SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ टिप्पनक - परागविवृतिसंवलिता । माचस्कन्दं दारुणो राजवृन्दस्याक्रन्दः । तेन च प्रकाममार्तेन बान्धवजनेनेव सत्वरेणोपसृत्य श्रवणमूलमवबोधितः स धीरमुत्थाय शिथिलितविलापश्चचाल सिंहलाधिपसुतः शिबिरम् । अनुचरावलम्बितबाहुयुगलश्च विगलद्भिरविरलैरथुपटलैरनवलोकितपथः कथञ्चिदाससाद शयनीयसदनम् [ध ] | www प्रविश्य च क्षितितलावस्थापितकुथास्तरणपर्यस्तदेहो निवारिताशेषपरिजनासत्तिरविरतप्रवृत्तिभिः श्वासपवनैरिवाहतेन प्रसरत।नुपदमास्पदीकृतो दाहदहनेन सततवाष्पसलिलसङ्गादामूलमङ्कुरितमिव निःसंख्यतां गतं दुःखभारमुद्वहन् मानसेन क्षणं निषण्णः क्षणमासीनः क्षणं परावर्तमानो मनुज लोकावासविद्वेषेण द्वैधमत्रजन्तीं महीमपतदुपरि ब्रह्माण्डमदलत् सहस्रधा हृदयमक्षीयमाणमेकक्षणेनायुः पुनः पुनः साधिक्षेपमाक्रोशन् 'भ्रातः, विघटितः स ते शुभग्रहदृष्टिपातः, गता वृथात्वमधिकृत्य तथाविधा नैमित्तिकादेशाः, क्षीणश्चक्रवर्तिलक्षणानामनुभावः, विसंवदितमुदितं राज्यलक्ष्म्या विगतलक्षणस्य मे भाग्यदोषेण, येन भुवन ४८ टिप्पनकम् - कुथः - [ चित्र ]वर्णकम्बलः [न] 'रोदोरन्धम्' इति पाठे तु द्यावाभूमिमध्यम्, आचस्कन्द आक्रान्तवान् । च पुनः प्रकामं अत्यन्तम्, आर्तेन व्यथिसेन, बान्धवजनेनेव बन्धुवर्गेणेव सत्वरेण त्वरासहितेन तेन राजवृन्दाकन्देन, श्रवणमूलं कर्णमूलम्, उपसृत्य उपगत्य, अवबोधितः विज्ञापितः सन्, सः प्रकृतः, सिंहलाधिपसुतः सिंहलद्वीपाधिपतिकुमारः, समरकेतुरित्यर्थः, शिथिलितविलापः मन्दीकृताक्रन्दः, धीरं शनैः, उत्थाय शिबिरं सैन्यावासं चचाल गन्तुं प्रवृत्तः । च पुनः, अनुचरावलम्बितबाहुयुगलः किङ्करगृहीतोभयभुजः, विगलद्भिः निपतद्भिः, अविरलैः सान्द्रैः, अश्रुपटलैः अश्रुराशिभिः, अनवलोकितपथः अदृष्टमार्गः, शयनीयसदनं शयनगृहं कथञ्चित् केनापि प्रकारेण, आससाद गतवान् [ ध ] | च पुनः प्रविश्य शयनगृहे प्रवेशं कृत्वा, क्षितितलावस्थापितकुथास्तरणपर्यस्तदेहः क्षितितले-भूमितले, अवस्थापितेआस्तीर्णे, कुथास्तरणे - 'झुल' इति ख्याते गजपृष्ठस्थाप्यचित्रवर्णकम्बलमये शयनसाधने दर्भमये वा शयनसाधने, “कुथः स्यादास्तरणदर्भयोः” इत्यनेकार्थसंग्रहः, पर्यस्तदेहः - विक्षिप्तशरीरः; पुनः निवारिता शेषपरिजनासप्तिः निवारिता-निषिद्धा, अशेषाणां समस्तानाम्, परिजनानां परिवाराणाम्, आसत्तिः - सान्निध्यं येन तादृशः, पुनः