SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ तिलकमञ्जरी ५५ श्रद्धेयवाक्यजनवचनसंचारिताक्षरो वा निवेदयत्वेतत्-कस्मिन् प्रदेशे लेखनिर्दिष्टा सा अटवी ?, के विभागमस्याः कुमारोऽधितिष्ठति ?, केन वर्मना तत्र यात्रा संपद्यते ?, इमं च मणिपीठावस्थापितं प्रापयतु तत्पादमूलमस्मत्प्रतिलेखम्' इति वारद्वितयमुच्चारितवान् [व]। __ तृतीयवेलायां च क्रिश्चिदुच्चरितवचसि तस्मिन्नकस्मादनतिदूरवर्तिनो निबिडपल्लवोत्पीडपिहितनिःशेषशाखासंचयस्य चूतशाखिनः शिखरदेशादवततार शुकशकुन्तिरेकोऽतिरेकरमणीयाकृतिः, आगत्य चातिवेगेन संमुखमवाङ्मुखस्य पश्यत एव तस्य तं लेखमादाय दूरव्यात्तविकटकोटिना च चञ्चपुटेन झटित्येवान्तरिक्षमुदपतत् [श] । सैन्यपतिरपि उपजातविस्मयः सहान्तिकस्थेन पार्थिवसमाजेन 'कोऽयं शुकः ?, किमर्थमभ्यर्थनानन्तरमेव तरुशिखरादितः क्षिताववतीर्णः ?, किंनिमित्तं च लेखोऽयममुना गृहीतः ?, किं वाऽविलम्बितगतिरुदीचीमेव दिशमाश्रित्य प्रस्थितः ?, किं परमार्थतः शुक एवायमुत शुकव्याजेन कश्चिद् दिव्यः ?' इति कृतानेकविकल्पः स्थित्वाल्पमेव कालं तत्कालमनतिदूरस्थमेहीत्यन्तिके समाहूय सादरं मामवदत् टिप्पनकम्-व्यात्ता-प्रसारिता [श] । नभसि आकाशे, अन्तर्हितः निलीनो वा, श्रद्धेयवाक्यजनवचनसंचारिताक्षरो वा श्रद्धेयम्-आदरणीयं, वाक्यं येषां तादृशानां जनानां-वचनैः, सञ्चारितम्-उच्चारितम् , अक्षरं-वर्णो यस्य तादृशो वा, एतत् इदं, निवेदयतु विज्ञापयतु, किमित्याहलेखनिर्दिष्टा पत्रोल्लिखिता, अटवी अरण्य, कस्मिन् प्रदेशे, अस्तीति शेषः, कुमारः प्रकृतयुवराजः, अस्याः अटव्याः, कं विभागं खण्डम् , अधितिष्ठति आश्रयति, केन पथा मार्गेण, तत्र अटवीविभागे, यात्रा प्रयाणं, संपद्यते सिध्यति, च पुनः, मणिपीठावस्थापितं रत्नमयासनाधिरोपितम् , इमं प्रत्यक्षवर्तिनम् , अस्मत्प्रतिलेखं अस्माकं प्रतिपत्रं, तत्पादमूलं तदीयचरणाधःप्रदेश, प्रापयतु उपस्थापयतु, इति इत्थ, वारद्वितयं वारद्वयम् , उच्चारितवान् उदीरितवान् [व] । च पुनः, तृतीयवेलायां तृतीयवारे, तस्मिन् कमलगुप्ते, किञ्चिदुच्चरितवचसि ईषदुचरितवचने सति, अकस्मात् अतर्कितमेव, अनतिदूरवर्तिनः किञ्चिदूरवर्तिनः, निविडपल्लवोत्पीडपिहितनिःशेषशाखासञ्चयस्य निबिडानासान्द्राणां, पल्लवानां-नूतनदलानाम् , उत्पीडेन-समूहेन, पिहितः-आवृतः, निःशेषः-समस्तः, शाखासञ्चयः-शाखासमूहो यस्य तादृशस्य, चूतशाखिनः आम्रवृक्षस्य, शिखरदेशात ऊर्ध्वभागात् , अतिरेकरमणीयाकृतिः अत्यन्तमनोहराकारः, एकः, शुकशकुनिः शुकाख्यपक्षी, अवततार अधस्तादाजगाम । च पुनः, अतिवेगेन अतित्वरया, संमुखं अभिमुखम् , आगत्य उत्पत्य, अवाङ्मुखस्य अधोमुखस्य, तस्य कमलगुप्तस्य, पश्यतः अवलोकमानस्यैव, पश्यन्तमपि तमनाहत्ये मणिमयपीठाधिष्ठित, लेख, दरव्यात्तविकटकोटिना दूरं व्यात्ता-विस्तारिता, विकटा-बृहती, कोटि:-अग्रभागो यस्य तादृशेन, चञ्चपुटेन पुटकाकारचञ्चवा, आदाय गृहीत्वा, झटित्येव शीघ्रमेव, अन्तरिक्षं गगनम्, उदपतत् उडीनवान् [श] । सैन्यपतिरपि कमलगुप्तोऽपि, उपजातविस्मयः उत्पन्नाश्चर्यः सन् , अन्तिकस्थेन निकट स्थितेन, पार्थिवसमाजेन नृपसमूहेन सह, 'अयं प्रत्यक्षीभूतः, शुकः, कः कीदृशः?, अभ्यर्थनानन्तरमेव प्रकृतप्रार्थनाऽव्यवहितोत्तरक्षणमेव, इतः अस्मात् , तरुशिखरात् वृक्षोर्श्वभागात् , क्षितौ पृथिव्यां, किमर्थ किंनिमित्तम् , अवतीर्णः आपतितः, च पुनः, अयं लेखः प्रतिपत्रं, किंनिमित्तं किमर्थम् , अमुना परोक्षतामापन्नेन शुकेन, गृहीतः प्राप्तः, वा अथवा, अविलम्बितगतिः क्षिप्रगतिः सन् , उदीची उत्तरां एव, दिशम् , आश्रित्य प्राप्य, किं किमर्थ, प्रस्थितः प्रयातः, परमार्थतः वस्तुतः, अयं किञ्चिदेव प्राक् प्रत्यक्षः, किं शुक एव, उत आहोवित्, शुकव्याजेन शुकच्छलेन, कश्चित् कोऽपि, दिव्यः दैवः, इति इत्थं, कृतानेकविकल्पः विहितविविधवितर्कः, कमलगुप्त इति शेषः, अल्पमेव कियन्तमेव, कालं, स्थित्वा विलम्ब्य, तत्कालं तत्क्षणम् , अनतिदूरस्थं किञ्चिदूरस्थितं, माम् , एहि आगच्छ, इति, अन्तिके समीपे, सम्यगाहूय समाहूय, सादरं सप्रीति, अवदत् उक्तवान् । किमित्याह भद्र ! परितोष !, त्वम्, इदानीमेव अस्मिन्नेव क्षणे, अविलम्बितगतिः "Aho Shrutgyanam"
SR No.008457
Book TitleTilakamanjiri Part 3
Original Sutra AuthorN/A
AuthorDhanpal Mahakavi, Shantyasuri, Lavanyasuri
PublisherVijaylavanyasurishwar Gyanmandir Botad
Publication Year
Total Pages202
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy