SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ mmmmmwroom तिलकमञ्जरी गतात्मीयपरकीयपरिजनमवलोकितासन्नवर्तिसुहृद्वन्धुवर्गमेकहेलोत्तीर्णसर्वाङ्गसंज्वरमुद्वहन्नात्मानमादरप्रहितनयनयुगलो गुरुमिव स्वामिनमिवाराध्यमिव जीवितप्रदमिवेष्टदैवतमिव सुचिरमवलोक्य तं पुरुषमाहूय संभाव्य चासनदानवचनेन ‘भद्रमुख ! भद्रमसदृशसौहार्दशालिशीलामृतमहोदधेः परमसुहृदः कमलगुप्तस्य' इत्यवोचत् [व]। अथ स तेन संभ्रमवता तस्य संभाषणेन कृतकृयमात्मानं मन्यमानो भृत्यवत् समुपसृत्य सत्वरकृतप्रणामः 'अद्य भद्रं मच्चक्षुषा महाभागदेहारोग्यदर्शनेन' इत्युदीर्योत्तरीयपटपल्लवप्रान्तसंयतं सयत्नमादाय दक्षिणकरेणापतो लेखमक्षिपत् [भ] । सिंहलेश्वरतनयोऽपि तं गृहीत्वा निरीक्ष्य च क्षणं तूष्णीमेव दृष्ट्वा किमपि हृष्टचेताः सतर्षमर्पितश्रवणस्य शृण्वतः सकलस्यापि राजकस्य स्पष्टवर्णोच्चारया वाचा स्वयमवाचयत् [म]। टिप्पनकम्-सम्भाव्य संमान्य [व] । तक्षकजातीयस्य, आशीविषस्य-सर्पराजस्य, यद् विषं-गरलं, तद्वेदनया-तत्पीडया, उन्मुक्तमिव त्यक्तमिवेति सर्वत्रोत्प्रेक्षा, पुनः अभिव्यक्तोपलक्षिताकाशकालदिग्विभागं अभिव्यक्तं-परिस्फुटं यथा स्यात् तथा, उ लक्षितः-प्रतीतः, आकाशस्य कालस्य दिशश्च, विभागः-अवान्तरभेदो येन तादृशम् । पुनः अवगतात्मीयपरकीयपरिजनम् अवगताः-परिचिताः, आत्मीयाःस्वकीयाः, परकीयाः-अन्यदीयाश्च, परिजनाः-परिवारा येन तादृशम् ; पुनः अवलोकितासन्नवर्तिसुहृद्वन्धुवर्ग अवलोकितःदृष्टः, आसन्नवी-पार्श्ववर्ती, सुहृदां-मित्राणां, बन्धूनां च, वर्गः-गणो येन तादृशम् ; पुनः एकहेलोत्तीर्णसर्वाङ्गसंज्वरम् एकहेलया-युगपत् , उत्तीर्णः-विमुक्तः, सर्वाङ्गसंज्वरः-समस्ताङ्गसम्बन्धिसन्तापो येन तादृशम् ; आत्मानं खम् , उद्वहन् धारयन्, आदरप्रहितनयनयुगल: प्रीत्या व्यापारितलोचनद्वयः सन् , गुरुमिव आचार्यमिव, पुनः स्वामिनमिव, खाधिपतिमिव, पुनः आराध्यमिव स्वसेव्यमिव, पुनः जीवितप्रदमिव प्राणाधायकमिव, पुनः इष्टदेवतमिव खोपास्यदेवमिव, तं लेखहारकं, पुरुषं जनं, सुचिरं अतिदीर्घकालम् , अवलोक्य निरीक्ष्य, आहूय स्खनिकटमागमय्य, च पुनः, आसनदानवचनेन आसनार्पणादेशवाक्येन, संभाव्य सत्कृत्य, भद्रमुख! भव्यवदन !, असदृशसौहार्दशालिशीलामृतमहोदधेः असशम् -असाधारण, यत् सौहार्द-सुहृद्भावः, तच्छालि शीलं -स्वभाव एवामृत, तन्महोदधेः-तत्समुद्रस्य, कमलगुप्तस्य तदाख्यत्वत्वामिनः, भद्रं कुशलम् , अस्तीति शेषः, इति इत्थं, अवोचत् कुशलं पृष्टवान् [व] __ अथ अनन्तरं, सः लेखहारकः, संभ्रमवता औत्सुक्यपूर्णेन, तस्य समरकेतोः, तेन अनुपदोक्तेन, संभाषणेन आलापेन, आत्मानं खं, कृतकृत्यं कृतार्थ, मन्यमानः, भृत्यवत् परिचारक इव, समुपसृत्य सम्यगुपगत्य, सत्वरकृतप्रणामः शीघ्रकृताभिवादनः, 'अद्य अस्मिन् दिने, मच्चक्षुषा मदीयनेत्रेण, महाभागदेहारोग्यदर्शनेन महाभागस्यमहानुभावस्य भवतः, देहारोग्यदर्शनेन-शारीरिकस्वास्थ्यनिरीक्षणेन, भद्रं कुशलम् , अस्तीति शेषः, इति इत्थम् , उदीर्य उक्त्वा, उत्तरीयपटपल्लवप्रान्तसंयतं उत्तरीयपटपल्लवस्य-उत्तरीयवस्त्ररूपपल्लवस्य, प्रान्ते-अञ्चलप्रदेशे, संयत-बद्धं, लेखं पत्रम् , दक्षिणकरेण दक्षिणहस्तेन, सयत्नं यत्नपूर्वकम् , आदाय गृहीत्वा, अग्रतः समरकेतोरने, अक्षिपत् प्रक्षिप्तवान् [भ] । सिंहलेश्वरतनयोऽपि सिंहलेश्वरस्य-सिंहलद्वीपाधिपतेश्चन्द्रकेतोः, तनयोऽपि-सुतोऽपि, समरकेतुरपीत्यर्थः, तं लेख, गृहीत्वा हस्तेनादाय, च पुनः, निरीक्ष्य अवठोक्य, क्षणं क्षणपर्यन्तं, तूष्णीमेव निर्वचनमेव, किमपि किञ्चित् , दृष्ट्वा, दृष्टचेताः प्रसन्नहृदयः सन् , सतर्ष साभिलाषम् , अर्पितश्रवणस्य दत्तकर्णस्य, शण्वतः तल्लेखवृत्तान्तमाकर्णयतः, सकलस्यापि समस्तस्यापि, राजकस्य नृपसमूहस्य, वाचनविधौ तमनाहत्येत्यर्थः, स्वयं खेनैव, स्पष्टवर्णोच्चारया स्पष्टः-स्फुटः, वर्णानां-अक्षराणाम् , उच्चारः-उच्चारणं यस्यां तादृश्या, वाचा वाण्या, अवाचयत् पठितवान् [म]। "Aho Shrutgyanam"
SR No.008457
Book TitleTilakamanjiri Part 3
Original Sutra AuthorN/A
AuthorDhanpal Mahakavi, Shantyasuri, Lavanyasuri
PublisherVijaylavanyasurishwar Gyanmandir Botad
Publication Year
Total Pages202
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy