________________
४२
टिप्पनक-परागविवृतिसंवलिता। बद्धा परिकरं च क्षिप्रतरपातिभिः पदक्षेपैरुपासर्पत् । दूरविततस्तम्भनिश्चलं च क्रमेण निजमिव प्रासादमतितुङ्गमप्युदप्रविकटेन दन्तसंक्रमेणाध्यारोहत् [८] । आरूढमात्र एव च तत्र स द्विपः सपदि तां विमुच्य वल्लकीरवश्रवणजनितामानन्दनिद्रामुन्मुद्रितलोचनश्चचाल तस्माच्छैलपरिसरात् । अङ्कुशोऽङ्कश इति श्रुत्वा च सत्वरं कुमारव्याहारमतिरभसप्रधावितैः संभ्रमस्खलितगतिभिरनवरतकृततर्जनैः प्राजनपाणिभिः परिकरवृन्दैः पृष्ठतः कृतानुगमनो गमनवेगोड्डीनसंध्यारागनिमकुम्भसिन्दूरपूरो दूरोच्छलितशृङ्खलागुणद्विगुणतारटकारेण घण्टाद्वयेन घटिताभ्यर्णवर्तिजनकर्णरोगः, 'एष गच्छति' 'एष गच्छति' 'इतो गतः' 'इतो गतः' इति परस्परमुदस्तदक्षिणकरेण दर्शयता सशोकेन राजलोकेनावलोक्यमानो झगित्यदर्शनमगात् [3] ।
अथाकर्णितकुमारहरणवृत्तान्तभयसंभ्रान्तानि चलत चलतेति सत्वरादिष्टयथादृष्टसनिकृष्टाश्ववाराणि
टिप्पनकम्-दूरविततस्तम्भनिश्चलम् एकत्र स्तम्भः-स्तम्भनम् , अन्यत्र भालानम् [८] ।
तत्कालमेव, परिकरं दृढ़गात्रबन्ध, बद्धा कृत्वा, क्षिप्रतरपातिभिः अतिशीघ्रताशालिभिः, पदक्षेपैः पादन्यासैः, उपासर्पत् समीपमगच्छत् । च पुनः, निजं खकीय, प्रासादमिव राजभवनमिव, दूरविततस्तम्भनिश्चलं दूरविततेन-दूरपर्यन्तविस्तृतेन, अत्यन्तेनेत्यर्थः, स्तम्भन-स्तम्भनेन, अत्यन्तजडीभावेन, पक्षे दूरविततैः-अतिदीर्घः, स्तम्भैः-गृहावष्टम्भकस्थाणुभिः, निश्चलं-स्थिरम् , पुनः अतितुङ्गं अत्युन्नतम् , अपि, तमिति शेषः, उदयविकटेन उन्नतविशालेन, दन्तसंक्रमेण दन्तरूप. मार्गेण, पक्षे दन्तमयसोपानमार्गेण, क्रमेण क्रमिकगत्या, पादेन वा, अध्यारोहत् आरूढ़वान् [ट च पुनः, तत्र तस्मिन् , कुमार इत्यर्थः, आरूढमात्रे कृतारोहणमात्रे, आरोहणानन्तरमेवेत्यर्थः, स प्रकृतः, द्विपः हस्ती, सपदि तत्क्षणे, वल्लकीरवश्रवणजनितां वीणाक्वणनश्रवणजनितां, ताम् अनुभूताम् , आनन्दनिद्रां आनन्दयुक्तनिद्रा, विमुच्य त्यक्त्वा, मुद्रितलोचन: उद्घाटितनयनः सन् , तस्मात् अधिष्ठितात्, शैलपरिसरात् पर्वतप्रान्तात्, चचाल चलितुं प्रवृत्तः । च पुनः, 'अङ्कशः, अङ्कुशः' इति, सत्वरं ससम्भ्रम, कुमारव्याहारं हरिवाहनस्य वचनं श्रुत्वा श्रवणगोचरीकृत्य, अतिरभसप्रधावितैः अतिरभसेन-अतित्वरया, प्रधावितैः-कृतप्रधावनैः, पुनः सम्भ्रमस्खलितगतिभिः सम्भ्रमेण-अतित्वरावशेन, स्खलिता-मार्गभ्रष्टा, गतिः-गमनं येषां तादृशैः, पुनः अनवरतकृततर्जनः निरन्तरोद्धोषितगजभर्त्सनात्मकवाक्यैः, पुनः प्राजनपाणिभिः अङ्कुशहस्तैः, परिकरवृन्दैः परिवारगणैः, पृष्ठतः पश्चात् , कृतानुगमनः अनुसृतः, पुनः गमनवेगोड्डीनसन्ध्यारागनिभकुम्भसिन्दूरपूरः गमनवेगेन-अतिक्षिप्रगमनवशेन, उड्डीनः-उत्क्षिप्तः, सन्ध्यारागनिभः-संध्याकालिकारणधुतितुल्यः, कुम्भसिन्दूरपूरः-मस्तकस्थसिन्दूरराशिर्यस्य तादृशः, पुनः दूरोच्छलितशृङ्खलागुणद्विगुणतारटङ्कारेण दूरम्, उच्छलितैः-उद्धृतैः, शृङ्खलागुणैः-निगडरज्जुभिः, द्विगुणतारः-द्विगुणोच्चः, टङ्कारः-तीवध्वनिविशेषो यस्य तादृशेन, घण्टादयेन स्कन्धोभयभागावलम्बिघण्टायुगलेन, घटिताभ्यर्णवर्तिजनकर्णरोगः घटितः-उद्भावितः, अभ्यर्णवर्तिजनाना-निकटस्थितलोकानां, कर्णरोग:-कर्णव्यथा येन तादृशः, पुनः एषः अयम्, एतत्स्थानस्थ इत्यर्थः, गच्छति पलायते, पुनः एषः अयम्, एतत्स्थानस्थः, गच्छति, इतः अस्मिन् स्थाने, गतः पलायितः, पुनः इतः अस्मिन् स्थाने, गतः, इति इत्थम् , उदस्तदक्षिणकरेण उत्क्षिप्तदक्षिणहस्तद्वारा, दर्शयता दृष्टिपथमानयता, सशोकेन शोकाकुलेन, राजलोकेन
अवलोक्यमानः निरीक्ष्यमाणः स गज इति शेषः, झगिति शीघ्रम् , अदर्शनम् अदृश्यताम् , दृष्टिपथाद् बहिरित्यर्थः, अगात् प्राप्तवान् []। ..अथ अनन्तरम् , अनीकनायकवृन्दानि सेनापतिगणाः, वेगात् सम्भ्रमवशात्, सर्वतः परितः, अधावन्त उपसृतवन्ति। कीदृशानि? आकर्णितकुमारहरणवृत्तान्तमयसम्भ्रान्तानि आकर्णितेन-श्रुतेन, कुमारहरणवृत्तान्तेनप्रकृतगजकृतहरिवाहनापहारवार्तया, यद् भयं तेन सम्भ्रान्तानि-संक्षुभितानि; पुनः चलत चलत अपसरत अपसरत, इति इत्थं, सत्वरादिष्टयथादृष्टसन्निकृष्टाश्ववाराणि सत्वरं-ससंभ्रमम् , आदिष्टाः-आज्ञप्ताः, यथादृष्टं - दर्शनानुसारं, सन्निकृष्टाः
"Aho Shrutgyanam"