SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ ६० टिप्पनक- परागविवृतिसंवलिता । दूर्वापल्लवाः परस्परं संजग्मिरे ककुभः, उत्तरासङ्गशोभि स्वस्त्ययनमिव कर्तुमुज्जगाम व्योम्नि सप्तर्षिमण्डलम् [ अ ] । क्रमेण चातिक्रान्ते प्रदोषसमये, समुल्लासितपौरस्त्यनभसि मन्दमन्दमुद्भिद्यमाने सौधांशवे महसि, शशिकर प्रभासंवलिततिमिरासु तत्काल विकसित सकैरवेन्दीवरवनाभिररण्यसरसीभिः स्पर्धमानासु दिक्षु, विघटितान्तरालतिमिरसंधानेषु विच्छिन्नतया प्रतीयमानेषु तरुषु, तरुतलास्तीर्णपर्णशयने शयाने निर्भरं राजपुत्रान्वेषणक्लान्तवपुषि पृतनापदातिलोके, निभृतसकलसत्त्वे सर्वतः शान्तसैनिकप्रचारसुख संचारविशिखे विजन इव संलक्ष्यमाणे सैन्यसंनिवेशे [ आ ]; समरकेतुर्विसर्जित निशावसरसेवायातराजलोकः प्रस्थाप्य तत्कालसंनिहितमाप्तपरिचारकजनं निश्चित्य निजयैव प्रज्ञया प्रस्थानसमुचितं शुचिमुहूर्तमुत्थाय निवसित - प्रत्यग्रसितदुकूलयुगलो विकचमालतीदामरचितशेखरः कर्पूरसंभेदसंभृतामोदेन संपाद्य सद्यः स्नपितार्चितकुलदेवताच चर्चा व शिष्टेन चन्दनद्रवेणाष्टमीचन्द्रलेखालावण्यालोपिनि स्खललाटफलके तिलकमुल्लासित टिप्पनकम् - सौधवांशे चान्द्रे । संवलितं - मिश्रितम् । विशिखा - रथ्या [ आ ] | अर्चा-प्रतिमा [इ] | रूपे - आकाशमण्डलरूपे, मरकतमयस्थाले - नीलमणिमयभाजन विशेषे, सञ्चारिताः - निःक्षिप्ताः, तारकतमिस्ररूपाः - तारकामिश्रितान्धकाररूपाः, दधिलवोन्मिश्राः - दधिखण्डसम्मिश्रिताः, दूर्वापल्लवाः- दूर्वाख्यसत्तृणसम्बन्धिनूतनदलानि याभिस्तादृश्यः, ककुभः दिशः, परस्परम् अन्योऽन्यं, संजग्मिरे संसृष्टाः, पुनः व्योम्नि आकाशे, उत्तरासङ्गशोभि गगनमण्डलरूपोत्तरीय वस्त्रोद्भासि सप्तर्षिमण्डलं मरीच्यादिसप्तर्षिरूपतारागण, स्वस्त्ययनं खस्तिवाचनं, कर्तुमिव, उज्जगाम उदितम् [ अ ] । च पुनः प्रदोषसमये निशारम्भिकघटिकान्त्रये, क्रमेण शनैः, अतिक्रान्ते व्यतीते सति, समुल्लासितपौरस्त्यनभसि समुल्लासितं - सम्यगुद्भासितं, पौरस्त्यं प्राच्यं, नभः- गगनं येन तादृशे, सौधांशवे सुधांशोः - चन्द्रस्येदं सौधांशवं तादृशे, चन्द्रसम्बन्धिनीत्यर्थः, महसि तेजसि, मन्दमन्दं शनैः शनैः, उद्भिद्यमाने उद्यति सति, पुनः शशिकरप्रभासंवलिततिमिरासु चन्द्रकिरणद्युतिमिश्रितान्धकारासु, दिक्षु, तत्कालविकसितस कैरवेन्दीवरवनाभिः तत्काले - रात्रिसमये, विकसितानि - उत्फुल्लानि, सकैरवाणां - कैरवैः- श्वेतकुमुदैः सहितानाम्, इन्दीवराणां - नीलकुमुदानां वनानि यासु तादृशीभिः, अरण्यसरसीभिः वनान्तरगतमहासरोभिः, स्पर्धमानासु