अविरतप्रवृत्तिभिः निरन्तरनिर्गतिभिः, श्वासपवनैः श्वासवायुभिः, आहतेनेव प्रज्वालितेनेव, अनुपदं प्रतिस्थानं, प्रसरता व्याप्नुवता, दाहदहनेन अन्तस्वापाग्निना, आस्पदीकृतः आश्रयीकृतः, पुनः सततबाष्पसलिलसङ्गात् अनवरतमश्रुजलसम्पर्कात्, आमूलं मूलपर्य न्तम्, अङ्कुरितमिव सञ्जाताङ्कुरमिव, निःसंख्यतां असंख्यतां गतं प्राप्तं, दुःखभारं दुःखसमूहं, मानसेन अन्तःकरणेन, उद्वहन् गृह्णन्, क्षणं क्षणमात्रम्, -निषण्णः स्थितः पुनः क्षणं क्षणपर्यन्तम्, आसीनः उपविशन्; पुनः क्षणं क्षणमात्रं, परावर्तमानः पार्श्वपरिवर्तनं कुर्वन्, मनुजलोकावासविद्वेषेण मनुजलोकानां क्षणिकसंयोगशीलानां मनुष्यजनानाम्, यद्वा मनुजलोकस्य - मर्त्यभुवनस्य, आवासेन - निवासस्थानेन, यो विद्वेषः- अप्रीतिः, तेन द्वैधं द्विधाभावं, खण्डद्वयमित्यर्थः, अव्रजन्तीं अप्राप्नुवत, महीं पृथ्वीम् उपरि ऊर्ध्वभागे, अपतत् तद्विधाकरणार्थमस्रंसमानं, ब्रह्माण्डं उपरितनभुवनराशिम्, पुनः सहस्रधा सहस्रभागैः, अदलत् अवदीर्यमाणं, हृदयं स्वहृदयदेशम् पुनः एकक्षणेन क्षणमात्रेण, अक्षीयमाणं अविनश्यत्, आयुः स्वजीवनकालम्, पुनः पुनः अनेकवारं साधिक्षेपं सधिक्कारम्, आक्रोशन् भर्त्सयन्, 'भ्रातः ! सखे !, ते तव, स सर्वजनप्रसिद्धः, शुभग्रहदृष्टिपातः शुभग्रहाणां - केन्द्र गतबृहस्पतिप्रभृतीनाम्, दृष्टिपातः - सम्मुख वर्तित्वं, विघटितः निवृत्तः, कथमन्यथेदृशी दशा स्यादित्यर्थः ; पुनः त्वां भवन्तं, हरिवाहनमित्यर्थः, अधिकृत्य आश्रित्य ये नैमित्तिकादेशाः नैमित्तिकानां-शुभशकुनाचेदकानां दैवविदामित्यर्थः, आदेशाः - शुभाशंसनानि, ते वृथात्वं निष्फलत्वं, विरुद्धफलकत्वमिति यावत्, गताः प्राप्ताः; पुनः चक्रवर्तिलक्षणानां अखण्डमहीमण्डलाधिपत्यचिह्नानाम्, अनुभावः प्रभावः, क्षीणः ध्वस्तः; विगतलक्षणस्य नष्टशुभलक्षणस्य मे मम, भाग्यदोषेण दैववैगुण्येन, राज्यलक्ष्म्या राजकुलाधिष्ठात्र्या लक्ष्मीदेव्याः, विसंवदितं विसंवाद :- प्रतिकूलोक्तिः, उदितं सर्वत्रोत्थितम्, तद्योग्ययुवराजापहारादिति भावः । येन यस्मात् कारणात्, भुवन "Aho Shrutgyanam"
SR No.008457
Book TitleTilakamanjiri Part 3
Original Sutra AuthorN/A
AuthorDhanpal Mahakavi, Shantyasuri, Lavanyasuri
PublisherVijaylavanyasurishwar Gyanmandir Botad
Publication Year
Total Pages202
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy