________________
तिलकमञ्जरी वासाभिः शबरपल्लीभिरध्यासितविषमपर्वतोद्देशया, क्वचिद् दावदहनाश्लिष्टवंशीवनश्रूयमाणश्रवणनिष्ठरष्टात्कारया, कचिदकुण्ठकण्ठीरवारावचकितसारङ्गलोचनांशुशारया, कचित् तरुतलासीनशबरीविरच्यमानकरिकुम्भमुक्ताशबलगुञ्जाफलप्रालम्बया, क्वचिदधःसुप्तहप्ताजगरनिःश्वासनर्तितमहातरुस्तम्बया, कचिदुदश्रुकणिकश्वागणिकशोच्यमानकोलदलितनिःसन्दसारमेयवृन्दया, कचित् प्रचारनिर्गतवनेचरान्विष्यमाणफलमूलकन्दया [ल], क्वचिच्छेकशाखामृगाच्छिन्नपाथेयपथिकनिष्फललोष्टवृष्टिहासिताटविकवर्गया, कचिच्चर्मलुब्धलुब्धकानुबध्यमानमार्गणप्रहतमर्मद्वीपिमार्गया,सापराधवध्वेव प्रियालपनसफलीभूतपादपातनिष्ठया, वीरपुरुषतूण्येव गौरखराच्छभल्लशरभरोचितया, जठरजीर्णानेकदिव्यौषधिसमूहयापि व्याधीनां गणैराक्रान्तया, गन्तुमट
टिप्पनकम्-कण्ठीरवः-सिंहः [ल]। सापराधवध्वेव प्रियालपनसफलीभूतपादपातनिष्टया एकत्र प्रियालापेन सफलीभूतं चरणपतनकष्टं यस्याः सा तथोक्ता तया, अन्यत्र प्रियाल-पनस-प्रियङ्गु-बिभीतकवृक्षातनिष्टया, धीरपुरुष
गौरखराच्छभल्लशरभरोचितया एकत्र गौरखर-अच्छभल्ल-शरभशोभितया, अन्यत्र उज्वलतीक्ष्णस्वच्छ कुन्त
वाचालिताः, अङ्गणस्थितवृक्षाणां शाखा यासा तादृशीभिः, पुनः अधर्मनगरीभिरिव पापपुरीभिरिव, कृतयुगभयात् सत्ययुगभयात्, गृहीतवनवासाभिः गृहीतः-खीकृतः, वनवासः-धर्माचरणार्थ वने वासो याभिस्तादृशीभिः; पुनः कीदृश्या? क्वचित् कुत्रापि प्रदेशे, दावदहनाश्लिष्टवंशीवनश्रूयमाणश्रवणनिष्ठुरष्टात्कारया दावदहनेन-बनामिना, आश्लिष्टेआक्रान्ते, वंशीवने-क्षुद्रवेणुवने, श्रूयमाणः-श्रवणगोचरीक्रियमाणः, श्रवणनिष्ठुरः-श्रवणकठोरः, ष्टात्कारः-ध्वनिविशेषो यस्यां तादृश्या; पुनः क्वचित् कुत्रचित् स्थाने, अकुण्ठकण्ठीरवारावचकितसारङ्गलोचनांशुशारया अकुण्ठैः-अविरतैः, कण्ठीरवाणां-सिंहानाम् , आरावैः-निनादैः, चकितानां-सम्भ्रान्तानां, सारङ्गलोचनानां-हरिणनेत्राणाम् , अंशुभिः-रश्मिभिः, शारया-शबलया; पुनः क्वचित् कस्मिंश्चित् प्रदेशे, तरुतलासीनशबरीविरच्यमानकरिकुम्भमुक्ताशबलगुञ्जाफलप्रालम्बया तरुतलासीनाभिः-वृक्षाधःस्थलोपविशन्तीभिः, शबरीभिः-शबरजातीयस्त्रीभिः, विरच्यमानं-प्रथ्यमानं, करिकुम्भमुक्ताशबलं-हस्तिमस्तकाहृतमुक्तामणिचित्रं, गुञ्जाफलप्रालम्बं-गुञ्जाफलसम्बन्धि ऋजु कण्ठलम्बि माल्यं यस्यां तादृश्या; पुनः