श्वेतनीलकान्तिभ्यां पराजेतुमिच्छन्तीषु सतीषुः पुनः विघटितान्तरालतिमिरसन्धानेषु विघटितानि-विश्लिष्टानि, अन्तरालतिमिराणि - मध्यवर्त्यन्धकाररूपाणि, सन्धानानि - सम्मेलनानि येषां तादृशेषु, तरुषु वृक्षेषु, विच्छिन्नतया विभक्ततया, प्रतीयमानेषु लक्ष्यमाणेषु सत्सुः पुनः निर्भरं अत्यन्तं राजपुत्रान्वेषणक्लान्तवपुषि प्रकृतयुवराजगवेषणश्रान्तशरीरे, पृतनापदातिलोके सेनासमवेतपादगामिजने, तरुतला स्तीर्णपर्णशयने वृक्षाधः स्थलविस्तारितपत्रमयशय्यायां शयाने स्वपिति सति; पुनः निभृतसकलसत्त्वे निभृतानि निष्क्रियाणि, सकलानि - समस्तानि, सत्त्वानि - जीवा यस्मिंस्तादृशे, पुनः सर्वतः सर्वथा, शान्तसैनिकप्रचारसुखसञ्चारविशिखे शान्तैः-निरृत्तैः, सैनिकप्रचारैः - सैन्यसञ्चारैः, सुखसंचारा - निर्बाधसञ्चारा, विशिखा - रथ्या यस्मिंस्तादृशे सैन्यसन्निवेशे सैनिकावासे, विजन इव निर्जन इव, संलक्ष्यमाणे प्रतीयमाने सति [ आ ] | समरकेतुः, विसर्जितनिशावसरसेवायातराजलोकः विसर्जिताःपरावर्तिताः, निशावसरे-रात्रिसमये, सेवायाताः - सेवार्थमागताः, राजलोकाः- नृपजना येन तादृशः सन् तत्कालसन्निहितं तत्कालसमीपस्थम्, आप्तपरिचारकजनं विश्वस्तसेवकजनं, प्रस्थाप्य स्वस्वस्थानं प्रयाप्य; पुनः निजयैव स्वकीययैव, प्रज्ञया बुद्धया, प्रस्थानसमुचितं प्रयाणयोग्यं शुचिमुहूर्त शुद्धमुहूर्त, निश्चित्य निरूप्य उत्थाय शय्यां त्यक्त्वा, निवसितप्रत्यग्रसित दुकूलयुगलः निवसितं परिहितं प्रत्यग्रम् - अभिनवं सितं - शुभ्रं, दुकूलयुगलं - कौशेयोत्तरीयाधरीयवस्त्रद्वयं येन तादृशः; पुनः विकच मालतीदामरचितशेखरः विकचानां विकसितानां, मालतीनां तदाख्यकुसुमविशेषाणां, दाना-पङ्कया, रचितः-निर्मितः, शेखरः- शिरोमाल्यं येन तादृशः; पुनः कर्पूरसम्भेदसम्भृतामोदेन कर्पूरसम्भेदेन कर्पूरसंमिश्रणेन, सम्भृतःसंवर्धितः, आमोदः- उत्कटगन्धो यस्य तादृशेन, सद्यः स्त्रपितार्चितदेवतार्चाचर्चाऽवशिष्टेन सद्यः- तत्क्षणे, स्नपितांपूर्वमभिषिक्तां, अर्चिताः - पश्चात् पूजिताः, या देवताचः - देवमूर्तयः, तासां चर्चायाः - विलेपनात्, अवशिष्टेन परिशिष्टेन, चन्दनद्रवेण चन्दनपङ्केन, अष्टमीचन्द्रलेखालावण्यालोपिनि अष्टम्यां तिथौ या चन्द्रसम्बन्धिनी लेखा-रेखा "Aho Shrutgyanam"
SR No.008457
Book TitleTilakamanjiri Part 3
Original Sutra AuthorN/A
AuthorDhanpal Mahakavi, Shantyasuri, Lavanyasuri
PublisherVijaylavanyasurishwar Gyanmandir Botad
Publication Year
Total Pages202
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy