SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ तिलकमञ्जरी ४५ क्षणे गमनदक्षमखिलासु दिक्षु सर्वमात्मपदातिबलमवनिपालसूनोरन्वेष्टारमा दिष्टवान् [ण ] | आत्मनापि मार्गतरुमूलवर्ती परिहृतस्नानभोजनादिकर्तव्यो निवृत्त सकला परव्यापारेण क्षुत्पिपासापरिक्षीणवपुषा परिवृतः प्रधानपुरुषवृन्देन पृच्छन्नादरेण सुहृदुदन्तं प्रत्येकमध्वगानादिनान्तमतिष्ठत् । अस्तपर्यस्तमण्डले च कमलबन्धौ बद्धनिर्वेदः कथञ्चिदागत्य वसतिस्थानमधिकमस्वस्थचेताश्चिन्तामयीमिव प्रबलदत्तदाहवेदना वेगदुःसहां सहासन्नवनदीर्घिकाचक्रवाकमिथुनैर्निशीथिनीमनयत् । ईषद्विकसितालोक एव च वासवककुभि वासरे विनिःसृत्य वसतेः पुनस्तदेव पादपमूलमगमत्, अन्वपालयच्च क्षितिपालसूनोर्व्या वर्तनार्थमनु मार्गप्रधावितानापतिष्यतो हस्तिपकपुरुषान् [ त ] | अथ मुहूर्तावशेषेऽह्नि दूरादेव विद्राणवदनान्, इतस्ततो निहितशिथिलालसपदान्, असक्तचङ्कमणखेदितेन मुक्तानि जीवितेन, श्वेतायताभिरन्तरान्तरापरिस्रवत्सान्द्ररुधिराभिः खदिरतरुशाखा शिखोल्लेख रेखाभि टिप्पनकम् - उदन्तः - वार्ता [त ] | प्रेष्टेन अतिशयप्रियेण सेनावण्ठवर्गेण सेनायां समवेता ये वण्ठाः - " वण्ठः कुन्तायुधे खर्वे भृत्याकृतविवाहयोः” इत्युक्ता अनुचरविशेषाः तत्समूहेन, गमनात् पुरः प्रयाणात्, निवर्तितः सन् तत्रैव तस्मिन्नेव, क्षणे, अखिलासु समस्तासु, दिक्षु, गमनदक्षं प्रयाणक्षमम्, पुनः अवनिपालसूनोः कुमारस्य, हरिवाहनस्येति यावत्, अन्वेष्टारं अन्वेषकं सर्वं समस्तम्, आदिष्टवान् आज्ञप्तवान् [ण ] | आत्मनापि स्वयमपि मार्गतरुमूलवर्ती मार्गवृक्षाधः स्तलस्थः सन्, परिहृतस्नानभोजनादिकर्तव्यः परिहृतं त्यक्तं, स्नानभोजनादिकं कर्तव्यं कार्यं येन तादृशः, पुनः निवृत्त सकला परव्यापारेण निवृत्तः, सकलः - समस्तः, अपरः - प्रकृतकुमारापहरणालोचनातिरिक्तः, व्यापारः - क्रिया येन तादृशेन, पुनः क्षुत्पिपासापरिक्षीणवपुषा क्षुत्पिपासाभ्यां बुभुक्षापिपासाभ्यां, परिक्षीणम्-अतिकृशं वपुः शरीरं यस्य तादृशेन, प्रधानपुरुष - वृन्देन मुख्यमुख्यजनतया, परिवृतः परिवेष्ठितः, प्रत्येकं एकैकम्, अध्वगान् पथिकान्, सुहृदुदन्तं सुहृदः - हरिवाह - नस्य, उदन्तं - वार्ताम्, आदरेण प्रीत्या, पृच्छन् जिज्ञासां ज्ञापयन्, आदिनान्तं सायंकालपर्यन्तम्, अतिष्ठत् स्थितवान् । च पुनः, कमलबन्धौ सूर्ये, अस्तपर्यस्तमण्डले अस्तं - पूर्वमंशतोऽस्तं गतं, पश्चात् पर्यस्तं सर्वतोऽस्तं गतं च यद्वा अस्तेअस्ताचले, पर्यस्तं पतितं मण्डलं- बिम्बं यस्य तादृशे सति, बद्धनिर्वेदः आपन्नग्लानिः सन् वसतिस्थानं निजनिवासस्थानं, कथञ्चित् केनापि प्रकारेण, आगत्य उपस्थाय, अधिकं अत्यन्तम्, अस्वस्थचेताः विक्षिप्तहृदयः, आसन्नवनदीर्घिकाचक्रवाक मिथुनैः निकटवर्तिवनवापीस्थचक्रवाकजातीयपक्षिद्वन्द्वैः सह चिन्तामयीमिव चिन्तापूर्णामिव, प्रबलदत्तदाहवेदनावेगदुस्सहां प्रबलम् - अतिमात्रं यथा स्यात् तथा, दत्तायाः - उत्पादितायाः, दाहवेदनायाः - अन्तस्तापदुःखस्य, वेगेन - औत्कट्येन, दुःसहां-दुःखेन सह्यां, निशीथिनीं रात्रिम्, अनयत् व्यतीतवान् । च पुनः, वासवककुभि वासवस्य- इन्द्रस्य, ककुभि - दिशि, पूर्वदिशीत्यर्थः, ईषद्विकसितालोक एव ईषत् किञ्चित्, विकसितः - प्रसृतः, आलोकः - प्रकाशो यस्मिंस्तादृश एवं वासरे दिने, प्रातरेवेत्यर्थः, वसतेः वासस्थानात्, विनिःसृत्य विनिर्गत्य, पुनः तदेव पूर्वेद्युरधिष्ठितमेव, पादपमूलं वृक्षाधःस्थलम्, अगमत् गतवान्। च पुनः, क्षितिपालसूनोः नृपकुमारस्य, हरिवाहनस्येत्यर्थः, व्यावर्तनार्थ परावर्तनार्थम्, अनु मार्गप्रधावितान् प्रतिमार्गं कृतशीघ्रगतिकान्, हस्तिपकपुरुषान् महामात्रजनान्, अन्वपालयत् प्रतीक्षितवान् [त ] | अथ अनन्तरं, मुहूर्तावशेषे मुहूर्तमात्रावशिष्टे, अह्नि दिने, दूरादेव तान् हस्तिपकजनान् अपश्यत् दृष्टवान्, इत्यश्रेणान्वेति; कीदृशान् ? विद्राणवदनान् म्लानमुखान्; पुनः इतस्ततः अत्र तत्र, निहित शिथिलालस पदान् निहितेनिवेशिते, शिथिले, अलसे - श्रान्ते च पदे-चरणौ यैस्तादृशान् ; पुनः असक्तचङ्क्रमणखेदितेन असक्तम् - अव्यवस्थितं यत चङ्क्रमणं-बम्भ्रमणं, तेन खेदितेन व्यथितेन जीवितेन प्राणैः, मुक्तान् त्यक्तान् इवेत्युत्प्रेक्षा; पुनः श्वेतायताभिः श्वेताभिः-शुभ्रवर्णाभिः, आयताभिः - दीर्घाभिश्च अन्तराऽन्तरा मध्ये मध्ये, परिस्रवत्सान्द्ररुधिराभिः परिस्रवन्ति-: निःष्यन्दमानानि, सान्द्राणि - निबिडानि, रुधिराणि - शोणितानि याभ्यस्तादृशीभिः खदिरतरुशाखा शिखोल्लेख रेखाभिः "Aho Shrutgyanam"
SR No.008457
Book TitleTilakamanjiri Part 3
Original Sutra AuthorN/A
AuthorDhanpal Mahakavi, Shantyasuri, Lavanyasuri
PublisherVijaylavanyasurishwar Gyanmandir Botad
Publication Year
Total Pages202
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy