________________
टिप्पनक-परागविवृतिसंवलिता। पाठावसाने च तं पुरोलिखितरुचिररेखस्वस्तिकमावासगृहमिव मुहुर्निरीक्ष्य सस्पृहं पांशुकणिकाधूसरितवर्णं गुरुचरणयुगमिवावस्थाप्य शिरसि प्रकृष्टपुण्योदयासादितं प्रधानरत्नालङ्कारमिव वेष्टयित्वा यत्नेन निकटवर्तिनः शय्यापालकस्य हस्ते चकार । व्याजहार च प्रहर्षपुलकितकपोलोदरः--'परितोष ! कदा कमलगुप्तेनैष लेखः प्राप्तः, कुतो वा प्राप्तः' इति [य] । सोऽब्रवीत्- 'एष विज्ञापयामि, श्रूयताम्-इतो वासरादतीतेऽहन्यपराह्नसमये नास्ति कुमार इति विरलविरलं प्रवृत्तायामनिष्टवार्तायामाकुलाकुलेषु विशेषोपलम्भार्थमितस्ततो धावत्सु सैनिकेषु शिरोजठरनिष्ठुराभिघातध्वनिघनेषु प्रबलीभवत्सु प्रतिवेलमबलाजनस्याक्रन्देषु सविधचारिचारणकरुणगीतोत्थापितप्रेक्षकवृन्दपरमनिर्वेदेषु मर्तुमुञ्चलितेषु वेलावित्तकेषु हाकष्टशब्दोच्चारमुखरासु वर्णयन्तीषु विरसतां संसारस्थितेः स्थानस्थानपिण्डितासु पण्डितमण्डलीष्वप्रहततूर्येष्वनारब्धमङ्गलगीतिषु वनाय प्रस्थितेन स्थविरसामन्तलोकेन शोकाश्रुमित्रैः पल्बलवारिभिः प्रारभ्यमाणेषु पुत्रराज्याभिषेकेषु
टिप्पनकम्-पुरोलिखितरुचिररेखस्वस्तिकमावासगृहमिव एकत्र अग्रदेशे लिखितदीप्रलेखः स्वस्तिकबन्धो यस्य स तथोक्तस्तम्, अन्यत्र अग्रे लिखिता रुचिररेखाः स्वस्तिका यत्र तत् तथोक्तम् [य] ।
च पुनः, पाठावसाने पाठसमाप्तौ, आवासगृहमिव नृपनिवासालयमिव, पुरोलिखितरुचिररेखस्वस्तिकं पुरः-अग्रे, लिखिता, रुचिररेखा-मनोहररेखा यस्य तादृशं, स्वस्ति-स्वस्तीति पदं यस्मिंस्ता दर्श, पक्षे पुरः-द्वारदेशे, लिखितारचिता, रुचिरा-मनोहरा, रेखा यत्र तादृशं, स्वस्तिकं-"स्वस्तिकं प्राङ्मुखं यत् स्यादलिन्दानुगतं भवेत् । तत्पार्धानुगतौ चान्यौ तत्पर्यन्तगतोऽपरः” इत्युक्तं राजगृहविशेषं, तं लेख, सस्पृहं सानुरागं, मुहुः अनेकवारम् , निरीक्ष्य दृष्वा, पुनः गुरुचरणयुगमिव गुरुपादद्वयमिव, पांशुकणिकाधूसरितवर्ण पांशुकणिकाभिः-धूलिकणैः, धूसरितः-किञ्चित्पीतश्वेतीकृतः वर्णो यस्य तादृशं, तमिति शेषः, शिरसि मस्तके, अवस्थाप्य धृत्वा, पुनः प्रकृष्टपुण्योदयासादितं प्रकृष्टपुण्योदयेन-उत्कृष्टपुण्यविपाकेन, आसादितं-प्राप्त, प्रधानरत्नालङ्कारमिव प्रशस्तरत्नमयालङ्करणमिव, यत्नेन प्रयासेन, वेष्टयित्वा आच्छाद्य, निकटवर्तिनः पार्श्वस्थस्य, शय्यापालकस्य शय्याधिकृतपुरुषस्य, हस्ते, चकार