________________
तिलकमञ्जरी कोमलनीलकिरणनिवहमवहिताभिः प्रस्थानमङ्गलविधावायुधागारदेवताभिरभिनवदलै किन्दलैरिवावकीर्णमादाय विपदापगासंतरणसेतुमार्ग खड्गमतिगुरुखड्गभारखेदितेनेव स्पन्दमानेन तत्क्षणं दक्षिणेन भुजदण्डेन व्य ञ्जितारब्धकार्यसिद्धिराविजयार्धपर्वतादध्यवसितकुमारान्वेषणो वैश्रवणवल्लभां दिशं प्रत्युदचलत् [इ] ।
चरणपल्लवोत्क्षेपसमकालमुत्थितेन च स्थगयता दिगन्तराणि तारमधुरेणैकतो यामशङ्खरसितेनान्यतो जयतुरङ्गहेषितेन जनितहर्षः सुधापङ्कपाण्डुरं पूर्णकुम्भमिव जम्भारिककुभा पुरस्तादुपदर्शितं वन्दमानस्तुहिनकरबिम्बमविलम्बितगतिर्वासभवनान्निरगच्छत् । अनुसृतदिवसदृष्टवा च तत्क्षणप्रसृतेन पृष्ठतो दक्षिणपवनेन पुरतो वामनासिकापुटश्वसनेन सौम्यगतिनापि सत्वरं प्रवर्यमानः प्रतिपन्नदक्षिणवाममार्गपरैः परं
टिप्पनकम्-जम्भारि:-इन्द्रः । प्रतिपन्नदक्षिणवाममार्गपरैः परं शिवं शंसद्भिरभिप्रेतसाधकैः शैवैरिव प्रधानशकुनैः एकत्र शैवैः कीदृशैः ? प्रतिपन्नदक्षिणवाममार्गपरैः-अभ्युपगतोऽनुकूलो वाममार्गो यस्तेन पृणन्ति-तर्पयन्ति ये ते तथोक्तास्तैः, तथा परं-प्रकृष्टं, शिव-शङ्करम् , शंसद्भिः-स्तुवद्भिर्वा, अभिप्रेतसाधकैः-अभि-समन्तात् समीपे प्रेतंचेताल साधयन्ति ये ते तथोक्तास्तैः, अन्यत्र शकुनैः आश्रितदक्षिणमार्गसव्यपथनिष्ठः, तथा कल्याणं परमं कथयन्द्रिः, अभीष्टार्थकारकैः [ई।
तल्लावण्यालोपिनि-तदीयसौन्दर्यापहारिणि. ललाटफलके भालपट्टे, तिलकं बिन्दुं, सम्पाद्य विरचय्य, पुनः उल्लासितकोमलनीलकिरणनिवहम्, उल्लासितः-उद्भासितः, कोमल:-अतीवः, नीलकिरणनिवहः-नीलद्युतिसन्दोहो येन तादृशम् , अत एव प्रस्थानमङ्गलविधौ प्रयाणकालिकमङ्गलकार्ये, अवहिताभिः सावधानाभिः, आयुधागारदेवताभिः बाणगृहाधिटातृदेवैः, अभिनवदलैः नूतनदलशालिभिः, दूर्वाकन्दलैः दूर्वा मूलैः, अवकीर्णमिव व्याप्तमिवेत्युत्प्रेक्षा, विपदापगासन्तरणसेतुमार्ग विपत्तिसरिदुत्तरणाय सेतुमार्गरूपम् , खगं कृपाणम् , आदाय गृहीत्वा, अतिगुरुखङ्गभारखेदितेनेव अतिगुरुणा-अत्यन्तदुर्वहेन, खगभारेण, खेदितेन-व्यथितेन, इवेत्युत्प्रेक्षा, तत्क्षणं प्रस्थानक्षणं, स्पन्दमानेन स्फुरता, दक्षिणेन वामेतरेण, भुजदण्डेन बाहुदण्डेन, व्यञ्जितारब्धकार्यसिद्धिः सूचितप्रारब्धकार्यसाफल्यः, आविजयार्धपर्वतात् विजयार्धपर्वतादारभ्य, अध्यवसितकुमारान्वेषणः खकर्तव्यतया निश्चितहरिवाहनगवेषणः, वैश्रवणवल्लभां कुबेरखामिका, दिशम् उदीचीमित्यर्थः, प्रति अभिमुखम् , उदचलत् प्रस्थितवान् [इ]।
च पुनः, चरणपल्लवोत्क्षेपसमकालं पल्लवोपमपादोत्थापनतुल्यकालम् , उत्थितेन उच्चरितेन, पुनः दिगन्तराणि दिङ्मध्यानि, स्थगयता व्याप्नुवता, पुनः तारमधुरेण तारेण-उच्चन, मधुरेण-श्रवणावाद्येन च, एकतः एकस्थानात्, यामशङ्करसितेन प्रहरे पहरे नाद्यमानशङ्खध्वनिना, अन्यतः अन्यस्थानात् , जयतुरङ्गहेषितेन जयतुरङ्गाणां-जयार्थाश्वानां, हेषितेन-शब्देन, जनितहर्षः उत्पादितप्रमोदः पुनः सुधापङ्कपाण्डुरं सुधापक्रेन-अमृतकर्दमेन, पाण्डुवर्ण, पूर्णकुम्भमिव पूर्णकलशमिव, जम्भारिककुभा जम्भारेः-इन्द्रस्य, या ककुप्-दिक, प्राचीत्यर्थः, तया, पुरस्तात् अग्रे, उपदर्शितं प्रदर्शितम् , तुहिनकरबिम्बं चन्द्रमण्डलं, वन्दमानः अभिवादयमानः, अविलम्बितगतिः क्षिप्रगतिः सन्, वासभवनात् खवासगृहात् , निरगच्छत् निष्क्रान्तः। च पुनः, अनुसृतदिवसदृष्टवत्र्मा अनुसृतम्-अनुगतं, दिवसदृष्टं-दिनेऽवलोकितं, वर्त्म-मार्गो येन तादृशः, तत्क्षणप्रसृतेन तत्कालविस्तृतेन, सौम्यगतिनापि मन्दगतिनाऽपि, दक्षिणपवनेन दाक्षिणात्यवायुना, पृष्ठतः पश्चाद्भागे, पुनः वामनासिकापुटश्वसनेन वामनासाविवरवायुना, पुरतः अग्रे, प्रवर्त्यमानः प्रेर्यमाणः सन् , पुनः प्रधानशकुनैः शुभसूचकप्रशस्तनिमित्तैः, पदे पदे स्थाने स्थाने, दत्तनिवृतिः जनितानन्दः, शर्वरी रात्रिम्, अगमयत् व्यतीतवान् , कैरिव ? शैवैरिव शङ्करभक्तैरिव, पक्षे शृगालसम्बन्धिभिः, कीदृशैरुभयैः ? प्रतिपन्नदक्षिणवाममार्गागमैः प्रतिपन्नः- स्वीकृतः, दक्षिणतः-स्वदक्षिणदिग्भागतः, वाममार्गे-स्ववामदिग्भागे, आगमःआगमनं यत्र तादृशैः, “दक्षिणाद् वामगमनं प्रशस्तं श्वशृगालयोः" इति शकुनशास्त्रम्, पक्षे प्रतिपन्नः-खीकृतः, दक्षिण:खानुकूलः, वाममार्गस्य-तन्त्रोक्तागम्यागमनमद्यपानाद्याचारस्य, आगमः-प्रतिपादकं शास्त्रं येतादृशैः, पुनः परम् उत्कृष्टं,
"Aho Shrutgyanam"