________________
तिलकमञ्जरी
६३
तलगम्भीरभीमगह्वरया, समरभूम्येव साहसरहितजनदुष्प्रवेशया, शिथिलमूलदुर्बलजटाजालकैः परस्परावकाशमिव दातुमप्रसारितशाखा मण्डलैस्तारकानिकुरुम्बमिव कुसुमस्तबकतां नेतुमम्बराग्रलमैः सरलसर्जार्जुनकरञ्जशाकशल्लकीप्रायैः पादपैरपास्तदिनकरोदयास्तमयदर्शनया, दुरवतातुङ्गतटाभिरुत्को टिपाषाणपटलस्खलन बहुमुखप्रवृत्तमुखर श्रोतोजला भिरनतिनि बिडनिर्गुण्डीलतागुल्म गुपिली कृतोपलवालुका बहुलविच्छिन्नान्तरालपुलिनाभिरुच्छलत्कूलनलव ननिलीन नाहलनिवह्काहलकोलाहलाभिः शैलनिम्नगाभिर्निम्नीकृतान्तरालया [ ऋ ], वनान्तरालसर्पिभिस्तार तुमुलैर्मरुद्भिरिव दिङ्मुखेषु मुखरिताद्रिकुहरकुञ्जः काहलाकूजितैः सूचितापतत्सुचिरसंग लितजनसंघातया, युवजनादतिरेकनिर्विवेकस्थविराभिर्निषादलोकादधिकनिर्दयद्विजातिभिर्दि
टिप्पनकम् — काहलः - अव्यक्तः [ ऋ ] ।
सरन् आश्रयन्, 'अटवीभुवा वन्यभूम्या, गमनाय, प्रावर्तत प्रवृत्तः' इत्यप्रेणान्वेति कीदृश्या ? रसातलगम्भीरभीमगह्वरया रसातलं - पातालं, तद्वद् गम्भीरः - निम्नः, भीमः - भयंकरः, गह्वरः- गुहा यस्यां तादृश्या; पुनः समरभूम्या इव संग्रामभूम्या इव साहसरहितजन दुष्प्रवेशया साहसरहितैः - असाहसिकैः, जनैः, दुष्प्रवेशया - दुःखेन प्रवेष्टुं शक्ययाः पुनः पादपैः वृक्षैः, अपास्तदिनकरोदयास्तमयदर्शनया अपास्तं निवारितं, दिनकरस्य - सूर्यस्य, उदयास्तमययोः - उद्गमनास्तंगमनयोः, दर्शनं यस्यां तादृश्या, कीदृशैः ? शिथिलमूलदुर्बलजटाजालकैः शिथिलं विशीर्ण, मूलं येषां तादृशैः, अत एव दुर्बलं-क्षीणं, विघटितमिति यावत्, जटाजालं - शिफासंघातो येषां तादृशैः, पुनः परस्परावकाशं परस्परस्य - अन्योऽन्यस्य, अवकाशं-अवस्थितिसम्पादकं देशं दातुं सम्पादयितुम्, इव अप्रसारितशाखामण्डलैः अविस्तारितशाखा समूहैः, पुनः तारकानिकुरम्बं नक्षत्रमण्डलं, कुसुमस्तबकतां वपुष्पगुच्छरूपतां नेतुं सम्पादयितुमित्र, अम्बराग्रलग्नैः गगनाप्रसंसृष्टैः, पुनः सरलसर्जार्जुनशाकशल्लकीप्रायैः तत्तज्जातीयवृक्षप्रचुरैः; पुनः कीदृश्या ? शैलनिम्नगाभिः पर्वतीयनदीभिः, निम्नीकृतान्तरालया निम्नीकृतं - नीचैस्त्वमापादितम्, अन्तरालम् - अभ्यन्तरं, मध्यमिति यावत्, यस्यास्तादृश्या, कीदृशीभिः ? दुरवतार तुङ्गतटाभिः दुरवतारः - दुष्करः, अवतारः - अधस्ताद्गमनं येभ्यस्तादृशाः, तुङ्गाः- उन्नताः, तटा यासां तादृशीभिः पुनः उत्कोटिपाषाणपटलस्खलन बहुमुख