________________
तिलकमञ्जरी
संभ्रान्तवण्ठहठनिरुध्यमाननिज देह दारणोद्यतद (सदारके चिताभिमुखचलितचेटी परित्यक्तबालापत्यकटुविलापदलितदयालुहृदयमर्मणि प्राणनिरपेक्षाङ्गरक्षविक्षिप्यमाणद्रविणधावद्द्रमक कुलकृतोदामसंमर्दे दुःखमय इवो - द्वेगमय इव विषादमय इव वर्तमाने निवृत्तगीतनृत्यादिसकलप्राक्तनव्यवहारे स्कन्धावारे सेनाधिपतिरात्मसदना जिरोपविष्टः पार्श्ववर्तिना प्रयत्नविनिवर्तितात्मशोकेन प्रवयसा प्रधानलोकेन राजसूनोः साधयितुमनपायमस्तित्वमनेकधोपन्यस्ताभिरुपपत्तिभिर्मन्दीक्रियमाणजीवितपरित्यागबुद्धिरधोमुखो धरणितलनिहितनिश्चलोद्वापदृष्टिरकस्मादिमं लेखमग्रतो दृष्टवान् [र] |
कस्यायमिति चिन्तयंश्च क्षणमात्रमवलोक्य पृष्ठेऽस्य लब्धप्रतिष्ठानि कुमारनामाक्षराणि जातसंक्षोभो गृहीत्वैनमुद्वेष्ट्यावधार्य च प्रत्यभिज्ञातराजपुत्रलिपिनिवृत्ता परप्रयुक्तिसंशय: शिरसि कृत्वैनं शृण्वतः सकलस्यापि नरपतिवृन्दस्य प्रहर्षगद्गदवचाः स्वयमवाचयत् — स्वस्ति, अटव्या महाराजपुत्र हरिवाहनः कुशली
जलसंसृष्टैः, पल्वलवारिभिः क्षुद्रजलाशयजलैः, प्रारभ्यमाणेषु प्रवर्त्यमानेषु सत्सुः पुनः संभ्रान्तवण्ठहठनिरुध्यमाननिजदेहदारणोद्यतदासदारके संभ्रान्तैः - उद्धान्तैःः, वण्ठैः - " वण्ठः कुन्तायुधे खर्वे भृत्याकृतविवाहयोः" इत्युक्तेरनुचरविशेषैः, हठेन- बलात्, निरुध्यमानाः - निवार्यमाणाः, निजदेहदारणोद्यताः - खशरीरशातनप्रवृत्ताः, दासदारकाः - कर्म कर शिशवो यस्मिंस्तादृशे, पुनः चिताभिमुख चलितचेटी परित्यक्तवालापत्यकटुविलापदलितदयालु हृदयमर्मणि चिताभिमुखंचितासम्मुखं, चलिताभिः- प्रस्थिताभिः, चेटीभिः - दासीभिः परित्यक्तानां बालापत्यानां शैशवावस्थसन्ततीनां, कटुविलापैःकरुणक्रन्दनैः, दलितं- विदीर्णं, दयालूनां दयावतां, हृदयमर्म - हृदयसम्बन्धि मर्मस्थानं यत्र तादृशे, पुनः प्राणनिरपेक्षाङ्गरक्षविक्षिप्यमाणद्रविणधावद्रमककुलकृतोद्दामसम्मर्दे प्राणनिरपेक्षैः - प्राणापेक्षाशून्यैः, मर्तुमुद्यतैरित्यर्थः, अङ्गरक्षैःनृपाङ्गरक्षकजनैः, विक्षिप्यमाणेभ्यः - विकीर्यमाणेभ्यः, द्रविणेभ्यः - धनेभ्यः, धावद्भिः सत्वरमुपनमद्भिः, द्रमककुलैः दरिद्रगणैः, कृतः, उद्दामा–उत्कटः, संमर्द :- सङ्घर्षो यत्र तादृशे, पुनः दुःखमय इव केवलदुःखप्रचुर इव, पुनः उद्वेगमय इव विरहजन्यदुःखाविर्भावपूर्ण इव, पुनः विषादमय इव स्वकार्याक्षमताव्याप्त इव, वर्तमाने, स्कन्धावारे सैन्यावासे, निवृत्तगीतनृत्यादिसकलप्राक्तनव्यवहारे निवृत्तः - निरुद्धः, गीतनृत्यादिरूपः - गाननर्तनादिरूपः सकलः - समस्तः, प्राक्तनः - पुरातनः, व्यवहारो यस्मिंस्तादृशे सति, सेनापतिः सेनानायकः, कमलगुप्त इत्यर्थः, आत्मसदनाजिरोपविष्टः स्वभवनप्राङ्गणोपविष्टः, पार्श्ववर्तिना पार्श्वस्थितेन, प्रयत्नविनिवर्तितात्मशोकेन प्रयत्नेन धैर्याधानप्रयासेन, विनिवर्तितः- निवारितः, आत्मनःस्वस्य, शोको येन तादृशेन, प्रवयसा स्थविरेण, प्रधानलोकेन मुख्यजनेन, राजसूनोः प्रकृतयुवराजस्य, अनपायं शाश्वति• कम्, अस्तित्वं अचलकीर्तिमित्यर्थः साधयितुं सम्पादयितुम्, अनेकधा अनेकप्रकारैः, उपन्यस्ताभिः प्रस्तुताभिः, उपपत्तिभिः युक्तिकलापेन, मन्दीक्रियमाणजीवितपरित्यागबुद्धिः मन्दी क्रियमाणा - शिथिली क्रियमाणा, जीवितपरित्यागबुद्धिः - प्राणपरित्यागसङ्कल्पो येन तादृशः सन् अधोमुखः अवनतवदनः, धरणितलनिहित निश्चलोद्वाष्पदृष्टिः धरणितले- पृथ्वीपृष्ठे, निहिता- निवेशिता, निश्चला - निष्परिस्पन्दा; उद्वाष्पा - उद्गताश्रुश्च दृष्टिर्येन तादृशः, अकस्मात् अतर्कितमेष, इमं प्रत्यक्षं, लेखं पत्रम्, अग्रतः अग्रे, दृष्टवान् दृष्टिगोचरीकृतवान् [र]।
च पुनः, अयं, लेखः पत्रं, कस्य किंसम्बन्धी, इति इत्थं, चिन्तयन् आलोचयन्, अस्य लेखस्य, पृष्ठे पश्चाद्भागे, लब्धप्रतिष्ठानि प्राप्तावस्थितिकानि, लिखितानीति यावत्, कुमारनामाक्षराणि कुमारस्य - प्रकृतयुवराजस्य, यन्नाम हरिवाहनेति तत्सम्बन्धीनि, अक्षराणि, क्षणमात्रं क्षणमेकम्, अवलोक्य दृष्ट्वा, जातसंक्षोभः उत्पन्नसम्भ्रमः, एनं लेखं; गृहीत्वा आदाय, उद्देश्य उद्धाट्य, च पुनः, अवधार्य प्रकृतकुमार सम्बन्धित्वेन निर्णीय, प्रत्यभिज्ञातराजपुत्रलिपि - निवृत्तापरप्रयुक्तिसंशयः प्रत्यभिज्ञाताभिः - तदीयत्वेन प्रत्यक्षीकृताभिः, लिपिभिः - अक्षरैः, निवृत्तः, अपरप्रयुक्तिसंशयःअन्यदीयलिपिसंशयो यस्य तादृशः सन्, एनं लेखं शिरसि मस्तके, धृत्वा आरोग्य, शृण्वतः तत्पत्रस्थवृत्तान्तं श्रवणगोचरीकुर्वतः सकलस्यापि समस्तस्यापि नरपतिवृन्दस्य नृपगणस्य, तदनादृत्य वाचनक्रियायामित्यर्थः, प्रहर्षगद्गदवचाः प्रमोदाव्यक्तवचनः, स्वयं आत्मनैव, अवाचयत् पठितवान् कथमित्याह - स्वस्ति क्षेमम्, अटव्याः वनात् अस्य
"
५३
"Aho Shrutgyanam"