________________
टिप्पनक-परागविवृतिसंवलिता ।
मामनुसरिष्यति, आपतंश्च प्रकृतिदुर्विलङ्घये दीर्घकालमध्वनि क्लेशमतिमहान्तमासादयिष्यतीति शङ्कितवान् । अहो मूढतास्य, जानाति स्नेहनिर्भरां मदन्तःकरणवृत्तिम्, न चेदमवगच्छति, यदुत - मत्परोक्षे कथञ्चिदप्येष न गृहे स्थास्यति, अविदिताश्रयञ्च मद्दर्शनाशया समुद्रपर्यन्तां पर्यटन्नटवीमतिमात्रमायासपात्रं भविष्यति । किं वा ममैतेन चिन्तितेन ? न तावन्मया समादिष्टेनापि शिबिरसंरक्षणाय वनभूमाविह स्थातव्यम्, नापि कुमारेण सह निर्गत्य सांप्रतमेकाकिना प्रविश्य साकेतमात्मज प्रवासवार्ता श्रवणविक्लवस्य विलपतो देवस्य मेघवाहनस्य मुखं दर्शयितव्यम्, आश्वासनं वा कर्तव्यम्, तत् किं वृथैवात्र स्थितेन ? [ क्ष ] | व्रजाि वैताढ्यम्, अनुसरन्नमुमेव गजगमनमार्गम्, अन्वेषयामि तदुपान्तवर्तिषु ग्रामेषु नगरेष्वाश्रमपदेषु काननेध्वपरेषु च संभाव्यमानतदवस्थितिषु रम्यस्थानेषु कुमारम्, अनुज्झिताभियोगस्य सततमन्विष्यतो भविष्यत्यवश्यं मम क्वापि तद्वृत्तान्तोपलब्धिः, लब्धनिर्गमा निसर्गविमलाभ्यः कलाभ्यः प्रभेव मृगलाञ्छनं छन्नमि तमाविष्करिष्यति विजृम्भमाणा दिग्मुखेषु सद्गुणख्यातिः । कथं पुनः प्रयातव्यम्, न तावदनवधृतयातव्यदेशे
५८
टिप्पनकम्-इह लेखे [क्ष ] | निसर्गविमलाभ्यः कलाभ्यः कला - षोडशो भागो विज्ञानं च । उपधिःमाया । तत् कर्तुं तत्-गमनं, तत् तस्मात् [ ज्ञ ] ।
दूरदेशस्थमपि दूरदेशवर्तिनमपि, मामू, अनुसरिष्यति अनुगमिष्यति च पुनः, आपतन् आगच्छन्, प्रकृतिदुर्विल प्रकृत्या-स्वभावतः, दुर्विलङ्घये- दुरतिक्रम्ये, अध्वनि मार्गे, दीर्घकालं चिरकालम्, अतिमहान्तं अत्यन्तदुस्सहं, क्लेशं कष्टम् आसादयिष्यति अनुभविष्यति, इति शङ्कितवान् सन्दिग्धवान् । अहो आश्चर्यम्, अस्य बुद्ध्या सन्निकृष्टस्य हरिवाहनस्य, मूढता अविवेकिता, स्नेहनिर्भरां प्रीतिमयीं, मदन्तःकरणवृत्तिं मदीयमनोवृत्ति, जानाति, च पुनः, इदं, न अवगच्छति वेत्ति, यत्, उत्तेति वितर्के, मत्परोक्षे मदीयविरहे, एषः समरकेतुः, कथञ्चिदपि केनापि प्रकारेण गृहे स्वावासे, न स्थास्यति वर्तिष्यते च किन्तु, प्रत्युतेत्यर्थः, अविदिताश्रयः अज्ञातमदीयस्थानः, मद्दर्शनाशया मदीयदर्शनसम्भावनया, समुद्रपर्यन्तां समुद्रावधिकाम्, अटवीं अरण्यं, पर्यटन परिभ्रमन्, अतिमात्रं अत्यन्तम्, आयासपात्रं श्रमभाजनं भविष्यति सम्पत्स्यते, वा अथवा, मम, एतेन एतादृशेन, चिन्तितेन आलोचनेन किं न किमपि प्रयोजनमित्यर्थः, तावदिति वाक्यालङ्कारे, समादिष्टेनापि सम्यगाज्ञप्तेनापि, मया, शिबिर संरक्षणाय सैन्यावाससंरक्षणार्थम्, इह अस्यां वनभूमौ वनस्थल्यां, न स्थातव्यं स्थातुमुचितम् नापि कुमारेण युवराजहरिवाहनेन सह, निर्गत्य अयोध्यातो निस्सृत्य, साम्प्रतम् अधुना, एकाकिना तद्रहितेन, साकेतम् अयोध्यापुरीं प्रविश्य, आत्मजप्रवास वार्ताश्रवणविक्लवस्य स्वकीयतनयविश्लेषवृत्तान्तश्रवणव्यथितस्य, विलपतः आक्रन्दतः, देवस्य महाराजस्य, मेघवाहनस्य, मुखं स्ववदनं दर्शयितव्यं दर्शयितुमुचितम् वा अथवा, आश्वासनं उपसान्त्वनं, कर्तव्यं कर्तुमुचितम्, नापीत्यत्राध्याहारः । तत् तस्माद्धेतोः, अत्र अस्मिन् स्थाने, वृथैव व्यर्थमेव, स्थितेन, मयेति शेषः, किं न किमपीत्यर्थः [ क्ष ] । अमुमेव तमेव, गजगमनमार्ग हस्तिधावनपथम् अनुसरन् अनुगच्छन्, वैताढ्यं तदाख्यपर्वतं व्रजामि गच्छामि । तदुपान्तवर्तिषु तत्पर्वतनिकटवर्तिषु, ग्रामेषु गृहसमूहेषु, पुनः नगरेषु गृहमहासमूहेषु, पुनः आश्रमपदेषु तापसनिवासास्पदेषु, पुनः काननेषु वनेषु च पुनः, अपरेषु तत्तदन्येषु, सम्भाव्यमानतदवस्थितिषु आशास्यमान हरिवाहनास्तित्वकेषु, रम्यस्थानेषु मनोरमस्थानेषु, कुमारं युवराजहरिवाहनम्, अन्वेषयामि गवेषयामि । सततं निरन्तरम्, अनुज्झिताभियोगस्य अत्यक्तोद्योगस्य, अनवरततत्परस्येत्यर्थः, अन्विष्यतः कुमारं गवेषयतः, मम, क्वापि कुत्रापि स्थाने, तद्वृत्तान्तोपलब्धिः तद्वार्तावगतिः, अवश्यं निश्चितं, भविष्यति । मृगलाञ्छनं चन्द्रं, प्रभा दीप्तिरिव, छन्नमपि तिरोहितमपि तं हरिवाहनं, सद्गुणख्यातिः सद्गुणप्रसिद्धिः, आविष्करिष्यति प्रकटयिष्यति, कीदृशी ? निसर्गविमलाभ्यः स्वभावोज्वलाभ्यः, कलाभ्यः शिल्पविद्याभ्यः, पक्षे षोडशांशेभ्यः, लब्धनिर्गमा प्राप्ताविर्भावा, पुनः दिङ्मुखेषु दिगन्तेषु, विजृम्भमाणा उद्भासमाना । पुनः किन्तु, कथं केन प्रकारेण प्रयातव्यं प्रस्थातव्यम्, यतः, तावदिति वाक्यालङ्कारे,
"Aho Shrutgyanam"