________________
टिप्पनक-परागविवृतिसंवलिता।
... दृष्ट्वा च तमदृष्टपूर्वचेष्टमुत्सृष्टविनयपक्षमकालक्षेपविस्मृतसमस्तचिरकालाभ्यस्त शिक्षमतिशयप्रवृद्धमदमुद्दामकोपमकाण्ड एव व्यालरूपतामापन्नमुत्पन्नविस्मयो विकल्पयन् मनसा तत्तदतिचिरं तस्थौ, अवततार च निवारितसैन्यकोलाहलः कुतूहलेन तं ग्रहीतुमश्वात् । पुनःपुनरादिष्टपरिचारकचिरोपनीतवीणश्च वेपमानतनुभिः ससाध्वसं दृश्यमानो नृपकुमारैः 'कुमार! दारुणो वारणः, स्वल्पे प्रयोजने न किञ्चिदात्मना संशयमारोपितेन फलम् , अन्यथैव व्यावर्तयितव्योऽयम्' इति निवार्यमाणोऽपि वारंवारमन्तिकस्थेन समरकेतुना दन्तिनं प्रति शनैः शनैरुदचलत् । गत्वा च वञ्चितदृष्टिपातस्तरुलतागुल्मगहनान्तरेण तत्समीपमास्फालयामास मनसि विस्फारिताभिमतग्रामरागवासनः कलितकान्तरत्नकोणया वामपाणिपल्लवप्रदेशिन्या स्थानस्थानसंस्पृष्टतारतत्रीगुणां दक्षिणकरेण वीणाम् [झ] । उच्चचार च तारतममस्यास्तत्क्षणक्षोभितसकलवनदेवतावृन्दमानन्दमुकुलित दृष्टिभिर्गलितनिजगीतस्मयैः सविस्मयमाकर्ण्यमानमभ्यर्णवर्तिषु तरुनिकुञ्जषु बद्धगोष्ठीमण्डलैः
च पुनः, अदृष्टपूर्वचेष्टम् अदृष्टपूर्वा-पूर्वमदृष्टा, चेष्टा-शारीरिकक्रिया यस्य तादृशम् , पुनः उत्सृष्टविनयपक्षम् उत्सृष्टः-त्यक्तः, विनयस्य-नम्रभावस्य, पक्षः-मार्गों येन तादृशम् , पुनः अकालक्षेपविस्मृतसमस्तचिरकालाभ्यस्तशिक्षम अकालक्षेपं-कालातिक्रमणं विनैव, विस्मृताः; समस्ताः-सकलाः, चिरकालाभ्यस्ताः-दीर्घकालानुशीलिताः, शिक्षा:अनुशासनानि येन तादृशम् , पुनः अतिशयप्रवृद्धमदम् अतिशयेन प्रवृद्धः, मदः-दानं गर्वो वा यस्य तादृशम् , पुनः उद्दामकोपम् उद्दामा-उन्मर्यादः, कोपः-क्रोधो यस्य तादृशम् , पुनः अकाण्ड एव अनवसर एव, व्यालरूपतां दुष्टगजताम् , आपन्नं प्राप्तं, तं प्रकृतं हस्तिनं, दृष्टा दृष्टिगोचरीकृत्य, उत्पन्नविस्मयः उत्पन्नाश्चर्यः, मनसा, तत्तत् नानाप्रकार, विकल्पयन् वितर्कयन् , अतिचिरम् अतिदीर्घकालं, तस्थौ स्थितवान् । च पुनः, निवारितसैन्यकोलाहलः निवारितः-निवर्तितः, सैन्याना-सैनिकाना, कोलाहलः-तदद्भुतावलोकनजन्यकलकलो येन तादृशः सन् , तं हस्तिनं, कुतूहलेन औत्सुक्येन, ग्रहीतुं निग्रहाय, अश्वात् , अवततार अधस्तादाजगाम । च पुनः, पुनःपुनरादिष्टपरिचारकचिरोपनीतवीणः पुनः पुनः-अनेकवारम् ,. आदिष्टैः-आज्ञप्तः, परिचारकैः-भृत्यैः, चिरेण-विलम्बेन, उपनीता-आनीता, वीणा यस्य तादृशः, पुनः वेषमानतनुभिः कम्पमानशरीरैः, नृपकुमारैः नृपात्मजैः, ससाध्वसं सभयं, दृश्यमानः, पुनः अन्तिकस्थेन पार्श्ववर्तिना, समरकेतुना ‘कुमार ! वारणः अयं हस्ती, दारुणः उग्रः, अस्तीति शेषः, अतः स्वल्पे अत्यल्पे, प्रयोजने फले सम्भवति, संशर्य जीवनसन्देहम्, आरोपितेन प्रापितेन, तत्संशयास्पदीकृतेनेत्यर्थः, आत्मना खेन, किञ्चित किमपि, न फलम् , अयं हस्ती, अन्यथैव अन्यप्रकारेणैव, व्यावर्तयितव्यः निग्रहीतव्यः', इति इत्थं, वारंवारम् अनेकवारम् , निवार्यमाणोऽपि तन्निग्रहान्निवर्त्तमानोऽपि, दन्तिनं प्रति प्रकृतगजाभिमुखं, शनैः शनैः मन्दं मन्दम् , उदचलत् उच्चलितवान् , प्रस्थित इत्यर्थः । च पुनः, तरुलतागुल्मगहनान्तरेण तरूणां-वृक्षाणां, लतानां, गुल्मानां-निःस्कन्धवृक्षाणां, यद् गहनं-वनं, तद्रूपेण, अन्तरेण-व्यवधानेन, वश्चितदृष्टिपातः वञ्चितः-निरुद्धः, दृष्टिपातः-दृष्टिक्षेपो यस्मिन् तादृशः सन् , तत्समीपं, गत्वा उपस्थाय, मनसि खहृदये, विस्फारिताभिमतग्रामरागवासनः विस्फारिता-उद्बोधिता, अभिमतानाम्अभिप्रेतानां, ग्रामाणां-खरसङ्घातभेदानां, रागाणाम्-अवान्तरस्वराणां च, वासना-संस्कारो येन तादृशः सन् , दक्षिणकरेण वामेतरहस्तेन, वीणाम् , आस्फालयामास ताडयामास, कीदृशीम् ? कलितकान्तरत्नकोणया कलितं-धृतं, कान्तंमनोहरं, रत्नं यत्र तादृशः कोणो यस्यास्तादृश्या, यद्वा धृतः कान्तो रत्नकोणः-रत्नमयवीणावादनसाधनविशेषो यया तादृश्या, वामपाणिपल्लवप्रदेशिन्या पल्लववत् कोमलवामकरतर्जन्या, स्थानस्थानसंस्पृष्टतारतन्त्रीगुणां स्थाने स्थाने-उपयुक्तस्थाने, संस्पृष्टाः-संघृष्टाः, तारतन्त्रीरूपाः-अत्युचधननशीलतन्त्रीरूपाः, गुणाः-तन्तवो यस्यास्तादृशीम् [झ] । च पुनः, अस्याः वीणायाः, रणितं ध्वनिः, उच्चचार उच्चरितम् , कीदृशम् ? तारतमम् अत्युच्चतरम् । पुनः तत्क्षणक्षोभितसकलवनदेवतावृन्दं तत्क्षणे-सद्यः, क्षोभितं-सम्भ्रमितं, सकलं-समस्तं, वनदेवतावृन्दं-वनाधिष्ठातृदेवगणो येन तादृशम् ; पुनः किन्नरकुलैः किन्नरजातीयगायकदेवगणैः, सविस्मयं साश्चर्यम् , आकर्ण्यमानं श्रूयमाणम् , कीदृशैः ? आनन्दमुकुलितहष्टिभिः तदाकर्णनानन्दनिमीलितलोचनैः, पुनः गलितनिजगीतस्मयैः निवृत्तनिजगानाभिमानैः, पुनः अभ्यर्णवर्तिषु निकटवर्तिषु, तरुनिकुओषु वृक्षपिहितोदरगृहेषु, बद्धगोष्ठीमण्डलैः बद्ध-दृढरचित, गोष्ठीरूपं-सभारूपं,
"Aho Shrutgyanam"