________________
टिप्पनक-परागविवृतिसंवलिता । शिवं शंसद्भिरभिप्रेतसाधकैः शैवैरिव प्रधानशकुनैः पदे पदे दत्तनिर्वृतिः शर्वरीमनयत् [ई ] । उद्गते च स्पष्टिताष्टदिङ्मुखे दशशतमयूखे पृष्ठतोऽन्वेष्टुमापतन्तमात्मनोऽभिलषितस्य प्रत्यूहभूतमभ्यूहमानो भूपतिसमूहमपहाय तमनेकपथिकलोकप्रहतमुत्पांशुलं मार्गम् , अपरेण पतितशीर्णतरुपर्णनिकरावकीर्णेन कान्तारवर्मना प्रयत्ननिहितपदपद्धतिः प्रतस्थे । लजितानेकसमविषमभूधरधराविभागलब्धश्रमश्च तिरश्चीनलुलितरविबिम्बशेखरेण विश्रामार्थमभ्यर्थित इव नतेन किञ्चिन्मध्याह्नसमयेनैकत्र पत्रललतागुल्मगुपिले विपुलसान्द्रच्छायशाखिनि सानुमत्प्रस्थे स्थितिमकरोत् [3] ।
अतिवाहितक्लमश्च कञ्चित् कालमुत्थाय गत्वा गिरिनदीस्रोतसि स्नात्वा कृत्वा च देवतार्चनादिकं क्रियाकलापमल्पप्रयत्नासादितानि स्वादुसुरभीणि पादपफलान्यभ्यवजहार । पीतनीहारशिशिरनिर्झरोदकश्च नीत्वा पराह्नसमयमुपस्थिते सायाह्नि कृतसंध्यावश्यकः प्रविश्य पर्वतगुहां सुष्वाप [ऊ] ।
क्षपावसाने च क्षपितनिद्रः श्वापदारावैरुत्थाय शयनाद् गृहीतशस्त्रस्तमेव मार्गमतिदुर्गमनुसरन् रसा
शिवं कल्याणं, पक्षे शङ्करं, शंसद्भिः सूचयद्भिः, पक्षे स्तुवद्भिः, पुनः अभिप्रेतसाधकैः वाञ्छितार्थसम्पादकैः, पक्षे अभिसमन्तात् सामीप्ये, प्रेतं-वेतालं, साधयन्ति ये ते अभिमतप्रेतसाधकास्तैः [ई]। च पुनः, स्पष्टिताष्टदिङ्मुखे स्पष्टितानि
सितानीति यावत् , अष्टानां दिशां मुखानि-अग्रभागा येन तादृशे, दशशतमयखे सहस्रकिरणे, सूर्ये इति यावत् , उद्गते उदिते सति, पृष्ठतः पश्चाद्भागे, अन्वेष्टुम् अन्वेषणार्थम् , आपतन्तं आगच्छन्तं, भूपतिसमूह नृपगणम् , आत्मनः खस्य, अभिलषितस्य अभिप्रेतस्य, प्रत्यूहभूतं विघ्नरूपम् , अभ्यूहमानः वितर्कयन् , अनेकपथिकलोकप्रहतम् अनेकैः बहुभिः पथिकलोकैः-मार्गगामिजनैः, प्रहतं-पादैरभिहतम् , अत एव उपांशुलं उद्धृतधूलिमयं, तं नृपगणानुस्रियमाणं, मार्ग पन्थानं, अपहाय त्यक्त्वा, अपरेण अन्येन, कान्तारवर्मना वन्यमार्गेण, प्रतस्थे प्रयातवान् । कीदृशः ? पतितशीर्णतरुपर्णनिकरावकीर्णेन पतितैः-गलितैः, शीर्णानां-जीर्णानां, तरूणां-वृक्षाणां, पर्णनिकरैः-पत्रगणैः, अवकीर्णेन व्याप्तेन, आवृतेनेति यावत्, प्रयत्ननिहितपदपद्धतिः प्रयत्नेन-आयासेन, निहिता-स्थापिता, पदपद्धतिः-पादपतिर्येन तादृशः। च पुनः, लजितानेकसमविषमभूधरधराविभागलब्धश्रमःलचितैः-अतिक्रान्तः, अने समस्थलरूपैः, विषमैः-निम्नोन्नतैश्च, भूधराणां-पर्वतानां, धराविभाग:-भूमिप्रदेशैः, लब्धश्रमः-अनुभूतक्लेशः, तिरश्चीनललितरविबिम्बशेखरेण तिरश्चीनं-कुटिलं यथा स्यात् तथा, लुलितं-लम्बितं, रविबिम्बमेव-सूर्यमण्डलमेव, शेखरः-शिरोऽलङ्करणं, मुकुटमित्यर्थः, यस्य तादृशेन, अत एव किश्चित् ईषत्, नतेन नम्रीभूतेन, मध्याह्नसमयेन लिङ्गसाम्यात् तत्समयरूपदयालुजनेन, विश्रामार्थ तदीयश्रमापनयनार्थम् , अभ्यर्थित इव प्रार्थित इवेत्युत्प्रेक्षा, एकत्र एकस्मिन् प्रदेशे, पत्रललतागुल्मगुपिले पत्रलाभिः-पत्राव्याभिः, लताभिः, गुल्मैः-निःस्कन्धतरुभिश्च, गुपिले-संकुले, पुनः विपुलसान्द्रच्छायशाखिनि विपुलाः-प्रचुराः, सान्द्रच्छायाः- निबिडानातपाः, शाखिनः-वृक्षा यस्मिंस्तादृशे, सानुमत्प्रस्थे पर्वतीयसमभूमिभागे, स्थिति विश्रामम् , अकरोत् कृतवान् [उ]।
च पुनः, कश्चित् कियन्तं, कालम् , अतिवाहितक्लमः निवर्तितश्रमः सन् , उत्थाय गत्वा, गिरिनदीस्रोतसि पर्वतीयनदीप्रवाहे, स्नात्वा शरीरशुद्धिं विधाय, च पुनः, देवतार्चनादिकं देवपूजनादिकं, क्रियाकलापं कार्यजातं, कृत्वा सम्पाद्य, अप्रयत्नासादितानि अनायासलब्धानि, स्वादुसुरभीणि मधुरसुगन्धीनि, पादपफलानि वृक्षफलानि, अभ्यजहार भुक्तवान् । च पुनः, पीतनीहारशिशिरनिर्झरोदकः पीतं-पानकर्मीकृतं, नीहारेण - हिमेन, शिशिरं-शीतलं, निर्झरोदकं प्रवाहजलं येन तादृशः, अपराह्मसमयं दिनपश्चिमार्धकालं, नीत्वा व्यतीत्य, सायाह्नि सन्ध्यासमये, उपस्थिते प्राप्ते सति, कृतसन्ध्यावश्यकः अनुष्ठितसायंकालिकावश्यककृत्यः, पर्वतगुहां पर्वतकन्दरां, प्रविश्य, सुष्वाप अशयिष्ट [ ऊ]।
च पुनः, क्षपावसाने रात्र्यन्ते, श्वापदारावैः हिंस्रवन्यपशुशब्दैः, क्षपितनिद्रः त्यक्तनिद्रः सन् , शयनात् शय्यातः, उत्थाय, गृहीतशस्त्रः गृहीतखड्गः सन् , अतिदुर्ग अतिदुःखेन गन्तुं शक्यं, तमेव आरूढमेव, मार्गम् , अनु
"Aho Shrutgyanam"