प्रवृत्तमुखरथ्रोतोजलाभिः उत्-उन्नता, कोटि :- अग्रभागो यस्य तादृशे, पाषाणपटले - प्रस्तरराशौ, स्खलनेन - विनिपातेन, बहुमुखप्रवृत्तानि - अभितः स्यन्दितुमुपक्रान्तानि, मुखराणि - शब्दायमानानि, स्रोतांसिप्रवाहा येषां तादृशानि जलानि यासु तादृशीभिः, पुनः अनतिनिविड निर्गुण्डीलतागुल्म गुपिली कृतोपलवालुका बहुलविच्छिन्नान्तरालपुलिनाभिः अनतिनिबिडाभिः - किञ्चित्सान्द्राभिः, निर्गुण्डीनाम्नीभिर्लताभिः, गुल्मैः - स्कन्दरहिततरुभिश्च, गुपिलीकृतानि - समृद्धीकृतानि, व्याप्तानीति यावत् उपलानां प्रस्तराणां वालुकानां - सिकतानां च यद्वा प्रस्तरसम्बन्धिसिकतानां बहुलेन - राशिना, विच्छिन्न । नि-आवृतानि, व्याप्तानीति यावत्, अन्तरालपुलिनानि - मध्यवर्त्यचिरनिर्गतजलस्थलानियासां तादृशीभिः, यद्वा पिली कृतानि - आवृतानि, उपलवालुका बहुलानि - प्रस्तरसिकताप्रचुराणि विच्छिन्नान्तरालानि संलग्नानि च पुलिनानि यासां तादृशीभिः, पुनः उच्छलत्कूलनलवननिलीननाहलनिवहकाहलकोलाहलाभिः उच्छलन्तः - उद्गच्छन्तः, कूलनलवननिलीनस्य-कूलेषु--तटेषु, यानि नलानां तृणविशेषाणां वनानि तेषु निलीनस्य - प्रच्छन्नस्य, नाहलनिवहस्य - म्लेच्छजातिविशेषसमूहस्य, काहलकोलाहलाः - काहलाः - अव्यक्ताः, कोलाहलाः --ध्वनिविशेषा यासां तादृशीभिः ; [ ऋ ] । पुनः कीदृश्या ? काहलाकूजितैः वाद्यविशेषध्वनिभिः सूचितापतत्सुचिरसंगलितजनसंघातया सूचितः - प्रत्यायितः, आपतन्आगच्छन्, सुचिरसंगलितः - अतिदीर्घकालविघटितः, जनसंघातो यस्यां तादृश्या, कीदृशैः ? वनान्तरालसर्पिभिः वनमध्यव्यापिभिः, पुनः तार तुमुलैः अत्युच्च गम्भीरैः, पुनः मरुद्भिरिव पवनैरिव, दिङ्मुखेषु दिगन्तेषु, मुखरिताद्रि कुहरकुः मुखरितानि - शब्दायमानानि, अद्विकुहराणि - पर्वतगुहाः, कुञ्जाः - लता पिहितोदरगृहाच यद्वा पर्वतगुहास्थ कुजा यैस्तादृशैः; पुनः कीदृश्या ? शबरपल्लीभिः शबराणां म्लेच्छजातिविशेषाणां, पल्लीभिः क्षुद्रतरगृहौघैः, अध्यासितविषमपर्वतोद्देशया अध्यासिताः-अधिष्ठिताः, विषमाः - निम्नोन्नताः, पर्वतोद्देशाः - पर्वतप्रदेशा यस्यां तादृश्या, कीदृशीभिः ? युवजनात् तरुणलोकापेक्षयापि, अतिरेकनिर्विवेकस्थ विराभिः अतिरेकनिर्विवेकाः - अत्यन्तविवेकशून्याः, स्थविराः - वृद्धजना यासु तादृशीभिः पुनः निषादलोकात् चाण्डालजातिविशेषजनादपि, अधिकनिर्दय द्विजातिभिः अधिकनिर्दयाः - अत्यन्तदयाशून्याः, द्विजातयः
"Aho Shrutgyanam"