क्वचित कुत्रापि प्रदेशे, अधःसुप्तदृप्ताजगरनिःश्वासनर्तितमहातरुस्तम्बया अधः-मूलस्थले, सुप्तानां-शयितानां, दृप्तानां दर्यान्वितानाम् , अजगराणां-तज्जातीयमहासाणां, निःश्वासैः-नासिकोद्गतपवनैः, नर्तिताः-उत्क्षिप्ताः, महातरुस्तम्बा-महावृक्षकाण्डा यस्यां तादृश्या; पुनः क्वचित् कुत्रापि स्थाने, उदश्रुकणिकश्यागणिकशोच्यमानकोलदलितनिःस्पन्दसारमेयवन्दया उद्गताः, अश्रकणिकाः-नेत्राम्बुकणा येषां तादृशैः, श्वागणिकैः-श्वगणेन-कुक्करगणेन, चरन्तीति श्वागणिकास्तैः, शोच्यमानं, कोलैः-शूकरैः, दलितं-खण्डितम् , अत एव निःस्पन्द-निश्चेष्टं, सारमेयवृन्द-कुकुरकलापो यस्यां तादृश्या; पुनः क्वचित् क्वापि स्थाने, प्रचारनिर्गतवनेचरान्विष्यमाणफलमूलकन्दया प्रचारनिर्गतैः-निवृत्तयात्रैः, मार्गनिर्गतैर्वा, वनेचरैः-शबरादिभिः, अन्विष्यमाणानि-गवेष्यमाणानि, फलानि, मूलानि कन्दाः-शूरणाश्च यस्यां तादृश्या [ल]। पुनः क्वचित कस्मिंश्चित् प्रदेशे, छेकशाखामृगाच्छिन्नपाथेयपथिकनिष्फललोष्टवृष्टिहासिताटविकवर्गया छेकैः-गृहासक्तपक्षिभिः, चतुरैर्वा, शाखामृगैः-मर्कटैश्च, आच्छिन्नं-बलाद्गृहीतं, पाथेयं-पथि-मार्गे भोज्यं वस्तु येषां तादृशैः, पथिकैःमार्गगामिभिः, निष्फललोष्टवृष्ट्या-व्यर्थमृत्खण्डप्रहारैः, हासितः-हासमापादितः, आटविकवर्ग:-वन्यजनता यस्यां तादृश्या; पुनः क्वचित कुत्रापि स्थले, चर्मलब्धलब्धकानुबध्यमानमार्गणप्रहतमर्मद्वीपिमार्गया चर्मलुब्धैः-चर्माभिलाषिभिः लुब्धकैः-व्याधैः, अनुबध्यमानः-निरुध्यमानः, मार्गणैः-बाणैः, प्रहतं-व्रणितं, मर्म-हृदयादिस्थानं येषां तादृशाना, द्वीपिनांव्याघ्राणां, मार्गो यस्यां तादृश्या; मार्गस्थाने वर्गेति पाठे अनुबध्यमानः-गाढबन्धनमापाद्यमानः, तादृशो वर्गः समूहो यत्र तादृश्या; पुनः सापराधवध्वेव कृतापराधनार्येव, प्रियालपनसफलीभूतपादपातनिष्ठया प्रियालैः-तदाख्यवृक्षविशेषैः, पनसैः-स्वनाम्ना लोकप्रसिद्धवृक्षः, फलीभिः-प्रियङ्गवृक्षैः, भूतपादपैः-“भूतवृक्षस्तु शाखोटे स्योनाककलिवृक्षयोः” इत्युक्तैर्वक्षविशेषैः, अतनिट्या-समृद्धया, पक्षे प्रियालपनेन-प्रियकर्तृकालापेन, सफलीभूता-पफला, पादपातस्य-प्रियपादयोः पतनस्य, निष्टा-क्लेशो यस्यास्तादृश्या, पुनः वीरपुरुषतूण्येव वीरपुरुषाणां-भटजनाना, तूण्या-बाणाधारपात्रेण, इव, गौरखराच्छ
९ तिलक
"Aho Shrutgyanam"