________________
५६
टिप्पनक-परागविवृतिसंवलिता। भद्र! परितोष ! गच्छ त्वमविलम्बितगतिरिदानीमेव तमरण्योद्देशं यत्र युवराजसमरकेतुरद्य गृहीतवानावासम् , अगणितायासश्च गत्वा सत्वरं समर्पयान्तर्विसर्पदुद्दामशोकस्य तस्य शोकदाहवेदनाविच्छेदकारिणममुं कुमारकुशलप्रवृत्तिलेखम् , आचक्ष्व चाखिलक्षोणिपाललोकसमक्षमाश्वासनाय यथादृष्टमेतमप्यादितः प्रभृति सर्वजनविस्मयकरं शुकव्यतिकरम् , अतिभक्तिमानसावनुपलब्धकुमारकुशलवृत्तान्तो न जाने किं व्यवस्यति' इत्यभिधाय स्वहस्तेन लेखं मे समुपनीतवान् । अहं तु तत्क्षणमेव दृष्ट्वा समुत्थितः समुपस्थितानुगुणशकुनद्विगुणितोद्यमश्चन्द्रमण्डलप्रभाप्रकटितावटस्थाणुतृणगुल्मवल्मीकदावोल्मुकेन पूर्वावलोकितेनेव वर्मना विलवयाटवीमविनेन भक्तिनिघ्नजनसुखाराध्यमवन्ध्यप्रसादस्य ते पादपङ्कजमूलमनुप्राप्तः' इत्युक्त्वा विरराम [ष] ।
समरकेतुरप्युपजातपरमानन्दः प्रीतिनिःस्पन्देन चक्षुषा सुचिरमवलोक्य दत्त्वा च सक्षौमयुगलं सकलमङ्गस्पृष्टमात्मीयभूषणगणं 'परितोष ! गच्छ स्वावासम् , आयासितोऽसि संततेनामुना वासतेयीप्रयाणेन' इति व्याहृत्य तं लेखहारकं विससर्ज । निर्वर्तितस्नानदेवतापूजश्च पुनरुक्ततर्जितेन गत्वा गत्वा प्रतीहार
टिप्पनकम्-वासतेयी-रात्रिः। कार्माः-कर्मकराः [स]।
क्षिप्रगतिः सन् , तम् , अरण्योद्देशं वन्यप्रदेश, गच्छ प्रयाहि, यत्र यस्मिन् प्रदेशे, अद्य अधुना, युवराजसमरकेतुः समरकेतुकुमारः, आवासं निवासं, गृहीतवान् कृतवान् । च पुनः, अगणितायासः गमनश्रममगणयित्वा, सत्वरं शीघ्रं, गत्वा, अन्तर्विसर्पदुद्दामशोकस्य अन्तः-अन्तःकरणे, विसर्पन्-वर्धमानः, उद्दामः-उत्कटः, शोकः-इष्टवियोगजदु खाफुलाचित्तवृत्तिर्यस्य तादृशस्य, तस्य समरकेतोः, शोकदाहवेदनाविच्छेदकारिणं शोकाग्निदाहदुःखशमनकर्तारम् , अमुं तं, कुमारकुशलप्रवृत्तिलेखं युवराजहरिवाहनकुशलवार्तापत्रं, समर्पय प्रापय । च पुनः, अखिलक्षोणिपाललोकसमक्षं अशेषनृपसमूहसमक्षं, यथादृष्टं यथाऽवलोकितम् , आदितः आरम्भतः, प्रभृति आरभ्य, सर्वजनविस्मयकरं सकलजनाश्चर्यकारिणम् , एतं किञ्चिद्भुतपूर्व, शुकव्यतिकरं शुकसमागमम् , आश्वासनाय उपसान्त्वनार्थम् , आचक्ष्व आख्याहि, अतिभक्तिमान् अत्यन्तप्रकृतकुमारप्रीतिमान् , असौ समरकेतुः, अनुपलब्धकुमारकुशलवृत्तान्तः अप्राप्तप्रकृतयुवराजकुशलवार्तः सन् , किं व्यवस्यति उद्युक्ते, न जाने निश्चिनोमि । इति इत्थम् , अभिधाय उक्त्वा, स्वहस्तेन निजकरण, लेखं पत्रं, मे मम, समुपनीतवान् समर्पितवान् । अहं तु, तत्क्षणमेव तत्कालमेव, दृष्ट्वा अवलोक्य, समुत्थितः प्रस्थातुं प्रवृत्तः, समुपस्थितानुगुणशकुन द्विगुणितोद्यमः समुपस्थितैः-सम्यगुपनतैः, अनुगुणशकुनैः-अनुकूलशुभावेदकवस्तुभिः, द्विगुणितोद्यमः-द्विगुणीकृतोत्साहः सन् ,चन्द्रमण्डलप्रभाप्रकटितावटस्थाणु-तृण-गुल्म-वल्मीक-दावोल्मुकेन चन्द्रमण्डलप्रभाप्रकटितः-चन्द्रबिम्बद्युतिप्रकाशितः, अवट:-गर्तः, स्थाणुः-क्षीणशाखो वृक्षः, तृणानि, गुल्माः-निःस्कन्धलताः, वल्मीकः-पिपीलिकाद्युपचितमृत्तिकाराशिः, दावोल्मुकानि-दावाग्निदग्धार्धकाष्ठानि यस्मिंस्तादृशेन, अत एव पूर्वावलोकितेनेव दृष्टपूर्वेणेव, वर्त्मना मार्गेण, अटवीं अरण्य, निर्विघ्न विघ्नाभावेन, विलवय अतिक्रम्य, अवन्ध्यप्रसादस्य सफलप्रसन्नताकस्य, ते तव, भक्तिनिघ्नजनसुखाराध्यं भक्तिनिनैः-प्रीतिवश्यैः, जनैः, सुखेन-अनायासेन, आराध्यं प्रसाद्यं, पादपङ्कजमूलं चरणारविन्दाधोदेशम् , अनुप्राप्तः उपागतः, इति इत्थम् , उक्त्वा कथयित्वा, विरराम निवृत्तः [ष] ।
समरकेतुरपि तदाख्यकुमारोऽपि, उपजातपरमानन्दः उत्पन्ननिरतिशयानन्दः, प्रीतिनिःस्पन्देन स्नेहनिश्चलेन, चक्षुषा नेत्रेण, सुचिरं अतिदीर्घकालम् , अवलोक्य दृष्ट्वा, च पुनः, सक्षौमयुगलं कौशेयवसनद्वयसहितम् , अङ्गस्पृष्टं कृताङ्गस्पर्श, सकलं समस्तम, आत्मीयभूषणगणं स्वकीयालङ्कारनिकर, दत्त्वा वितीर्य, 'परितोष!, स्वावासं निजनिवासालयं, गच्छ याहि, सन्ततेन निरन्तरेण, अमुना तेन, वासतेयीप्रयाणेन रात्रिकृतमार्गगमनेन, आयासितः श्रमितः, असि वर्तसे' इति व्याहृत्य उक्तवा, तं प्रकृतं, लेखहारकं पत्रवाहक, विससर्ज त्यक्तवान् । च पुनः, निर्वर्तितस्त्रानदेवतापूजः निर्वर्तितं-संपादितं, स्नानं देवतापूजा च येन तादृशः सन्, पुनरुक्कतर्जितेन पुनरुक्तेन-मुहुः कथनेन,
"Aho Shrutgyanam"