________________
टिप्पनक-परागविवृतिसंवलिता। वानिशमविश्रान्तनिनादैरापानकमर्दलैर्दूरादेव सूच्यमानसंनिवेशामिः प्रतिचुल्लि पच्यमानशूलीकृतानेकश्वापदपिशिताभिः प्रतिनिकुञ्जमाकर्ण्यमानबन्दीजनाक्रन्दाभिः प्रतिवसति विभज्यमानतस्कराहृतवापतेयाभिः प्रतिडिम्भमुपदिश्यमानमृगमोहकारिकरुणगीताभिः प्रतिजलाशयमासीनानायब डिशहस्तकैवर्ताभिः प्रतिदिवसमन्विष्यमाणचण्डिकोपहारपुरुषाभिधृताधिज्यधनुषा निभृतमुच्चारितचण्डिकास्तोत्रदण्डकेन सर्वतः प्रहितभयतरलदृष्टिना त्रयीभक्तनेव गाढाञ्चितहिरण्यगर्भकेशवेशेन देशिकजनेन लघुतरोल्लङ्घयमानपरिसरा भिः [ऋ], 'एत एत शीघ्रम् , इत इतो निरुन्ध्वमध्वानम् , अस्य हस्ते प्रभूतमृक्थम् , अयमुत्पथेन पलायितुकामः' इत्यनवरतमुच्चारयता पञ्जरशुकसमूहेन मुखरिताङ्गणवृक्षशाखाभिरधर्मनगरीभिरिव कृतयुगभयाद् गृहीतवन
. टिप्पनकम् - उपहारः-बलिः । त्रयीभक्तेनेव गाढाञ्चितहिरण्यगर्भकेशवेशेन एकत्र अत्यर्थपूजितब्रह्मविष्णुशङ्करेण, अन्यत्र निबिडाबद्धसुवर्णमध्यकचस्थानेन [ऋ]।
ब्राह्मणाः "ब्राह्मणः क्षत्रियो वैश्यस्त्रयो वर्णा द्विजातयः” इति वचनात् ब्राह्मण-क्षत्रिय-वैश्या वा यासु तादृशीभिः, पुनः दिवानिशं रात्रिंदिवम् , अविश्रान्तनिनादैः अविरतध्वनिभिः, आपानकमर्दलैः मदिरापानगोष्टीस्थवाद्यविशेषैः, दरादेव दूरदेशादेव, सूच्यमानसन्निवेशाभिः सूच्यमानः-प्रत्याय्यमानः सन्निवेशः-संस्थानं यासां तादृशीभिः, पुनःप्रतिल्लि प्रत्येकचुल्लिकायां. पच्यमानशलीकृतानेकश्वापदपिशिताभिः पच्यमानानि-पाकेन संस्क्रियमाणानि, शूलीकृतानां-शस्त्रविशेषहतानाम्, अनेकेषां-बहूनां, श्वापदानां-हिंस्रपशूनां, पिशितानि-मांसानि यासु तादृशीभिः, पुनः प्रतिनिकुञ्ज प्रत्येकलतापिहितोदरगृहे, आकर्ण्यमानबन्दीजनाक्रन्दाभिः आकर्ण्यमानः-श्रूयमाणः, बन्दीजनानां निगडबद्धलोकानाम् , आक्रन्दः-रोदनकोलाहलो यासु तादृशीभिः, पुनः प्रतिवसति प्रतिगृह, विभज्यमानतस्करापहृतस्वापतेयाभिः विभज्यमानानि-वण्ट्यमानानि, तस्करैः-चौरैः, अपहृतानि चोरितानि, खापतेयानि-धनानि यासु तादृशीभिः, पुनः प्रतिडिम्भं प्रतिबालकम् , उपदिश्यमान मृगमोहकारिकरुणगीताभिः उपदिश्यमानानि-शिक्ष्यमाणानि, मृगमोहकारीणि-हरिणहृदयाकर्षकाणि, करुणगीतानि-करुणरसाप्लुतगीतानि यासु तादृशीभिः, पुनः प्रांतजलाशयं प्रत्येकजलाशयेषु, आसीनानायबडिशहस्तकैवतोभिः