________________
तिलकमञ्जरी
४७
स्तस्योच्छन्नमूर्तेर्मृगाधमस्य गतिमार्गः ।' त एवमनुयुक्ताः समरकेतुना निःश्वस्य दीर्धमाघ्रातमनसो मन्युना प्रणम्य शनकैः सगद्गदं जगदुः -- 'युवराज ! न केवलं गमनमार्गः, सोऽपि दुष्टात्मा पापकर्मभिर्दृष्टोऽस्माभिः । केवलं यद्व्यावर्तनाशया तस्य पृष्ठे प्रधाविताः, यं चान्वेषयद्भिरनुभूतो दिनत्रयमसावसद्यः क्षुत्पिपासाकृतः परिक्लेशः, यं चानीय युवराजेन योजयितास्म इति पुरा चिन्तितमस्माभिः, स नास्ति सकलमेदिनीचक्रचन्द्रमाः कुमारः' इत्यभिधाय बाष्पजललवानधोमुखाः ससृजुः [द] । युवराजस्तु तदकाण्डकुलिशपाशपातप्रख्यमाकर्ण्य तेषां वचनमक्रमोपचितेन पूरितः परमशोकेन – 'भद्राः ! किमद्यापि कथयिष्यथ, श्रुतं श्रोतव्यम्, उपसंहरत वार्ताम्, अतः परमशक्तः श्रोतुमस्मि' इत्युदीर्यावच्छाद्य च त्वरितमुत्तरीयवाससा सोत्तमाङ्ग
'हा सर्वगुणनिधे ! हा बुधजनैकवल्लभ ! हा प्रजाबन्धो ! हा समस्तकलाकुशल ! कोसलेन्द्रकुलचन्द्र ! हरिवाहन ! कदा द्रष्टव्योऽसि' इति विलपन्नेव मीलितेक्षणः क्षणेनैव निकटोपविष्टस्य खड्ग प्राहिणो जगाम पर्यस्त - विग्रहस्तिर्यगुत्सङ्गम् । अत्रान्तरे निरन्तरोदितरुदितरवसंभेदमेदुरो दारयन्निव दयालुहृदयानि रोधोरन्ध्र
टिप्पनकम् - अनुयुक्ताः पृष्टाः । मन्युना दैन्येन [द] |
अधमगजस्य, गतिमार्गः गमनमार्गः, दृष्टः दृष्टिगोचरीकृतः । समरकेतुना एवं अनेन प्रकारेण, अनुयुक्ताः पृष्टाः, ते हस्तिपकजनाः, दीर्घ विस्तृतं निःश्वस्य नासिकापवनं मुक्त्वा मन्युना शोकेन, आघ्रातमनसः व्याप्तहृदयाः सन्तः, प्रणम्य नमस्कृत्य, शनकैः मन्दं, सगद्गदं अव्यक्ताक्षरसहितम्, जगदुः उक्तवन्तः । किमित्याह-युवराज ! केवलं गमनमार्गः गमनमार्ग एव न, किन्तु दुष्टात्मा दुष्टखभावः सोऽपि गजोऽपि पापकर्मभिः दुष्टकर्मवशवर्तिभिः अस्माभिः, दृष्टः साक्षात्कृतः, केवलं किन्तु, यड्यावर्तनाशया यस्य- कुमारस्य, परावर्तनाकाङ्क्षया, तस्य गजस्य, पृष्ठे पश्चाद्देशे, प्रधाविताः सत्वरं गताः, वयमिति शेषः । च पुनः, यं कुमारम्, अन्वेषयद्भिः गवेषयद्भिः अस्माभिरित्यध्याहारः, दिनत्रयम्, असह्यः सोढुमशक्यः, क्षुत्पिपासाकृतः बुभुक्षापिपासाप्रयुक्तः, असौ परिक्लेशः अतिकष्टम्, अनुभूतं भुक्तम्, च पुनः, यं कुमारम्, आनीय उपस्थाप्य, युवराजेन कुमारेण भवता सह, योजयितास्मः सम्मेलयितास्मः, इति इत्थम्, अस्माभिः पुरा पूर्वं चिन्तितं आलोचितं, सकलमेदिनीचक्रचन्द्रमाः समस्तभूमण्डलचन्द्रखरूपः, सः प्रकृतः कुमारः, हरिवाहन इत्यर्थः, नास्ति न वर्तते इति इत्थम्, अभिधाय उक्त्वा, अधोमुखाः अवनतवदनाः सन्तः, बाष्पजललवान् अनुजलबिन्दून्, ससृजुः मुक्तवन्तः [द] |
युवराजस्तु समरकेतुस्तु, अकाण्डकुलिशपाशपातप्रख्यम्, अकाण्डे - अनवसरे, कुलिशपाशस्य - निन्द्यवज्रस्थ, असह्यवज्रस्येत्यर्थः, यः पातः - पतनं तत्प्रख्यं तत्तुल्यं, तेषां हस्तिपकजनानां तत् अनुपदोक्तं वचनम्, आकर्ण्य श्रुत्वा, अक्रमोपचितेन युगपत्प्रवृद्धेन, परमशोकेन अत्यन्तशोकेन, पूरितः व्याप्तः सन्, 'भद्राः ! कल्याणवन्तः 1 अद्यापि अधुनापि, किं कथयिष्यथ वक्ष्यथ, श्रोतव्यं श्रोतुं योग्यं श्रुतं वृत्तं वार्तां प्रकृतवृत्तान्तम्, उपसंहरत समाद्भुत, अतः अस्मात् परं अनन्तरं श्रोतुं तद्वार्ता श्रवणगोचरीकर्तुम्, अशक्तः असमर्थः, अस्मि' इति इत्थम्, उदीर्य उक्त्वा, च पुनः, सोत्तमाङ्गं उत्तमाङ्गेन- मस्तकेन सहितम्, अङ्गं शरीरावयवम्, उत्तरीयवाससा उत्तरीयवस्त्रेण, अवच्छाय आच्छाय, हा सर्वगुणनिधे ! निखिलगुणाकर !, हा बुधजनैकवल्लभ ! विद्वज्जनपरमप्रिय 1 हा समस्तकला कुशल ! अशेषकलाकोविद ! कोसलेन्द्रकुलचन्द्र ! कोसलेश्वरकुमुदकानन विकासकचन्द्र !, हरिवाहन ! तदाख्ययुवराज !, कदा कस्मिन् काले, द्रष्टव्योऽसि द्रष्टुं शक्योऽसि, इति इत्थं, विलपन्नेव क्रन्दन्नेव, मीलितेक्षणः मुद्रितनेत्रः, क्षणेनैव क्षणमात्रेण, निकटोपविष्टस्य समीपोपविष्टस्य, खड्गग्राहिणः खङ्गघारिणः, उत्सङ्गं कोडं, पर्यस्तविग्रहः विक्षिप्तगात्रः सन्, तिर्यक् कुटिलं, जगाम गतवान् । अत्रान्तरे अस्मिन्नवसरे, निरन्तरोदितरुदितरवसम्मेदमेदुरः निरन्तरं -अविरतम्, उदितानां - उत्थितानाम्, रुदितरवाणां - रोदनशब्दानाम्, सम्भेदेन-मिश्रणेन, मेदुरः सान्द्रः, अत एव दयालुहृदयानि सदयहृदयानि, दारयन्निव भिन्दन्निव, दारुणः भीषणः, राजवृन्दस्य राजसमूहस्य, आक्रन्दः विलापः, रोधोरन्ध्र वटवित्ररम्,
"Aho Shrutgyanam"