________________
तिलकमञ्जरी लोकेन सत्वरमुपहूतैरनुभूतदुःसहप्रभुवियोगदुःखक्षामतनुभिरवनीपतिभिरन्यैश्च प्रणयिभिः प्रधानपुरुषैः सार्धमाहारविधिमन्वतिष्ठत् । उपस्पर्शनादिकृत्यावसाने सर्वदा स्वकर्मावहितकार्मनिर्मिततार्णमन्दिरोदरास्तीर्णमध्यास्य शयनीयमपनीय च क्षणमात्रमुपलब्धनिद्रो द्राधीयसा रजनीजागरणेन जनितमङ्गजाड्यमीषद्वलितनयनः शयननिकटे समुपविष्टं शय्यापालकं तं पूर्वमुपसन्निधीकृतं कुमारसत्कं लेखमयाचत [स] । ढौकितं चोत्थाय सत्वरेण तेन गृहीत्वा गृहीतार्थमपि पूर्वमपूर्वमिव सयत्नमुद्वेष्टय विस्तार्य च पुरस्तात् प्रीतिविस्तारितेन चक्षुषा पिबन्निवोपगृहन्निवान्तः प्रवेशयन्निव पुनः पुनरवाचयत् , अकरोच्च चेतसि कुमारस्य लेखोऽयं स्वहस्तलिखित इति लिपिप्रत्यभिज्ञानात् तावदवगतं, यथा चायमद्याप्यनधिगतगाढपाण्डिम्नि नूतने ताडीपत्रशकले निहितसान्द्रधातुद्रवाक्षरो यथा चावचूर्णितः क्षोदीयसा स्वर्णरेणुकणनिकरेण दृश्यते, तथा कापि दिव्यजनसंचारोचिते वनोद्देशे कृतस्थितिना कुमारेण लिखितः [ह] । किमर्थं पुनरिह स्थानमात्मीयमविशेषेण निर्दिष्टम् , नूनमिष्टोऽहं समरकेतोः, स नामतः प्रकटितेषु निकटवर्तिषु ग्रामनगरादिषु चिह्नेषु विगतसंशयो दूरदेशस्थमपि
तर्जितेन-भसितेन, प्रतीहारजनेन द्वारपालजनेन, गत्वा गत्वा तत् तत् स्थानं गत्वा, सत्वरं क्षिप्रम् , उपहूतैः आहूतैः, अनुभूतदुःसहप्रभुवियोगदुःखक्षामतनुभिः अनुभूतैः-उपभुक्तैः, प्रभुवियोगदुःखैः-प्रकृतयुवराजविरहवेदनाभिः, क्षामा-कृशा, तनु:-शरीरं येषां तादृशैः, अवनीपतिभिः पृथ्वीपतिभिः, अन्यैः तदितरैः, प्रणयिभिः स्नेहिभिः, प्रधानपुरुषैः प्रधानजनैश्च, साधं सह, आहारविधिं भोजनकार्यम् , अन्वतिष्ठत् सम्पादितवान् । उपस्पर्शनादिकृत्यावसाने भोजनोत्तरजलस्पर्शनादिकार्यसमाप्तौ, सर्वदा सदा, स्वकर्मावहितकार्मनिर्मिततार्णमन्दिरोदरास्तीर्ण स्वकर्मावहितैः-निजकार्यसमाहितहृदयैः, कामैः-कर्मशीलैः, गृहनिर्माणकुशलैरित्यर्थः, निर्मितस्य-रचितस्य, तार्णमन्दिरस्य-तृणमयभवनस्य, आस्तीर्ण-विस्तीर्ण, शयनीयं-शय्याम् , अध्यास्य अधिष्ठाय, च पुनः, क्षणमात्रं क्षणपर्यन्तम् , उपलब्धनिद्रः प्राप्तनिद्राकः, द्राधीयसा दीर्घतमेन, रजनीजागरणेन रात्रिनिद्राक्षयेण, जनितं उत्पादितम्, अङ्गजाड्यं शरीरशैथिल्यम् , अपनीय दूरीकृत्य, ईषद्वलितनयनः किञ्चिन्निमीलितनेत्रः सन्, शयननिकटे शय्यासमीपे, समुपविष्टं सम्यगासितं, शय्यापालकं शय्यारक्षक, पूर्व शयनात् प्राक् , उपसन्निधीकृतं तन्निकटस्थापितं, तं, कुमारसत्कं कुमारसम्बन्धिनं, लेखं पत्रम् , अयाचत याचितवान् [स]। च पुनः, उत्थाय ऊर्वीभूय, सत्वरेण शीघ्रण, तेन शय्यापालकेन, ढौकितं आनीतं, तं लेखमिति शेषः, गृहीत्वा आदाय, पूर्व गृहीतार्थमपि विदितार्थकमपि, अपूर्वमिव अपठितपूर्वमिव, सयत्नं सादरम् , उद्वेष्टय उद्घाट्य, च पुनः, पुरस्तात अग्रे, विस्तार्य प्रसार्य, प्रीतिविस्तारितेन स्नेहविस्फारितेन, चक्षुषा नेत्रेण, पिबन्निव रसमाखादयन्निव, पुनः उपगृहन्निव आलिङ्गन्निव, पुनः अन्तः अन्तःकरणे, प्रवेशयन्निव निवेशयनिवेति सर्वत्रोत्प्रेक्षा, पुनः पुनः अनेकवारम् , अवाचयत् पठितवान् । च पुनः, कुमारस्य युवराजहरिवाहनस्य, स्वहस्तलिखितः निजहस्तविन्यस्ताक्षरः, अयं, लेखः पत्रम्, इति इत्थं, चेतसि मनसि, अकरोत् निश्चितवान् । तावदिति वाक्यालङ्कारे, लिपिप्रत्यभिज्ञानात् तदीयत्वेनाक्षरप्रत्यक्षात् , अवगतं विदितम् , अद्यापि अधुनापि, अनधिगतगाढपाण्डिम्नि अप्राप्तसान्द्रपाण्डुताके, अत एव नवीने नूतने, ताडीपत्रशकले तालपत्रखण्डे, यथा येन प्रकारेण, अयं लेखः, निहितसान्द्रधातुद्रवाक्षरः निहितानि-निवेशितानि, सान्द्रधातुद्रवाणां-निबिडधातुपङ्कमयानि, अक्षराणि-लिपयो यत्र तादृशः, च पुनः, क्षोदीयसा अतिसूक्ष्मेण, स्वर्णरेणुकणनिकरेण सुवर्णचूर्णकणराशिना, यथा अवचर्णितः उपलिप्तः, दृश्यते दृष्टिपथमवतरति, तथा तद्वत् , दिव्यजनसञ्चारोचिते देवजनसंचारयोग्ये, क्वापि कुत्रापि, वनोद्दशे वनप्रदेशे, कृतस्थितिना कृतनिवासेन कुमारेण प्रकृतयुवराजेन, लिखितः [ह]। पुनः इह पत्रे, आत्मीयं खकीय, स्थानं निवासपदं, किमर्थ किंनिमित्तम् , अविशेषेण सामान्येन, अटवीत्वेनेत्यर्थः, निर्दिष्ट लिखितम् । नूनं अवश्यम् , अहं, समरकेतोः, इष्टः प्रीतिभाजनम् , अस्मीति शेषः, नामतः नाम्ना, विशेषत इत्यर्थः, प्रकटितेषु निर्दिष्टेषु, निकटवर्तिषु निर्दिष्टाटवीसमीपस्थेषु, ग्रामनगरादिषु तत्प्रभृतिषु, चिह्नेषु निवाससंकेतेषु, सः समरकेतुः, विगतसंशयः निरस्तमदस्तित्वसन्देहः सन् ,
८ तिलक०
"Aho Shrutgyanam"