________________
५०
टिप्पनक-परागविवृतिसंवलिता। द्रव्यजातम् , आराधयत मुक्त्वा छद्म पादपद्मद्वयं कोशलेन्द्रस्य । मुश्चत च सर्वात्मना मय्यपेक्षाम् , अहं हि प्रथमदर्शन एव देवेन भृत्यतां कुमारस्य नीतः, न तद्विरहितेन मया क्षणमपीह स्थातव्यम् , न च प्रवर्तितेन प्रदेशादितः पदमपि प्रतीपं गन्तव्यम् , तदनुजानीत मां जीवितपरित्यागाय यावदद्यापि न शृणोमि कुमारस्य चरमवार्ताम् , यावच्चैष चिरदर्शनोत्कण्ठितो न मे मार्गमवलोकयति तावत् त्वरित एव लोकान्तरगतं तमनुगच्छामि' इत्युदीर्य चिन्तितचिताप्रवेशश्चरणोत्क्षेपसमकालमुत्थितेन व्योमविवरव्यापिना शिबिरलोकाक्रन्दकलकलेन सूचितगतिक्रमः शैलनिम्नगापुलिनमुद्दिश्योदचलत् [फ] । - अत्रान्तरे पुरुषेणानुगम्यमानः प्रविश्य दौवारिको हर्षो नाम हर्षगद्गदमवादीत्-'कुमार! कुरु दृष्टिदानेनानुग्रहम् , एष परितोषनामा कमलगुप्तसेनापतेरत्यन्तमाप्तो लेखहारकः कुमारहरिवाहनस्य कुशलवार्तामावेदयति । श्रुत्वा चेदमाकस्मिकमतर्कितामृतवृष्टिकल्पं वचो झटिति विघटिताशेषशोकान्धकारं, पातालपङ्कादिवोन्मग्नम् , प्रलयघनदुर्दिनादिव निःसृतम् , कृतान्तमुखकुहरादिवाकृष्टम् , महाकालकरकपालोदरादिवोच्छलितम् , तक्षकाशीविषविषवेगवेदनयेवोन्मुक्तम् , अभिव्यक्तोपलक्षिताकाशकालदिग्विभागमव
युवराजेन, हरिवाहनेनेति यावत्, यत्किञ्चित् यत् किमपि, द्रव्यजातं वित्तराशिः, अर्जितं लब्धं, तत्, अधिकारिणां तत्रत्यधनाध्यक्षाणाम् , अर्पयत अधीनीकुरुत; छद्म व्याज, मुक्त्वा अपहाय, कोशलेन्द्रस्य कोशलाधिपतेः, मेघवाहनस्येत्यर्थः, पादपद्मद्वयं चरणारविन्दयुगलम् , आराधयत सेवध्वम् । च पुनः, सर्वात्मना सर्वथा, मयि, अपेक्षां प्रीति, मुञ्चत त्यजत; हि यतः, अहं प्रथमदर्शन एव प्रथमावलोकनकाल एव, कुमारस्य हरिवाहनस्य, भृत्यतां परिचारकता, दैवेन भाग्येन, नीतः प्रापितः, तद्विरहितेन भृत्योचितकार्यरहितेन, मया, इह इह लोके, क्षणमपि मुहूर्तमपि, न स्थातव्यं स्थातुमुचितं, न जीवितव्यमित्यर्थः । च पुनः, प्रवर्तितेन प्रयातुं प्रेरितेनापि, मयेति शेषः, इतः अस्मात् प्रदेशात् , पदमपि पदमात्रमपि, प्रतीपं प्रतिकूलं, न गन्तव्यं गन्तुं शक्यम्, तत् तस्मात् , अद्यापि अधुनापि, कुमारस्य हरिवाहनस्य, चरमवार्ताम् अन्तिमवृत्तान्तम् , यावत् न शृणोमि श्रवणगोचरीकरोमि, तावदिति शेषः, जीवितपरित्यागाय प्राणविमोचनाय, माम् , अनुजानीत अनुमन्यध्वम् । च पुनः, एषः मनसा सन्निकृष्टः, हरिवाहनः, चिरदर्शनोत्कण्ठितः दीर्घकालं मदर्शनोत्सुकः सन् , मे मम, मार्ग न अवलोकयति पश्यति, मां न प्रतीक्षत इत्यर्थः, तावत् त्वरित एव, लोकान्तरगतं परलोकप्रस्थितं, तं हरिवाहनम् , अनुगच्छामि अनुसरामि, इति इत्थम् , उदीर्य उक्त्वा, चिन्तितचिताप्रवेशः आलोचितचिताप्रवेशः, चिताप्रवेशप्रवृत्त इत्यर्थः, चरणोत्क्षेपसमकालं तत्प्रवेशाय पादोद्वेलनसमकालम् , उत्थितेन उद्गतेन, व्योमविवरव्यापिना गगनरन्ध्रव्यापकेन, शिबिरलोकाक्रन्दकलकलेन सैन्यावासवर्तिजनकृताक्रन्दकोलाहलेन, सूचितगतिक्रमः प्रत्यायितगमनप्रकारः, शैलनिम्नगापुलिनं पर्वतीयनदीजलान्तरालस्थलम् , उद्दिश्य लक्ष्यीकृत्य, उदचलत् प्रस्थितः [फ] ।
अत्रान्तरे अस्मिन्नवसरे, पुरुषेण वक्ष्यमाणलेखहारकजनेन, अनुगम्यमानः अनुस्रियमाणः, हर्षो नाम हर्षसंज्ञकः, दौवारिकः द्वारपालकः, प्रविश्य तत्पार्श्वे प्रवेशं कृत्वा, हर्षगद्गदं हर्षप्रयुक्ताव्यक्ताक्षरं यथा स्यात् तथा, अवादीत् उक्तवान् । किमित्याह-कुमार! युवराज!, दृष्टिदानेन दृष्टिक्षेपेण, अनुग्रहं कृपा, कुरु, कमलगुप्तसेनापतेः तदाख्यसेनानायकस्य, अत्यन्तम् , आप्तः विश्वासास्पदं, परितोषनामा तत्संज्ञकः, अयं लेखहारकः पत्रवाहकः, कुमारहरिवाहनस्य युवराजहरिवाहनस्य, कुशलवाता कुशल वृत्तान्तम् , आवेदयति विज्ञापयति। आकस्मिकं असम्भावितपूर्वम्, अतर्कि कल्पं आकस्मिकामृतवृष्टितुल्यम् , इदम् अनुपदोक्तम् , वचः दौवारिकवाक्यं, श्रुत्वा श्रवणगोचरीकृत्य, विघटिताशेषशोकान्धकारं विघटितः-निवृत्तः, अशेषः-समग्रः, शोकान्धकारः-शोकात्मकान्धकारो यस्य तादृशम् , अत एव पातालपङ्कात् पातालकर्दमात , उन्मन्नमिव उद्गतमिव; पुनः प्रलयघनदुर्दिनात् प्रलयकालि कमेघाच्छन्नदिनात् , निःसृतमिव निर्गतमिव; पुनः कृतान्तमुखकुहरात् यमराजमुखविवरात्, आकृष्टमिव उद्धृतमिव; पुनः महाकालकरकपालोदरात् महाकालस्य - महारुद्रस्य, करकपालोदरातू-हस्त स्थितकपालाभ्यन्तरात्, उच्छलितमिव उत्पतितमिव; पुनः तक्षकाशीविषविषवेदनया
"Aho Shrutgyanam"