________________
तिलकमञ्जरी दुरारोह शिखरिणि दुःखोत्तारसलिलासंख्यनिम्नगाढ्ये वैताढ्यवर्त्मनि सपृतनापरिकरस्य युज्यते गमनम् , नापि निरुपधिस्वामिभक्तौ कुमारमनुगन्तुमुत्सुके सर्वत एव राजलोके कतिपयाप्तपुरुषकृतसाहायकेन शक्यते तत् कर्तुं, तद [त्र] संस्थाप्य परिजनमनापृच्छय बन्धुवर्गमेकाकिना निशीथे प्रस्थातव्यमित्यर्थादुपागतमिति विहितसंकल्पस्तल्पममुश्चत् , अकरोच्च तत्रैव दिवसे यात्राबुद्धिम् [ज्ञ] ।
__ अथावबुद्धतदभिप्रायः प्रयाणशुद्धिमिव प्रष्टुमुपससर्प परिणतज्योतिषमतुषारदीधितिमस्त[स]मयरागः, प्रस्थानवन्दनमालाकिशलयानीव ग्रहीतुमवनीतलादग्रशिखरेषु शाखिनामारुरुहुरातपच्छेदाः, शुभेतरालापसंवरणपरेव विस्तारिता निबद्धकोलाहलानि शकुनिकुलानि तरुकूलायकोटरेष्वसूषुपदुपवनराजिः, लग्नशुद्धयर्थमनेकशोदृष्टसलिलाकृष्टिसामर्थ्यमपराम्भोधिजलकटाहे तपनमण्डलघटीताम्रभाजनं निचिक्षेप क्षपारम्भः, सन्ध्यारागरक्तांशुकधारिण्यो विलासिन्य इव गगनमरकतस्थालसंचारितसतारकतमिस्रदधिलवोन्मिश्र
.
टिप्पनकम्-परिणतज्योतिष ज्योतिः-दीप्तिः, ज्योतिःशास्त्रं च [अ] ।
अनवधृतयातव्यदेशे अनिश्चितगन्तव्यप्रदेशे, पुनः दुरारोहशिखरिणि दुरारोहः-दुःखेन आरोढुं शक्यः, शिखरी-पर्वतो यस्मिंस्तादृशे, पुनः, दुःखोत्तारसलिलासंख्यनिम्नगाढ्ये दुःखोत्तारसलिलाभिः-दुःखेनोत्तरणीयजलाभिः, असंख्यनिम्नगाभिः-संख्यातीतनदीभिः, आढ्ये-पूणे, वैताट्यवम॑नि तत्संज्ञकपर्वतमार्गे, सपृतनापरिकरस्य सेनात्मकपरिवारसहितस्य, गमनं प्रयाणं, न युज्यते योग्यं वर्तते। निरुपधिस्वामिभक्तौ निरुपधिः-निर्व्याजा, स्वामिभक्तिः-प्रकृतयुवराजात्मकस्वामिप्रीतिर्यस्य तादृशे, राजलोके नृपजने, कुमारं प्रकृतयुवराजम् , अनुगन्तुम् अनुसतुं, सर्वत एव समन्तत एव, उत्सुके उद्युक्ते सति, कतिपयाप्तपुरुषकृतसाहायकेन कतिचिद्विश्वस्तजनकरिष्यमाणसाहाय्यकेन, मयेति शेष;, तत् गमनम् , कर्तुं न शक्यते । तत् तस्माद्धेतोः, अत्र अस्मिन्नेव प्रदेशे, परिजनं खपरिवार, संस्थाप्य अवस्थाप्य, परित्यज्येत्यर्थः, बन्धृवर्ग स्वबन्धुगणम् , अनापृच्छय तदनुमतिमनादाय, एकाकिना अद्वितीयेन, निःसैन्येनेत्यर्थः, मयेति शेषः, निशीथे मध्यरात्रे, प्रस्थातव्यं प्रयातुमुचितम् , इति, अर्थात् परिशेषात् , उपागतं सिद्धम् , इति इत्थं, विहितसङ्कल्पः कृतविचारः, तल्पं शय्याम् , अमुञ्चत् त्यक्तवान् , च पुनः, तत्रैव तस्मिन्नेव, दिवसे, यात्राबुद्धिं प्रयाणनिश्चयम् , अकरोत् कृतवान् [ज्ञ] ।
