________________
टिप्पनक-परागविवृतिसंवलिता ।
वीभुवा प्रावर्तत []। विलचितालघुपथश्च व्रजन्नपराह्नसमये वनविहारविनिर्गतेन मार्गवर्तिना प्राग्ज्योतिषेश्वरानुजेन मित्रधरनाम्ना समदृश्यत । परिवारविरहाच 'कोऽयम्' इति मुहूर्तमानं कृतविमर्शेन प्रत्यभिज्ञाय विहितप्रणामेन 'युवराज! किंनिमित्तमेवमेकाकिना समागत्य नित्यमसदाचारवनचरप्रचारकलुषा विगतकल्मषा कृतेयमस्मद्भूमिः, अपि कुशली कुमारः' इति ससाध्वसेन पृष्टः समरकेतुरुपविश्य विविक्तदेशे हरिवाहनस्य हस्तिनापहरणमात्मनश्च वैताढ्यभूधरगमनमादितः प्रभृति सप्रपञ्चमाचचक्षे । श्रुताकस्मिकस्वामिदुर्जातजातव्यथेन च स्थित्वा मुहूर्तमवनताननेन तेनोत्थाप्य नीतो निजनिवासमादरेण गृहानीतहरिवाहनप्रायोग्यपूजानिर्विशेषां सपर्यामन्वभूत् [ए]।
प्रभाते च तं कृतगतिप्रतिबन्धमुपपत्तिभिरनेकधा संबोध्य विनिवर्त्य च सुदूरं कृतानुव्रजनमनपेक्षित
बाणसंघातयोग्यया ? जठरजीर्णानेकदिव्यौषधिसमूहयापि व्याधीनां गणैराकान्तया या किल उदरपरिणतनानादिव्यौषधिसंघाता सा कथं रोगैाप्ता, अन्यत्र मध्यशीर्णानेकदिव्यौषधिसमूहया, लुब्धकभार्यासमूहैाप्ता [ल.]।
टिप्पनकम्-दुर्जात-दुःखम् [ए] ।
भल्लशरभरोचितया गौरखरैः-गिलहरीति प्रसिद्धवन्यजन्तुभिः, अच्छभल्लैः-भल्लुकैः, शरभैः-मृगविशेषैश्च, रोचितया-दीप्तया, पक्षे गौरी-उज्ज्वलौ श्वेतौ, खरौ-तीक्ष्णौ, अच्छौ -निर्मलौ च यौ भल्ल-शरौ-कुन्त-बाणौ, तयोर्भरः-पूर्णता, यद्वा-धारणम् , उचितःयोग्यः, यद्वा अभ्यसतः, यद्वा ताभ्यां भरः उत्कर्षों यस्यास्तादृश्या; पुनः जठरजीर्णानेकदिव्यौषधिसमूहयापि जठरेउदरे, जीर्णः- पक्कः, अनेकासां, दिव्यानाम्-उत्तमानाम् , औषधीनां-हरीतक्यादीना, समूहो यस्यास्तादृश्यापि, व्याधीनां रोगाणां, गणैः समूहैः, आक्रान्तया व्याप्तयेति विरोधः, औषधस्य ओषधिविकारतया जीर्णोषधस्य व्याधिगणाक्रमणस्य विरुद्धत्वात् , तत्परिहारस्तु जठरे-मध्ये, जीर्णाः-फलपाकेन शुष्काः, ओषधीनां-फलपाकेन पर्यवसानशीलानां, व्रीहियवादिवृक्षाणां समूहो यस्यास्तादृश्या, व्याधीनां-व्याधस्त्रीणां, गणैः, आक्रान्तयेत्यर्थेन बोध्यः [ल]।
च पुनः, विलचितालघुपथः विलचितः-अतिक्रान्तः, अलघुः-गुरुभूतः, पन्थाः-वन्यमार्गों येन तादृशः, समरकेतुरिति शेषः, व्रजन् गच्छन् , अपरालसमये दिनपश्चाद्भागसमये, वनविहारविनिर्गतेन वनविहारात् प्रत्यागतेन, मार्गवर्तिना मागेस्थेन, प्राग्ज्योतिषेश्वरानुजेन प्राग्ज्योतिषेश्वरस्य-आसामप्रदेशाधिपस्य, अनुजेन-कनिष्ठभ्रात्रा, मित्रधरना केन, समदृश्यत सम्यग् दृष्टः । च पुनः, परिवारविरहात् दृष्टपूर्वादसीयपरिजनाभावात् , 'अयं कः' इति महतमात्रं क्षणमात्रं, कृतविमर्शन विहितभावनेन, प्रत्यभिज्ञाय दृष्टपूर्वः समरकेतुरयमिति प्रतीत्य, विहितप्रणामेन कृतनमस्कारेण, मित्रधरेणेति शेषः, युवराज! कुमार !, एवं अनेन प्रकारेण, एकाकिना अद्वितीयेन, भवतेति शेषः, समागत्य अत्रोपस्थाय, नित्यं अनवरतम् , असदाचारवनचरप्रचारकलुषा असदाचाराणां-दुराचाराणां, वनचराणां-शबरनिषादादीनां, प्रचारैः-गमनागमनैः, कलुषा-दूषिता, इयं प्रत्यक्षभूता, अस्मभूमिः अस्माकं भूमिः, किंनिमित्तं किमर्थ, विगतकल्मषा स्वपादारोपणेन निष्पापा पापरहिता पवित्रेति यावत् , कृता सम्पादिता । अपि किमु, कुमारः हरिवाहनः, कुशली कुशलवान , अस्तीति शेषः, इति इत्थं, ससाध्वसेन तदीयाकुशलभयसहितेन, पृष्टः जिज्ञासां ज्ञापितः, समरकेतुः, विविक्तदेशे विजने स्थाने, उपविश्य, हरिवाहनस्य, हस्तिना वैरियमदण्डाभिधानेन प्रकृतप्रधानगजेन, तत्कर्तृकमित्यर्थः, अपहरणं अपहारवार्ताम् , च पुनः, आत्मनः खस्य, वैताठ्यभूधरगमनं तदाख्यपर्वतगमनवार्ताम् , आदितः प्रभृति आरभ्य, सप्रपञ्चं सविस्तरम् , आचचक्षे उक्तवान् । श्रुताकस्मिकस्वामिदुर्जातजातव्यथेन श्रुतेन-श्रवणगोचरीकृतेन, आकस्मिकेन-अतर्कितोपनतेन, वामिनः-हरिवाहनस्य, दुर्जातेन-दुर्घटनया, जाता-उत्पन्ना, व्यथा-दुःखं यस्य तादृशेन, अत एव अवनताननेन नम्रीकृतमुखेन, तेन मित्रधरेण, महत क्षणं, स्थित्वा मौनमास्थाय, उत्थाप्य उन्नीय, आदरेण प्रीत्या, निजनिवासंखभवन, नीतः प्रापितः, गृहानीतह रिवाहनप्रायोग्यपूजानिर्विशेषाम् , गृहानीतस्य-स्वगृहमुपस्थापितस्य, हरिवाहनस्य-प्रायोग्याप्रयोक्तुमुचिता, या पूजा तनिर्विशेषां-तत्तुल्या, सपर्या पूजाम् , अन्वभूत् प्राप्तवान् [ए] च पुनः, प्रभाते प्रातः समये
"Aho Shrutgyanam"