________________
४४
टिप्पनक-परागविवृतिसंवलिता । घूर्णति कर्णचामरम् , इदमुभयतः प्रकीर्णमग्रकरपुष्करेण क्षरति पर्यन्तवल्लिपल्लवेभ्यस्तुहिनलवनिकरहारि शीकरबिन्दुजालकम्' इति समासन्नगजगमनशंसिभिः पुरोयायिनां सैनिकानामालापैः कियन्तमपि मार्गमर्पिताश्वासः संकलमपि दिनमटव्यामवहत् [ढ] । अस्ताचलतटाभिलाषिणि च तिग्मदी धितौ धृताध्वधूपिताश्वतत्रैः प्रवर्तितो निवासग्रहणाय राजपुत्रैरेकत्र सुलभतृणकाष्ठसलिले शैलसिन्धुरोधसि स्थितिमकल्पयत् । अतिमात्रमल्पीभूतभूपात्मजपुनदर्शनाशश्च प्रेर्यमाणोऽपि वारंवारमवनिपतिभिराग्रहेण नाहारमग्रहीत् । गृहीतगाढचिन्तामौनश्च दृढसमाधिस्थ इव लक्ष्यमाणः प्रतिक्षणक्षिप्ततप्तायतश्वासपिशुनितासमाधिदेवतास्मरणवन्ध्यां सन्ध्यामत्यवाहयत् । तरुतलप्रसारिते च तुरगपृष्ठास्तरणचर्मणि निषण्णो विषण्णेनान्तरात्मना चिन्तयन् कुमारमुद्दिश्य तानि तान्यनिष्टानि कथञ्चिदपि तामनेककल्पायतैकैकयामां त्रियामामनयत् । उद्गते च दिनपतौ पुरस्तात् प्रतिष्ठासुः प्रेष्ठेन सेनावण्ठवर्गेण नास्ति गतिरप्रतस्तुरङ्गिणामिति निर्वर्तितो गमनात् तत्रैव
टिप्पनकम्-[अनेककल्पायतैकैकयामां] चतुर्युग-कल्पः, युग द्वादशसाहस्यम् [ण]। .
वृक्षशाखोर्श्वभागाने, विलग्नं अवलम्बितम् , पुनः अभिनवमृणालतन्तुकलापकोमलं अभिनवः-नवीनो यो मृणालतन्तूनां-बिसतन्तूनां, कलापः-समूहः, तद्वत् कोमलम्, पुनः अनिलाहतं अनिलेन-वायुना, आहतं-उद्वेलितम् ; अग्रकरपु पुष्करेण अग्रे यः करः-हस्तः, शुण्डेति यावत्, तत्पुष्करेण-तदग्रभागेन, उभयतः भागद्वये, प्रकीर्ण प्रक्षिप्तम् , पुनः तुहिनलवनिकरहारि हिमकणगणवन्मनोहरम् , इदं प्रत्यक्षवर्ति, शीकरबिन्दुजालकं जलकणराशिः, पर्यन्तवल्लिपल्लवेभ्यः प्रान्तवर्तिलतापल्लवेभ्यः, क्षरति स्रवति" इति इत्थं, समासन्नगजगमनशंसिभिः समासन्नं-अतिनिकटभूतपूर्व, यद् गजस्य-प्रकृतहस्तिनः, गमनं, तच्छंसिभिः-तत्सूचकैः, पुरोयायिनां अग्रगामिना-सैनिकानाम् , आलापैः आभाषणैः, कियन्तमपि कतिपयमपि, मार्गम् , अर्पिताश्वासः अर्पितः-प्रापितः, आश्वासः-सान्त्वना यस्य तादृशः, सकलमपि सम्पूर्णमपि, दिनम् , अटव्यां वने, अवहत् व्यतीतवान् [ढ]च पुनः, तिग्मदीधितो सूर्ये, अस्ताचलतटाभिलाषिणि अस्ताचलैकदेशाभिलाषिणि सति, अस्ताचलारोहणोन्मुखे सतीत्यर्थः, धृताध्वधूपिताश्वतन्त्रैः