अथ अनन्तरम् ,अवबुद्धतदभिप्रायः अवगततदीयप्रयाणाशयः, अस्त[समयरागः अस्तंगमनकालिकरक्तकान्तिः, लिङ्गसाम्यात् तद्रूपः शुभेच्छुपुरुषः, प्रयाणशुद्धिं प्रस्थानस्य निर्दोषतां, प्रष्टमिव जिज्ञासाज्ञापनार्थमिव, परिणतज्योतिष परिणतानि-प्रौढप्रकाशानि, ज्योतींषि-नक्षत्राणि यस्मिन् तादृशम्, यद्वा परिणतम्-अवस्थान्तरं गतम् , ज्योतिः-प्रकाशो यस्य तादृशम् , पक्षे परिपक्वज्योतिर्विद्यम् , अतुषारदीधितिम् उष्णरश्मिम् , सूर्यमित्यर्थः, लिङ्गसाम्यात् तद्रूपं मुहूर्तज्ञमिति यावत् , उपससर्प उपजगाम; पुनः आतपच्छेदाः आतपखण्डाः, लिङ्गसाम्यात् तद्रूपा भृत्यजना इत्यर्थः, प्रस्थानवन्दनमालाकिसलयानि प्रयाणकालिकतोरणमालार्थनूतनदलानि, ग्रहीतुमिव त्रोटयितुमिव, अवनीतलात् भूतलात् , शाखिनां वृक्षाणाम् , अग्रशिखरेषु चरमोलभागेषु, आरुरुहुः अधिरूढ़वन्तः; पुनः उपवनराजिः क्रीडाकाननपतिः, लिङ्गसाम्यात् तद्रूपा माङ्गलिकस्त्रीत्यर्थः, शुभेतरालापसंवरणपरेव अशुभाभाषणनिवारणोद्यतेव, विस्तारितानिबद्धकोलाहलानि विस्तारिताः, अनिबद्धाः-अनियन्त्रिताः, कोलाहला:-कलकला यैस्तादशानि, शकुनिकुलानि पक्षिगणान् , तरुकुलायकोटरेषु तरूणां-वृक्षाणां, कुलायरूपेषु-नीडरूपेषु, कोटरेषु रन्ध्रविशेषेषु, असूषुपत् खापयामास; पुनः क्षपारम्भः रात्र्यारम्भरूपलग्नशोधकः, लग्नशुद्धयर्थ लग्नशोधनोद्देशेन, अनेकशोदृष्टसलिलाकृष्टिसामर्थ्यम् , अनेकशः-बहुशः, दृष्टं-परीक्षितं, सलिलाकृष्टिसामर्थ्य-जलाहरणशक्तिर्यस्य तादृशं, तपनमण्डलघटीताम्रभाजनं तपनमण्डलरूपा-सूर्यबिम्बरूपा, या घटी-कलसी, तद्रूपं ताम्रभाजनं-ताम्रमयपात्रम् , अपराम्भोधिजलकटाहे पश्चिमसमुद्ररूपजलपूर्णपात्रविशेषे, निचिक्षेप स्थापितवान् ; पुनः संध्यारागरक्तांशुकधारिण्यः सन्ध्याकालिकारुणकान्तिरूपरक्तवर्णसूक्ष्मशाटीपरिधायिन्यः, अत एव विलासिन्य इव विलासवत्य इवेत्युत्प्रेक्षा, पुनः गगनमरकतमयस्थालसञ्चारितसतारकतमिस्रदधिलवोन्मिश्रदूर्वापल्लवाः गगन
"Aho Shrutgyanam"