-नारी, तस्याः, अधरः-ओष्ठः, लङ्घितःआक्रान्तः, व्याप्त इति यावत् , येन तादृशस्य, पुनः मारुतेरिव हनूमत इव, क्रमेण शनैः, उत्तीर्णदुरवतारसिन्धोः उत्तीर्णा-उल्लचिता, दुरवतारा - दुष्प्रवेशा, सिन्धुः-नदी, पक्षे सागरो येन तादृशस्य; पुनः कदाचित् कस्मिंश्चित् काले, अग्न्याहिताग्नेरिव अग्न्याहितस्य-विधिना स्थापिताग्नेः, अग्निहोत्रिण इत्यर्थः, अग्नेरिव, शुष्कपादपारण्याश्रयिणः शुष्काः-नीरसाः, पादपाः-वृक्षा यस्मिंस्तादृशं यत् अरण्य-वनं तदाश्रयिण:-तत्सेविनः, पक्षे शुष्कपादपसम्बन्धी यः, अरणिः-निर्मन्थ्यकाष्ठं, यद्वा पादपः-वृक्षसम्बन्धिकाष्ठं, तथा अरणिः-निर्मन्थकाष्ठं, तदाश्रयिणः; पुनः कदाचित् कस्मिंश्चित् समये, उत्तमप्रकृतेरिव सच्छीलस्येव, महाजनपदानुसारिणः महान्-विशालो यो जनपदः-प्राग्ज्योतिषादिदेशः, पक्षे महाजनस्य-पूज्यजनस्य, यत् पदं-स्थान चरणं वा, तदनुसारिणः-तदाश्रयिणः, पुनः कदाचित् कस्मिंश्चिदवसरे, महामुनेरिव महर्षेरिव, फलमूलकन्दैः कल्पिताभ्यवहारस्य फलेन-कदलीफलादिना, मूलेन-वृक्षशिफया, कन्देन-शूरणेन च, कल्पितः-सम्पादितः, अभ्यवहारः-भोजनं येन तादृशस्य; पुनः कदाचित् कस्मिंश्चित् काले, अमरस्येव देवस्येव, संकल्पमात्रोपनतदिव्याहारस्य संकल्पमात्रेण-चिन्तनमात्रेण, उपनतः-उपस्थितः, दिव्यः-उत्तमः, आहारः-भोज्यवस्तु, पक्षे दिव्याहारः-अमृतं यस्य तादृशस्य; पुनः कदाचित् कस्मि. श्चिदवसरे, अद्रेरिव पर्वतस्येव, शीतलैः शैत्यशालिभिः,प्रस्रवणवारिभिःप्रवाहजलैः,स्वयंधौतपादस्य स्वयं-खेनैव, धौतीप्रक्षालितो, पादौ, पक्षे पादाः-महापर्वतप्रान्तस्थक्षुद्रपर्वता यस्य तादृशस्य; पुनः कदाचित् कस्मिंश्चित् काले, इष्टदै
शित काले दण्व तस्येव इष्टदेवस्येव, दर्शनानुरक्तजनेन तदवलोकनकुतूहलिना लोकेन, पक्षे तन्मतानुरागयुक्तजनेन, स्नपनवसनाङ्गरागकुसुमादिभिः स्नपन-नानीयजलाहरणं, बसनं-परिधानीयार्पणम् , अङ्गरागः- विलेपनद्रव्योपहरणं, कुसुमं-पुष्पमाल्यार्पणं, तदादिभिः-तत्प्रभृतिभिरुपचारैः, आपाद्यमानचित्तप्रसादस्य आपाद्यमानः-सम्पाद्यमानः, चित्तप्रसादः-हृदयप्रीतियेस्य तादृशस्य; पुनः कदाचित्
"Aho Shrutgyanam"