धृताः-अवस्थिताः, गमनान्निवृत्ता इत्यर्थः, अवधूपिताः-मार्गसंतप्ताः, अश्वतन्त्राः-प्रधानाश्वा येषां तादृशैः, राजपुत्रैः नृपकुमारैः, निवासग्रहणाय विश्रान्तये, प्रवर्तितःप्रेरितः सन् , सुलभतृणकाष्ठसलिले सुलभानि-अनायासलभ्यानि, तृणानि-काष्ठानि, सलिलानि-जलानि च यस्मिस्तादृशे, एकत्र एकस्मिन् , यद्वा एकत्र एकस्मिन्नेव स्थाने इति पूर्वविशेषणघटकसौलभ्येऽन्वेति, शैलसिन्धुरोधसि पर्वतीयनदीतीरे, स्थिति निवासम् , अकल्पयत् अकरोत् । च पुनः, अतिमात्र अत्यन्तम् , अल्पीभूतभूपात्मजपुनदर्शनाशः अल्पीभूता-अल्पतामापन्ना, भूपात्मजस्य-हरिवाहनस्य, पुनदर्शनाशा पुनर्देशनसम्भावना यस्य तादृशः सन्, वारंवारं अनेकवारम् , अवनिपतिभिः नृपैः, आग्रहेण आग्रहपूर्वकं, प्रेर्यमाणोऽपि प्रवर्ध्वमानोऽपि, आहारं भोजनं, न अग्रहीत् अकार्षीत् । च पुनः, गृहीतगाढचिन्तामौनः गृहीतम्-अवलम्बितं, गाढ़चिन्तया-अत्यन्तचिन्ताजन्यं, मौनं-मूकत्वं येन तादृशः, दृढसमाधिस्थ इव दृढ़ः-अशक्यव्युत्थानो यः, समाधिः-ध्यानविशेषरूपो योगः, तल्लम इव, लक्ष्यमाणः प्रतीयमानः, अपि, प्रतिक्षणक्षिप्ततप्तायतश्वासपिशुनितासमाधिः प्रतिक्षणं-क्षणं क्षणं, क्षिप्तेन-प्रवर्तितेन, तप्तेन-उष्णेन, आयतेनदीर्घेण च, श्वासेन, पिशुनिता-सूचिता, असमाधिः-समाध्यभावो यस्य तादृश इति विरोधः, असमः-असाधारणः, आधिःअन्तर्व्यथा यस्य इत्यर्थेन तु परिहारः, तस्मादत्र विरोधाभासो व्यङ्ग्यः, देवतास्मरणवन्ध्यां देवतोपासनशून्यां, सन्ध्यां
यं समयम्, अवहत् व्यतीतवान् । च पुनः, तरुतलप्रसारिते वृक्षाधस्तलविस्तारिते, तुरगपृष्ठास्तरणचर्मणि अश्वपृष्ठावरणभूतचर्मणि, निषण्णः स्थितः सन् , विषण्णेन व्यथितेन, अन्तरात्मना मनसा, कुमारं हरिवाहनम् , उद्दिश्य अधिकृत्य, तानि तानि अनेकविधानि, अनिष्टानि अमङ्गलानि, चिन्तयन् आलोचयन् , अनेककल्पायतैकैकयामां अनेककल्पवत्-दैवयुगसहस्रद्वयवत् , आयतः-दीर्घः, एकैकः-प्रत्येकं, यामः-प्रहरो यस्यास्तादृशी, तां त्रियामां रात्रिं, कथश्चिदपि केनापि प्रकारेण, अनयत् व्यतीतवान् , सर्वत्र समकेतुरिति शेषः । च पुनः, दिनपतौ सूर्ये, उद्गते उदिते सति, पुरस्तात् अग्रे, प्रतिष्ठासुः प्रयातुमिच्छुः, अग्रतः अग्रे, तुरङ्गिणां अश्वगामिना, गतिः मार्गो नास्ति, इति इत्थं,
"Aho Shrutgyanam"