SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ तिलकमञ्जरी किंनरकुलैर्मन्दरालोडितजलराशिजलमिव स्पष्टमूर्च्छनागमकरचितं प्रभातकालग्रहचक्रमिव दर्शितप्रकाशसर्वस्वरविशेषं मरुस्थलमित्र कलमविकलग्रामतानमतिशयितसुरतप्रगल्भकेरली कण्ठमणितं रणितम् [ञ ] । आगतं च तच्छ्रवणगोचरमाकर्णयन्ने काग्रेण चेतसा स्वल्पमप्यकृतवारण: कर्णतालैः कपोलमदपरिमलाकृष्टानामलगणानां स वारण: श्रान्त इव सुप्त इव कीलित इव गलित चैतन्य इव क्षणमात्रमभवत् । निःस्पन्दसकलावयवं च तं क्षितित लन्यस्त सरलश्लथकरमपास्तकवलमाबद्धाच्छधवलस्थूलबिन्दुभिः स्रवद्भिरनवरतमानन्दबाष्पैः पारितोषिकप्रदानाय कुम्भमौक्तिकप्रकरमिव सृजन्तमतिचिरमवलोक्य संजातसंमदस्तत्क्षणमेव' ४१ टिप्पनकम्—स्मयः-दर्पः, मन्दरालोडितजलरा शिजलमिव स्पष्टमूर्च्छनागमकरचितम् एकत्र व्यक्तमूर्च्छभुजङ्गमकरव्याप्तम्, अन्यत्र व्यक्तमूर्च्छनारागान्तरप्रवेशरचितम्, प्रभातकालग्रहचक्रमिव दर्शितप्रकाशसर्वस्वरविशेषम् एकत्र प्रकटितदीप्तिसर्वस्वादित्यशेषम्, अन्यत्र प्रकटितव्यक्तिसकलषड्जादिस्वरभेदम्, मरुस्थलमिव कलमविकलन(मतानम् एकत्र कलमशालिरहितग्रामविस्तारम्, अन्यत्र कलं - मधुरम्, परिपूर्णरागत्रयैकविंशतितानम् [अ] । मण्डलं-गणो यैस्तादृशैः; पुनः मन्दरालोडितजलराशिजलमिव मन्दरेण - तदाख्यपर्वतेन, आलोडितं -मथितं, जलराशेःससुद्रस्य, जलमित्र, स्पष्टमूर्च्छनागमकरचितं स्पष्टं-स्फुटं यथा स्यात् तथा, मूर्च्छनायाः - स्वरारोहणावरोहणक्रमस्य, गमकम्अभिव्यञ्जकं, रचितं-रचना यस्य तादृशम्, “स्वरः संमूच्छितो यत्र रागतां प्रतिपद्यते । मूर्च्छनामिति तां प्राहुः कवयो ग्रामसम्भवाम् ॥” इति मूर्च्छनालक्षणम्, पक्षे स्पष्टा मूर्च्छा - नष्टचैतन्यता येषां तादृशैः, नागैः सर्वैः सामुद्रिकैर्गजैर्वा, मकरैःजलचरजातिविशेषैश्च, चितं व्याप्तम् ; पुनः प्रभातकाल ग्रहचक्रमिव प्रातः कालिकग्रहमण्डलमिव, दर्शितप्रकाश सर्वस्वरविशेषं दर्शितप्रकाशाः - दर्शिताभिव्यक्तिकाः, सर्वे- समस्ताः, स्वरविशेषा - निषादादिस्वरभेदा येन यत्र वा तादृशम्, पक्षे दर्शितंदृष्टिगोचरतामापादितं, प्रकाशसर्वस्वं - प्रकाशात्मकसकलसम्पत्तिर्येन तादृशो रविः - सूर्यः, शेषः - अवशेषो यत्र तादृशम् ; पुनः मरुस्थलमिव मरूप्रदेश इव, कलमविकलग्रामतानं कलम् - अव्यक्तमधुरं, पुनः ग्रामः - " यथा कुटुम्बिनः सर्वेऽप्येकीभूता भवन्ति हि। तथा स्वराणां सन्दोहो ग्राम इत्यभिधीयते ॥" इत्युक्तलक्षणः स्वरसंदोहविस्तारः, तानः- “विस्तार्यन्ते प्रयोगाय मूर्च्छना शेषसंश्रया । तालास्तेऽप्यूनपञ्चाशत् सप्तस्वरसमुद्भवाः ॥" इत्युक्तो गानाङ्गस्वरविशेषः, तौ अविकलौ - परिपूर्णौ यत्र तादृशम्, पक्षे कलमैः-शालिभिः, विकलः - शून्यः, ग्रामतानः - ग्रामगणो यत्र तादृशम् ; पुनः अतिशयितसुरतप्रगल्भकेरलीकण्ठमणितम् अतिशयितं - तिरस्कृतं, सुरतप्रगल्भानां रतिप्रौढानां केरलीनां - केरलदेशविलासिनीनां कण्ठमणितं - कण्ठोत्थितं रतिकूजितं येन तादृशम् [ अ ] । श्रवणगोचरं श्रुतिपथम् आगतं आरूढं, तत् अनुपदवर्णितं वीणाकणितम्, एकाग्रेण समाहितेन, चेतसा मनसा, आकर्णयन् शृण्वन्, कर्णतालैः कर्णात्मकतालव्यजनान्दोलनैः, कपोलमदपरिमलाकृष्टानां गण्डस्थलस्यन्दिदानजलोत्कटगन्धकृताकर्षणानाम्, अलिगणानां भ्रमरगणानां स्वल्पमपि किञ्चिदपि, अकृतवारणः वीणाकणानाकर्णनावधानवशेन अकृतापसारणः, सः प्रकृतः, वारणः हस्ती, श्रान्त इव श्रमाकुलित इव पुनः सुप्त इव शयित इव, पुनः कीलित इव शृङ्खलित इव, पुनः गलितचैतन्य इव ध्वस्तचैतन्य इवेति सर्वत्रोत्प्रेक्षा, मूच्छित इवेत्यर्थः, क्षणमात्रं किञ्चित् कालं, अभवत् समपद्यत । च पुनः, निःस्पन्दसकलावयवं निश्रेष्टनिखिलाङ्ग, पुनः क्षितितलन्यस्तसरलश्लथकरं क्षितितले - भूतले, न्यस्तः - निक्षिप्तः, सरलः - अवक्रः, श्लथः शिथिलश्व, करः- शुण्डादण्डो येन तादृशम्, पुनः अपास्तकवलं त्यक्तग्रासम्, पुनः आबद्धाच्छधवलस्थूलविन्दुभिः आबद्धाः- विधृताः, अच्छाः-निर्मलाः, धवलाःशुभ्रवर्णाः, स्थूलबिन्दवः-स्थूलजलकणा यैस्तादृशैः, अनवरतं निरन्तरं, स्त्रवद्भिः स्यन्दमानैः, आनन्दबाष्पैः प्रमोदाश्रुभिः पारितोषिक प्रदानाय पारितोषार्थद्रव्योपहरणाय, कुम्भमौक्तिकप्रकरं मस्तकस्थमुक्ताफलसमूहं, सृजन्तं वितरन्तम्, इ.-. त्युत्प्रेक्षा, तं हस्तिनम्, अतिचिरं अतिदीर्घकालम्, अवलोक्य दृष्ट्वा, सञ्जातसंमदः उत्पन्नहर्षः, तत्क्षणमेव ६ तिलक० "Aho Shrutgyanam"
SR No.008457
Book TitleTilakamanjiri Part 3
Original Sutra AuthorN/A
AuthorDhanpal Mahakavi, Shantyasuri, Lavanyasuri
PublisherVijaylavanyasurishwar Gyanmandir Botad
Publication Year
Total Pages202
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy