________________
५४
टिप्पनक-परागविवृतिसंवलिता । लौहित्यकूलावासिते विजयिनि निजस्कन्धावारे युवराजसमरकेतुकमलगुप्तपुरःसरांश्च राजपुत्रान् सप्रसादमादिशति-अत्रैव कतिचिदिनानि स्थातव्यम् , ताताम्बयोश्च यथा मदपहारवार्ता श्रुतिपथं नायाति तथा प्रयतितव्यम्' इति [ल]। संवर्तितलेखश्च सर्वतः समवलोक्य 'भद्राः ! केनायमानीतः कुमारसत्को लेखः' इति प्रत्येकं लेखहारकानपृच्छत् । यदा च तेषु 'मयायमानीतः' इति कश्चिन्नाचचक्षे तदा समुद्भूतविस्मयः समासन्नसचिवैः सहालोच्य कर्तव्यमकृतकालक्षेपः क्षितिपालसूनोः प्रतिलेखं स्वयमेवालिखत् । महार्हमणिपीठप्रतिष्ठापितं च तं निवेश्य प्रत्यग्रगोमयोपलेपनशुचौ सुरभिकुसुमप्रकरभाजि प्राङ्गणवितर्दिकोत्सङ्गे, गत्वा च सविधमूर्ध्वस्थित एव बद्धा शिरसि करसंपुटमतिस्फुटोच्चारया गिरा सादरमवादीत् - 'भो भो मनुष्यलोकविहारिणो दिव्याः ! विधायानुग्रहं शृणुत सपरिग्रहस्य मे विज्ञापनां, येन केनचिद् भरतकुलपक्षपातिना देवेन वा दैत्येन वा विद्याधरेण वान्येन था दिव्यलोकनिवासिना देवतावरप्रभावलब्धस्य महानरेन्द्रसूनोः सकलविश्वोपकारिणः कुमारहरिवाहनस्यान्तिकादतर्कितमेवानीय लेखमिममनुकम्पितोऽयमेतावान् नृपतिलोकः, स भूयोऽपि भूत्वा सकरुणः साक्षात् प्रकटितस्वाकारो वा नभस्यन्तर्हितो वा
'आदिशति' इति वक्ष्यमाणक्रियायामन्वयः, महाराजपुत्रहरिवाहनः महाराजस्य-मेघवाहनस्य, पुत्रः-युवराजः, हरिवाहनः, कुशली कुशलान्वितः, विजयिनि विजयशालिनि, पुनः लौहित्यकलावासिते लौहित्याख्यनदतटे निवासं प्रापिते, निज स्कन्धावारे खशिबिरे, स्थितानिति शेषः, युवराजसमरकेतुकमलगुप्तपुरस्सरान् तत्प्रभृतीन् , राजपुत्रान् , सप्रसाद सस्नेहम् , आदिशति विज्ञापयति, अत्रैव अस्मिन्नेव स्थाने, कतिचित् कतिपयानि, दिनानि, स्थातव्यं निवसनीयं, मयेति शेषः, अत्र हृदयवर्तितया प्रत्यक्षे, निजस्कन्धाबारे कतिचिद् दिनानि, स्थातव्यं त्वया स्थितिः कार्या, मदपहारवार्ता मदपहरणवृत्तान्तः, ताताम्बयोः मन्मातापित्रोः, श्रुतिपथं श्रवणमार्ग, यथा येन प्रकारेण, न आयाति आगच्छेत् , तथा तेन प्रकारेण, प्रयतितव्यं प्रयत्नः कर्तव्यः, इति [ल]। च पुनः, संवर्तितलेखः समाप्तलेखवाचनः, सर्वतः परितः, समवलोक्य सम्यनिरीक्ष्य, भद्राः! कल्याणिनः!, कुमारसत्कः प्रकृतयुवराजसम्बन्धी, अयं लेखः, केन आनीतः तत्सकाशादाहतः । इति प्रत्येक एकैकं, लेखहारकान् पत्रवाहकान्, अपृच्छत् । यदा च यदा तु, तेषु लेखहारकेषु मध्ये, कश्चित् कोऽपि, अयं लेखः, मया, आनीत इति न, आचचक्षे उवाच, तदा समुद्भूतविस्मयः समुत्पन्नाश्चर्यः, समासन्नसचिवैः समीपवर्तिमत्रिभिः सह, कर्तव्यं कर्तुमुचितम् , आलोच्य विचार्य, अकृतकालक्षेपः अविहितकालातिक्रमः, क्षितिपालसूनोः हरिवाहनस्य, प्रतिलेख प्रतिपत्रं, खयमेव, अलिखत् लिखितवान् । च पुनः, महार्हमणिपीठप्रतिठापित अतिप्रशस्तमणिमयासनारोपितं, त लेख, प्रत्यग्रगोमयोपलेपनशुची अभिनवगोमयांवला कुसुमप्रकरभाजि सुगन्धिपुष्पराशिसहिते, प्राङ्गणवितर्दिकोत्सङ्गे प्राङ्गणवर्तिवेदिकामध्ये, निवेश्य अवस्थाप्य, च पुनः, सविधं निकटं, गत्वा, ऊर्ध्वस्थित एव उत्थित एव, शिरसि स्वमूर्धनि, करसम्पुटं अनलिं, बद्धा विरचय्य, अतिस्फुटोच्चारया अतिव्यक्तोच्चारणया, गिरा वाचा, सादरं आदरपुरस्सरम् , अवादीत् उक्तवान् । किमित्याह-भो भो हे हे, मनुष्यलोकविहारिणः मर्त्य भुवनविहारिणः!, दिव्या देवाः !, अनुग्रहं अनुकम्पा, विधाय सपरिवारस्य, मे मम, विज्ञापनां निवेदनां प्रार्थनामित्यर्थः, शणुतश्रवणगोचरीकुरुत, कीदृशीमित्याह-भरतकुलपक्षपातिना भरतवंशप्रणयिना, देवेन वा सुरेण वा, दैत्येन वा राक्षसेन वा, विद्याधरेण विद्याधरजनेन वा, अन्येन तद्व्यतिरिक्तेन बा. येन केनचित् , दिव्यलोकनिवासिना देवभुवननिवासिना, देवतावरप्रभावलब्धस्य देवतावरः-लक्ष्मीदेव्या स्वीकृतं पुत्रप्रदानं, तत्प्रभावेण-तन्महिम्ना, प्राप्तस्य, महानरेन्द्रसूनोः महाराजकुमारस्य, सकलविश्वोपकारिणः समस्तलोकोपकारिणः, कुमारहरिवाहनस्य हरिवाहनाख्ययुवराजस्य, अन्तिकात् सकाशात् , अतर्कितमेव अकस्मादेव, इमं प्रत्यक्षीभूतं, लेखं पत्रम् , आनीय उपस्थाप्य, पतावान् एतत्संख्यकः, अयं प्रत्यक्षबी, नृपतिलोकः नृपजनः, अनुकम्पितः अनुगृहीतः, स भूयोऽपि पुनरपि, सकरुणः सदयः, भूत्वा सम्पद्य, साक्षात् प्रकटितस्वाकारो वा साक्षाद् दर्शितस्वरूपो वा,
"Aho Shrutgyanam"