निक्षिप्तवान् । च पुनः, प्रहर्षपुलकितकपोलोदरः प्रहर्षेण-उत्कृष्टहर्षेण, पुलकितं-उद्भिन्नरोमाञ्चं, कपोलोदरं-कपोलमध्यं यस्य तादृशः, व्याजहार उक्तवान् । किमित्याह-'परितोष! तन्नामक !, कमलगुप्तेन तत्संज्ञकेन त्वत्स्वामिना, एषः अयं, लेखः, कदा कस्मिन् समये, प्राप्तः वा अथवा, कुतः कस्मात् , प्राप्तः लब्धः' इति [य] । सः परितोषः, अब्रवीत् प्रत्युक्तवान् , किमित्याह-एषः अयमहं, विज्ञापयामि बोधयामि, श्रूयतां मयोच्यमानं श्रवणगोचरीक्रियताम् । इतः अस्मात्, वर्तमानादित्यर्थः, वासरात् दिवसात्, अतीते अतिक्रान्ते, अहंनि दिने, पूर्वेद्युरित्यर्थः, अपराह्नसमये पश्चार्धकाले, कुमारः हरिवाहनः, न, अस्ति जीवति, इति अस्याम् , अनिष्टवार्तायां अनभिमतजनश्रुतौ, विरलविरलं मन्दं मन्द, प्रवृत्तायां उत्थितायाम् , उच्चारितायामिति यावत् ; पुनः विशेषोपलम्भार्थ विशेषावधारणार्थम् , आकुलाकुलेषु व्यग्रव्यग्रेषु, सैनिकेषु सैन्येषु, इतस्ततः अत्र तत्र, धावत्सु सत्वरं गच्छत्सुः पुनः शिरोजठरनिष्ठुराभिघातध्वनिघनेषु शिरसः- मस्तकस्य, जठरस्य-उदरस्य च, निष्ठुराभिघातेन-निर्दयताडनेन, यो ध्वनिः, तेन, घनेषु-निबिडेषु, अबलाजनस्य स्त्रीजनस्य, आक्रन्देषु विलापेषु, प्रतिवेलं प्रतिक्षणं, प्रबलीभवत्सु प्रवर्धमानेषु सत्सुः पुनः सविधचारिचारणकरुणगीतोत्थापितप्रेक्षकवृन्दपरमनिर्वेदेषु सविधचारिणां-पार्श्वगामिनां, चारणानां-बन्दिना, करुणगीतैः-शोकपूर्णगानैः, उत्थापितः-उद्भावितः, प्रेक्षकवृन्दस्य-दर्शकगणस्य, परमः-अत्यन्तः, निर्वेदः-ग्लानियस्तादृशेषु, वेलावित्तकेषु वित्ता-विचारिता, वेला-प्रयाणमुहूतं येन तादृशेषु, मौहूर्तिकजनेष्वित्यर्थः, मर्तु मरणाय, उच्चलितेषु प्रस्थितेषुः पुनः हाकष्टशब्दोच्चारमुखरासु 'हा कष्टम्' इति शब्दोच्चारणवाचालासु, स्थानस्थानपिण्डितासु स्थाने स्थाने पुञ्जितासु, पण्डितमण्डलीषु पण्डितगणेषु, संसारस्थितेः संसारस्वरूपस्य, विरसतां निःसारतां, वर्णयन्तीषु वाचा विस्तारयन्तीषु सतीषु; पुनः अप्रहततूर्येषु तूर्याख्यवाद्यविशेषाभिघातशून्येषु, पुनः अनारब्धमङ्गलगीतिषु अप्रवर्तितमङ्गलगानेषु, गानरहितेषु इत्यर्थः, पुत्रराज्याभिषेकेषु स्वस्वकुमाराय राज्यसमर्पणेतिकर्तव्यताभूतस्नपनेषु, वनाय, प्रस्थितेन प्रयातेन, स्थविरसामन्तलोकेन वृद्धक्षुद्रनृपजनेन, शोकाश्रुमित्रैः शोकोद्गतनयन
"Aho Shrutgyanam"