आसीनाः उपविष्टाः, आनायबडिशहस्ताः-आनाया:-मत्स्यग्रहणार्थ सूत्रनिर्मितजालानि, बडिशानि-मत्स्यवेधकलोहकण्टकमयाः पदार्थाः, हस्ते येषां तादृशाः, कैवर्ताः-धीवरा यासु तादृशाभिः, पुनः प्रतिदिवसं प्रतिदिनम् , अन्विष्यमाणचण्डिकोपहारपुरुषाभिः अन्विष्यमाणः-गवेष्यमाणः, चण्डिकाया:-नरबलिप्रियाया देव्याः, उपहारः-बलिभूतः, पुरुषो यासु तादृशीभिः, पुनः देशिक- .. जनेन यात्रिकलोकेन, लघतरोलजन्यमानपरिसराभिः लघुतरं--शबराक्रमणभयेन क्षिप्रतरम् , उल्लङ्घयमानः-अतिक्रम्यमाणः, परिसरः-पर्यन्तभूमिर्यासां तादृशीभिः, कीदृशेन ? धृताधिज्यधनुषा धृतं-तदाक्रमणभयेन गृहीतम् , अधिज्यं-ज्यां-मौर्वीम् , अधिरोपितम् , आकृष्टमित्यर्थः, धनुर्यन तादृशेन, पुनः निभृतं निश्चलं अधरस्पन्दनरहितमित्यर्थः, वैखरीध्वनिवर्जितमिति यावत्, यथा स्यात् तथा, उच्चारितचण्डिकास्तोत्रदण्डकेन उच्चारित-उपांशुपठितं, चण्डिकायाः-देव्याः, स्तोत्रं-"दस्युभिर्वा वृतः शून्ये गृहीतो वापि शत्रुभिः । सिंहव्याघ्रानुयातो वा वने वा वनहस्तिभिः॥ स्मरन्ममैतच्चरितं नरो मुच्येत संकटात्" इत्येतादृशमाहात्म्यकं मार्कण्डेयपुराणान्तर्गतस्तोत्रमेव, दण्डक-सप्तशतीश्लोकात्मकतया दण्डाकारकं येन तादृशेन, पुनः सर्वतः चतुर्दिक्षु, प्रहितभयतरलदृष्टिना प्रहिते-व्यापारिते, भयतरले-शबरकर्तृकाक्रमणभयचञ्चले, दृष्टी-लोचने येन तादृशेन, पुनः त्रयीभक्तेनेव ऋग-यजुष्-सामाख्यवेदत्रयोपासकेनेव, गाढाश्चितहिरण्यगर्भकेशवेशेन गाढं-अत्यन्तम् , अञ्चितः - आकुञ्चितः, आबद्ध इत्यर्थः, हिरण्यगर्भः-अन्तर्गतसुवर्णः, केशवेशः-केशविन्यासः, कबरीबन्ध इत्यर्थः, येन तादृशेन, पक्षे गाढ़म्-अत्यन्तम् , अञ्चितः-पूजितः, हिरण्यगर्भः-ब्रह्मा, केशवः-विष्णुः,ईशः-शिवश्च येन तादृशेन. [ऋ पुनः कीदृशीभिः? सीधं सत्वरम एत एत आगच्छत आगच्छत, द्विवचनमत्र सम्भ्रमार्थे बोध्यम् , इत इतः अत्र अत्र, अध्वानं मार्गम् , निरन्ध्वम् आवृणुध्वम् , अस्य पुरोवर्तिजनस्य, हस्ते, प्रभूतं प्रचुरम् , ऋक्थं धनम् , अयं प्रत्यक्षभूतो जनः, उत्पथेन विपरीतमार्गेण, पलायितुकामः धावितुमिच्छुः, अस्तीति शेषः, इति इत्थम् , अनवरतं निरन्तरम् , उच्चारयता यथाश्रुताभ्यासं पठता, पञ्जरशकसमूहेन पञ्जरो नाम-पक्षिनियन्त्रणयन्त्रः, तत्र नियन्त्रितशुकगणेन, मुखरिताङ्गणवृक्षशाखाभिः मुखरिताः
"Aho Shrutgyanam"