________________
टिप्पनक-परागविवृतिसंवलिता । निरन्तरगवा क्षितेन प्रकामरूक्षत्वचा कायेन दुर्गाटवीपर्यटनमनक्षरं व्याचक्षाणान् , सर्वदा व्यायामेन तक्षितानि तदा तु तेन व्यायामेन क्षुधा च क्षामता परामानीतानि क्षीणजीवनोपायानीव प्रकटवंशपृष्ठमाश्रितानि बिभ्रतो जठराणि, सत्वरचरणपातपरम्परोत्थापितेनारण्यपथरेणुना पाण्डुरीकृतशिरःश्मश्रुकेशान् , अपक्रान्तयौवनावलेपलब्धान्तरया जरयेवागत्य कवलितान् , अप्रसाधितारब्धकार्यचिन्ताश्रान्तपौरुषान, अभिमुखं मुखनिखातदृष्टिमार्गोपविष्टमिष्टस्वामिकुशलवार्ताश्रवणपर्युत्सुकं राजकमवलोक्यावलोक्य लज्जया परस्परस्य पृष्ठे निलीयमानांस्तानपश्यत् [थ] ।
दृष्ट्वा च दूनचेताः समीपागतानकृतप्रणामानेव पप्रच्छ-'भद्राः ! किमाकुला यूयम् , आयात विश्रब्धम् , अवदद्भिरेव युष्माभिरनेन दूरावनतपक्ष्मणा ब्रीडाजडविलोकनेन प्रयत्नरक्षितगलद्वाष्पाम्भसा लोचनद्वयेनैवावेदितमदर्शनं द्विपस्य, तथाप्यलीकाशया खलीकृतः पृच्छामि किञ्चित् , दृष्टः कचिदरण्योद्देशे गच्छत
खदिराख्यवृक्षशाखाग्रभागोद्धर्षणजन्यरेखाभिः, निरन्तरगवाक्षितेन निरन्तरच्छिद्रितेन, प्रकामरूक्षत्वचा प्रकाम-अत्यन्त, रूक्षा-अचिक्कणा, त्वक्-चर्म यस्य तादृशेन, कायेन शरीरेण, अनक्षरं अक्षरोच्चारणं विनैव, दुर्गाटवीपर्यटनं दुर्गादुःखेन गम्या, या अटवी-वनं, तस्या पर्यटनं-परिभ्रमणं, व्याचक्षाणान् व्याहरतः, सूचयत इत्यर्थः पुनः सर्वदा सर्वस्मिन काले, पूर्वकालेऽपीत्यर्थः, व्यायामेन शरीरविस्फारणेन, तक्षितानि तनूकृतानि, तदा तु तस्मिन् काले तु, तेन व्यायामेन, चपुनः, क्षुधा बुभुक्षया, परां अत्यन्तां, क्षामतां कृशताम् , आनीतानि आपादितानि, अत एव क्षीणजीवनोपायानीव क्षीणाः-अपगताः, जीवनस्य-प्राणधारणस्य, उपायाः-भोजनपानादयः प्रतीकारा येषां तादृशानीवेत्युत्प्रेक्षा, प्रकटवंशष्ट प्रकटः-त्वक्क्षयेण प्रकटीभूतो यो वंशः-पृष्ठभागा स्थिपञ्जरः, तस्यापि पृष्ठं-पश्चाद्भागम् , आश्रितानि अन्तर्गतानि, जठराणि उदराणि, बिभ्रतः धारयतः । पुनः सत्वरचरणपातपरम्परोत्थापितेन सत्वराणां-त्वरापूर्वकाणां, चरणपातानापादविक्षेपाणां, परम्परया-धारया, उत्थापितेन-उत्क्षिप्तेन, अरण्यपथरेणना वनमार्गधूल्या. पाण्डरीकृतशिरःश्मश्रकेशान् पाण्डुरीकृताः-पीतसम्बलितशुक्लतामापादिताः, शिरसः-मस्तकस्य, इमश्रणः-दाढिकासम्बन्धिनश्च, केशा येषां तादृशान् । पुनः अपक्रान्तयौवनावलेपलब्धान्तरया अपक्रान्तेन-अपगतेन, निवृत्तेनेत्यर्थः, यौवनावलेपेन-तारुण्यमदेन, तदपगमेनेत्यर्थः, लब्धं-प्राप्तम् , अन्तरं-अवकाशो यया तादृश्या, जरया वार्धक्यावस्थया, आगत्य उपस्थाय, कवलितानिव प्रस्तानिवेत्युत्प्रेक्षा; पुनः अप्रसाधितारब्धकार्यचिन्ताश्रान्तपौरुषान् अप्रसाधितम्-अनिष्पादितम् , आरब्धं-उपकान्तं . च, यत् कार्य-मजाफहतहरिवाहनान्वेषणं, तच्चिन्तया, श्रान्तं-निवृत्तकार्य, पौरुषं-शक्तिर्येषां तादृशान् ; पुनः लजया लज्जावशेन, परस्परस्य अन्योऽन्यस्य, पृष्ठे पश्चाद्भागे, निलीयमानान् तिरोभवतः, किं कृत्वा? राजकं राजसमूहम् , अवलोक्य भवलोक्य दृष्ट्वा दृष्ट्वा, कीदृशम् ? अभिमुखं सम्मुखस्थं, पुनः मुखनिखातदृष्टिमार्गोपविष्ठं मुखे-मुखमण्डलमध्ये, निखातायाः-निवेशितायाः, दृष्टेः, मार्गे-गोचरे, उपविष्ट-स्थितम् , पुनः इष्टस्वामिकुशलवार्ताश्रवणपर्युत्सुकम् , इष्टस्यश्रोतुमाकासितस्य, खामिकुशलस्य-हरिवाहनशुभस्य, या वार्ता-वृत्तान्तः, तच्छ्रवणे, पर्युत्सुकम्-अत्यन्तोत्कण्ठितम् [थ]।
च पुनः, दृष्ट्वा तानवलोक्य, दूनचेताः परितप्तहृदयः, समरकेतुरिति शेषः, समीपागतान निकटमायातान् , अकृतप्रणामानेव प्रणामात् प्रागेव, प्रपच्छ पृष्टवान् , तानिति शेषः । किमित्याह-भद्राः! कल्याणिनः ! यूयं भवन्तः, किं कस्माद्धेतोः, आकुलाः-व्यग्राः, विश्रब्धं सविश्वासम् , आयात आगच्छत; अवदद्भिरेव अकथयद्भिरेव, ष्माभिः भवद्भिः, दावनतपक्ष्मणा दूरम् , अवनतम्-नम्रीभूत, पक्ष्म-नयनोपरिस्थरोमराजियस्य तादृशेन, पुनः ब्रीडाजडविलोकनेन वीडया-लज्जया, जड-शिथिलतामापन्नं, विलोकन-दर्शनव्यापारो यस्य तादृशेन, पुनः प्रयत्नरक्षितगलद्वाष्पाम्भसा प्रयलेन-प्रयासेन, रक्षितम्-अधःक्षरणानिवारितं, गलत्-अन्तःस्यन्दमानं, बाष्पाम्भ:-अश्रुजलं यस्य तादृशेन, अनेन प्रत्यक्षवर्तिना, लोचनद्वयेनैव नयनयुगलेनैव, द्विपस्य प्रकृतहस्तिनः, अदर्शनं दर्शनाभावः, आवेदितं सूचितम् । तथाऽपि तदावेदनेऽपि, अलीकाशया मिथ्याऽऽशया,-खलीकृतः तुच्छतामापादितः सन् , किञ्चित् किमपि, पृच्छामि जिज्ञासाम् भावेदयामि, कचित् कस्मिंश्चित् , अरण्योद्देशे वनप्रदेशे, गच्छतः, उच्छन्नमूर्तेः अदृश्याकृतेः, तस्य प्रकृतस्य, मृगाधमस्य
"Aho Shrutgyanam"