________________
तिलकमञ्जरी गमनवेगश्रमश्वाससन्नपदातिसैन्यशून्यीकृतपुरोभागानि दूरविच्छिन्नच्छत्रधारपतिस्वशक्तिकृतानुसरणानि केशहस्तैरपि जवानिलार्धप्रसारितकुसुममालैर्द्विरदसंयमनाय सज्जीकृतवरत्रैरिव नयनपक्ष्मभिरपि प्रतिपन्नवर्त्मभि
रोन्मुखैर्वनविभागावलोकनपरैरिव चरणैरप्युभयतश्चलितपादकटकैरश्वपार्श्वेषु निरर्गलं वल्गद्भिर्धावमानैरिव प्रकटिताकूतानि सत्वराध्यासिताशुगत्वरवरतुरङ्गाणि वेगादधावन्त सर्वतः पर्वतोपकण्ठावासितान्यनीकनायकवृन्दानि [3] | समरकेतुरपि तत्कालसंनिहितराजपुत्रपरिवृतः प्रजविनां वाजिनां बलेन कवलयन्निव सपर्वतसरित्तटावटामटवीमितस्ततो दत्ततरलदृष्टिः 'इदमग्रतो धावति तद्दानगन्धावकृष्टमलिपटलम् , इतः श्रूयतेविप्रकर्षादनतिपटु घण्टारणितम् , इतः पूर्णशशिबिम्बमालाविडम्बीनि वननिम्नगावतारकर्दमे घटितपरिपाटीनि जलभृतानि पदमुद्रामण्डलानि, एतन्मार्गतरुशाखा शिखाने विलग्नमभिनवमृणालतन्तुकलापकोमलमनिलाहतं
टिप्पनकम्-प्रतिपन्नवर्त्मभिः एकत्र वर्म-मार्गः, अन्यत्र पक्ष्मोद्गमस्थानम् । [पक्ष्मोद्गमस्थानं च-नेत्रावरक. रोमराज्याधारभूतनेत्रावरकचर्मपुटमयस्थानं च] [ड] ।
सभिहिताः, अश्ववाराः-अश्ववाहका यैस्तादृशानि; पुनः गमनवेगश्रमश्वाससन्नपदातिसैन्यशून्यीकृतपुरोभागानि गमनवेगश्रमेण-धावनजन्यखेदेन, यः श्वासः-नासिकोत्थितवायुः, तेन सन्नैः-क्लान्तैः, पदातिभिः-पादगामिसैनिकैः शून्यीकृतःरिक्तीकृतः, पुरोभागः-अग्रभागो येषां तादृशानि; पुनः दूरविच्छिन्नच्छत्रधारपङ्किस्वशक्तिकृतानुसरणानि दूरविच्छि नया-दूरविघटितया, छत्रधारपतया-छत्रधारिश्रेण्या, खशक्त्या-खसामर्थेन, कृतम् , अनुसरणम्-अनुगमनं येषां तादृशानि; पुनः प्रकटिताकूतानि स्फुटीकृतेङ्गितानि, कैः ? केशहस्तैरपि केशकलापैरपि, कीदृशैः ? जवानिलार्धप्रसारितकुसुममालै जवानिलेन-वेगजन्यवायुना, अर्ध-अर्धभागे, प्रसारिता-विस्तारिता, कुसुममाला-पुष्पमाला येषु तादृशैः, अत एव द्विरदसंयमनाय प्रकृतगजनियन्त्रणाय, सन्जीकृतवरत्रैरिव सज्जीकृता-परिष्कृता, वरत्रा-गजबन्धनरजुयस्तादृशैरिवेत्युत्प्रेक्षा; पुनः कैरपि ? नयनपश्मभिरपि नेत्रावारकरोमराजिभिरपि, कीदृशैः ? प्रतिपन्नवर्त्मभिः प्रतिपन्नम् -आधारतया आरोढुं वा स्वीकृतम्, वर्म-नेत्राच्छादकचर्मपुटं यैस्तादृशैः, पक्षे प्रतिपन्नं-अन्वेषणाय स्वीकृतं, वर्म-मार्गो यैस्तादृशैः, दूरमद्तं मुखम्-अग्रं येषां तादृशैः, अत एव वनविभागावलोकनपरिव वनसम्बन्धितत्तत्प्रदेशदर्शनोद्यतैरिवेत्युत्प्रेक्षा; पुनः कैरपि चरणैरपि पादैरपि, कीदृशैः उभयतः भागद्वये, चलितपादकटकैः चलितौ-चलितुं प्रवृत्ती, पादकटको-पादवलयो, नूपुरावित्यर्थः, येषु तादृशैः, पक्षे पादकटकैः-पदगामिसैन्यैः, पुनः अश्वपार्वेषु अश्वनिकटेषु, अश्वानामुभयतः पीठाधोभागेषु वा, निरर्गलं अप्रतिहतं, वल्गद्भिः गच्छद्भिः, अत एव धावमानैरिव शीघ्रगमनप्रवृत्तैरिवेत्युत्प्रेक्षा; पुनः कीदृशानि ? सत्वराध्यासिताशुगत्वरवरतुरङ्गाणि सत्वरं-क्षिप्रम् , अध्यासिता:-अध्यारूढाः, आशुगत्वराः-क्षिप्रगमनशीलाः, वराः-श्रेष्ठाः, तुरङ्गाः-अश्वा यैस्तादृशानि; तुरङ्गस्थाने 'कुरङ्ग' इति पाठे तु "कुरङ्ग ईषत्ताम्रः स्याद्धरिणाकृतिको महान्" इत्युक्ता मृगविशेषाः कुरङ्गाः; पुनः पर्वतोपकण्ठावासितानि पर्वतान्तिकनिवासितानि []| समरकेतरपि तदाख्यहरिवाहनसुहृदपि, तत्कालसन्निहितराजपुत्रपरिवृतः तत्कालसन्निहितैः-तत्क्षणान्तिकस्थैः, राजपुत्रैः-नृपकुमारैः, परिवृतःपरिवेष्टितः सन् , प्रजविनां अतिक्षिप्रताशालिना, वाजिनां अश्वानां, बलेन शक्त्या सेनया वा, सपर्वतसरित्तटावटां पर्वतैः, सरित्तटैः-नदीतीरैः, अवटै:-गर्तप्रदेशैश्च, सहिताम् , अटवीं अरण्यम्, कवलयचिव प्रसन्निव, इतस्ततः अत्र तत्र, दत्ततरलदृष्टिः क्षिप्तचञ्चललोचनः, "तहानगन्धावकृष्ट तस्य-प्रकृतगजस्य, दानगन्धेन मदपरिमलेन, अवकृष्ठभूभाकृष्ठम् , इदम् , अलिपटलं भ्रमरराशिः, अग्रतः अग्रे, धावति उड्डीयते; पुनः इतः अस्मिन् स्थाने, विप्रकर्षात् दूरत्वाद्धेतो, अनतिपटु अनत्यन्ततीत्रं, घण्टारणितं घण्टाध्वनिः, श्रूयते; पुनः इतः अस्मिन् प्रदेशे, पूर्णशशिबिम्बमालाविडम्बीनि पूर्णचन्द्रमण्डलसमूहानुकारीणि, वननिम्नगावतारकर्दमे वननदीप्रवेशस्थानस्थपङ्के, घटितपरिपाटीनि बद्धपतिकानि, पुनः जलभृतानि जलाप्लुतानि, पदमुद्रामण्डलानि चरणचिह्नगणाः, सन्तीति शेषः; पुनः एतत् प्रत्यक्षभूतं, कर्णचामरं प्रकृतगजकर्णावलम्बिमुगविशेषबालव्यजनं, घूर्णति श्रमति, कीदृशम् ? मार्गतरुशाखाशिखाग्रे मार्गवर्ति।
"Aho Shrutgyanam"