________________
तिलकमञ्जरी त्रयख्यातविक्रमस्तस्मादपि करटिकीटादापदं प्राप्तोऽसि' इत्यादि विलपन् विलीननिद्रो विद्राणदेहातिर्विस्मृतनिजज्ञातिपक्षः स कथमपि क्षपामनयत् । आचकाङ्क्ष च तत्कालमेव कालं कर्तुम् [न]।
अथ समन्ततः प्रदीपितकाष्ठमवगताशयेनेव प्रभातानेहसा प्रकाशितमुदञ्चदर्चिश्चक्रवालं चिताचक्रमिव चण्डांशुमण्डलमवलोक्य संकलितशोकः सकलशर्वरीजागरणखिन्नानुद्वाष्पचक्षुषः क्षोणिपालानाजुहाव । निकटोपविष्टांश्च तानवनतमुखान् सदुःखानवलोक्य कश्चित् कालमावद्धाञ्जलिरुवाच - 'भो भो भूमिपतयः ! किमेवमुद्विग्नमानसास्तिष्ठथ, किं न कुरुथ प्रस्तुतानि कार्याणि, कृतं भवद्भिः कुमारस्य पुरुषकारोचितं यत् कर्तव्यम् , पृष्ठतः प्रतिष्ठमानैरनुसृतो दिनमशेषम् , अन्वेषितः प्रेषितपदातितत्रैस्तत्र तत्राटवीगहनेषु, प्रतीक्षितः क्षुत्पिपासापरिक्षीणकायैरेष्यतीत्याशया मार्गदेशोपविष्टैरहोरात्रत्रितयम् । अधुना तु किं कुरुथ, निधनं प्रापितो वः पौरुषावलेपो बलघता देवेन, दूरं गतोऽसौ, तदलमेतच्चिन्तया, कुरुत सांप्रतकालोचितं कृत्यम् [प] । अद्यैव कमलगुप्तं पुरस्कृत्य यात साकेतम् , अर्पयताधिकारिणामत्र यत्किञ्चिदर्जितं कुमारेण
त्रयख्यातविक्रमः त्रिभुवनप्रसिद्धपराक्रमः, त्वमिति शेषः, तस्मात् करटिकीटात् हस्तिरूपक्षुद्रजन्तोः, अपि, आपदं विपत्ति, प्राप्तोऽसि अनुभूतवानसि । इत्यादि एवमादि, विलपन् परिदेवयन् , विलीननिद्रः विलीना-निवृत्ता, निद्रा यस्य तादृशः, पुनः विद्राणदेहद्युतिः विद्राणा-म्लाना, देहद्युतिः-शरीरकान्तिर्यस्य तादृशः, पुनः विस्मृतनिजज्ञातिपक्षः विस्मृतःउपेक्षितः, निजज्ञातिपक्षः-स्वबन्धुवर्गो येन तादृशः, सः समरकेतुः, कथमपि केनापि प्रकारेण, क्षपां रात्रिम् , अनयत् व्यतीतवान् । च पुनः, तत्कालमेव तत्क्षणमेव, कालं खमृत्युं, कतुं निष्पादयितुम् , आचकाङ्क्ष अभिलषितवान् [न]।
अथ अनन्तरं, समन्ततः सर्वतः, प्रदीपितकाष्ठं प्रदीपिता-उज्वलिताः, काष्टाः-दिशो येन तादृशं, पक्षे प्रदीपितानिप्रज्वालितानि, काष्ठानि-इन्धनानि यत्र तादृशम् , पुनः अवगताशयेनेव अवगतः- ज्ञातः, आशयः-तस्य मरणाभिप्रायो येन तादृशेनेवेत्युत्प्रेक्षा, प्रभातानेहसा प्रातःकालेन, प्रकाशितं प्रकल्पितम् , पुनः उदश्चदर्चिश्चक्रवालं उदञ्चत्- उद्गच्छत् , अर्चिषां-किरणानां, पक्षे ज्वालायाः, चक्रवालं-मण्डलं यत्र तादृशं, चण्डांशुमण्डलं चण्डांशोः-सूर्यस्य, मण्डलं-बिम्बं, चिताचक्रमिव चितामण्डलमिवेत्युत्प्रेक्षा, अवलोक्य दृष्टा, संकलितशोकः उपसंहृतकुमारापहारशोकः सन् , सकलशर्वरीजागरणखिन्नान् समग्ररजनीनिद्राक्षयश्रान्तान् , उद्बाष्पचक्षुषः उद्गताश्रुलोचनान् , क्षोणिपालान् नृपान् , आजुहाव आहूतवान् , समरकेतुरिति शेषः। च पुनः, निकटोपविष्टान् पार्थोपविष्टान् , अवनतमुखान् अधोमुखान् , सदु:खान् दुःखान्वितान् , तान् प्रकृतनृपतीन् , अवलोक्य निरीक्ष्य, कश्चित् कियन्तं, कालम् , आबद्धाञ्जलिः रचिताञ्जलिः सन् , उवाच उक्तवान् , किमित्याह-भो भो भूमिपतयः! नृपतयः, एवम् अनेन प्रकारेण, उद्विग्नमानसाः उद्घान्तहृदयाः, किं कुतः, तिष्ठथ वर्तध्वे, प्रस्तुतानि उपक्रान्तानि, कार्याणि स्वखकर्माणि, किं किमर्थं, न कुरुथ सम्पादयथ, पुरुषकारोचितं स्वपौरुषानुगुणं, कुमारस्य प्रकृतयुवराजस्य, तं प्रतीत्यर्थः, यत् कर्तव्यं कर्तुमुचितं, तद् भवद्भिः युष्माभिः, कृतं अनुष्ठितम् , पृष्ठतः पश्चात् , प्रतिष्ठमानैः प्रयाणं कुर्वद्भिः, भवद्भिरित्यध्याहारः, अशेषं समस्तं, दिनम् , अनुसृतः पुनः अनुधावितः, स कुमार इति शेषः, पुनः तत्र तत्र तेषु तेषु, अटवीगहनेषु वनदुर्गेषु, प्रेषितपदातितन्त्रैः प्रेषितप्रधानपादगामिभिः, भवद्भिरिति शेषः, अन्वेषितः गवेषितः, पुनः क्षुत्पिपासापरिक्षीणकायैरपि बुभुक्षापिपासालान्तशरीरैरपि, एष्यति आगमिष्यति, इत्याशया अनया सम्भावनया, मार्गदेशोपविष्टैः तदागमनमार्गरूपस्थानोपविष्टैः, भवद्भिरिति शेषः । अहोरात्रत्रितयं दिनरात्रित्रयं, प्रतीक्षितः कृतप्रत्यागमनप्रतीक्षः, सर्वत्र, स कुमार इति शेषः, अधुना तू तत्तत्प्रतिक्रियानन्तरं तु, किं कुरुथ प्रतिकुरुथ, वः युष्माकम् , पौरुषावलेपः पराक्रमाभिमानः, बलवता प्रतिकूलबलेन, दैवेन दुर्भाग्येन, निधनं विनाश, विफलत्वमित्यर्थः, प्रापितः, तत् तस्माद्धेतोः, एतच्चिन्तया एतदनुतापेन, अलं न किमपि फलम् ; सांप्रतकालोचितं प्रातःसन्ध्योचितं, कृत्यं कार्य, कुरुत सम्पादयत [प] । पुनः अद्यैव अस्मिन्नेव दिने, कमलगुप्तं तदाख्यसेनापति, पुरस्कृत्य अग्रतः कृत्वा, साकेतं अयोध्यापुरी, यात गच्छत; अत्र अस्मिन् स्थाने, कुमारेण प्रकृत
७ तिलक.
"Aho Shrutgyanam"