________________
तिलकमञ्जरी
३९
अविरतप्रसृतमदजलासारसूत्रिताकालजलदागमम् , अधःकृतप्रलयजलधरस्तनितेन विस्तारिणा कण्ठरसितेन वित्रासितसकलवनचरवृन्दम् , आसक्तवनदन्तिदानपरिमले पुरोवर्तिनि महति पर्वतपादपाषाणे सरोषनिहितोभयविषाणम्, वारंवारमतिदूरोल्लासितेन सरससल्लकीविटपधारिणा करदण्डेन दमयितुमकाण्ड एवोद्यताः शमयितव्या मयैते दुष्टलेशिका न मे दोष इति शाखोद्धारमिव कुर्वाणम् [छ ], कैश्चिदनवरतकृतनिष्ठुरनिर्भर्सनैः, कैश्चिन्मधुरवचनघटितचित्रचाटुभिः, कैश्चिदितस्ततो विसृष्टलोष्टविसरैः, कैश्चिदग्रतः क्षिप्तकोमललतापल्लवकवलैः, कैश्चिदारोढुमध्यासितपृष्ठपीठोपरिस्थपादपशाखैः, कैश्चिद्वद्धुमधः पातितपादपाशैः, आश्रितदुर्गदेशैरपि त्रासतरलेक्षणैराधोरणगणैः सर्वतो निरुद्धं, क्रोधमिव मूर्तम् , अन्तकमिवोपजातगजविवर्तम् , आरब्धान्धकाराविसमरगजासुरभासुराकारमात्मशरीरसंरक्षणविहस्तैरितस्ततो हस्तिपालकैः सशङ्कमुपसृत्योपसृत्य ढौकिताभिः परिगतमपि वशाभिरवशमिभमद्राक्षीत् [ज] ।
टिप्पनकम्-लेशिका-पडिकाराः [छ] ।
पुनः कीदृशम् ? अविरतप्रसृतमदजलासारसूत्रिताकालजलदागमम् अविरतप्रसूतानां-निरन्तरविस्तृताना, मदजलानांदानजलानाम् , आसारैः-धारासम्पातैः, सूत्रितः-बद्धः, अकाले-असमये, जलदागमः-मेघागमः, वर्षाकाल इवेत्यर्थः, येन ताहशम् ; पुनः कण्ठरसितेन कण्ठश्वनिना, वित्रासितसकलवनचरवृन्दं वित्रासितं-भीतिमनुभावितं, सकलं-समग्रं, वनचरवृन्द-वन्यजीवगणो येन तादृशम् , कीदृशेन ? अधःकृतप्रलयजलधरस्तनितेन अधःकृतं-तिरस्कृतं, प्रलयजलधरस्य-प्रलय. कालिकमेघस्य, स्तनितं-गर्जितं येन तादृशेन, पुनः विस्तारिणा विस्तृतेन, पुनः कीदृशम् ? पर्वतपादपाषाणे पर्वतमूलवर्तिशिलायो, सरोषनिहितोभयविषाणं सरोष-सक्रोधं यथा स्यात् तथा, निहितं-स्थापितम् , उभयविषाण-शृङ्गद्वयं येन तादृशम् , कीदृशे ? आसक्तवनदन्तिदानपरिमले आसक्तः-संलग्नः, वनदन्तिनां-वन्यगजाना, दानपरिमल:-मदजलोत्कटगन्धो यस्मिस्तादृशे, पुनः पुरोवर्तिनि अग्रवर्तिनि, पुनः महति विशाले; पुनः कीदृशम् ? वारंवारम् अनेकवारम् , अतिदूरोल्लासितेन अत्यन्तदूरोन्नमितेन, पुनः सरससल्लकीविटपधारिणा आगजभक्षाख्यलतासम्बन्धिशाखाधारिणा, करदण्डेन शुण्डादण्डेन, शाखोद्धारं शाखोन्नयनं, कुर्वाणमिव सम्पादयन्तमिवेत्युत्प्रेक्षा, किमर्थम् ? अकाण्ड एव अनवसर एव, उद्यताः उत्थिताः, एते इमे, दुष्टलेशिकाः दुष्टाः-उपद्राविणः, लेशिका:-जन्तुविशेषाः, मया, शमयितव्या दमयितुमुचिताः, मे मम, दोषःतद्दमनेऽनौचित्यं, न, वर्तत इति शेषः, इति हेतोः, दमयितुं तानुपशमयितुम् , उत्सारयितुमित्यर्थः [छ], पुनः कीदृशम् ? आधोरणगणैः हस्तिपकवृन्दैः, सर्वतः परितः, निरुद्धम् आवृतम् , कीदृशैः ? कैश्चित् कैरपि, अनवरतकृतनिष्ठुरभर्त्सनैः अनवरतं-निरन्तरं, कृतं प्रयुक्तं, निष्ठुरं-रूक्षतापूर्ण, भर्त्सनम्-अप्रियवाक्यं यस्तादृशैः, पुनः कैश्चित् कैरपि, इतस्तत अस्मात् तस्मात् स्थानात् , विसृष्टलोष्टविसरैः विसृष्टः-विक्षिप्तः, लोष्टानां-पाषाणखण्डाना, विसरः-समूहो यैस्तादृशैः, पुनः कैश्चित् कैरपि, अग्रतः अने, क्षिप्तकोमललतापल्लवकवलैः क्षिप्ताः-प्रेरिताः, कोमलानां लतानां पल्लवाः-नूतनदलरूपाः, कवलाः-प्रासा यस्तादृशैः, पुनः कैश्चित् कैरपि, आरोढुं प्रकृतगजारोहणाय, अध्यासितपृष्ठपीठोपरिस्थपादपशाखैः अध्यासिता-अधिष्ठिता, पृष्टपीठोपरिस्था-पृष्ठस्थासनोपरिस्थिता, पादपशाखा-वृक्षशाखा यैस्तादृशैः, पुनः कैश्चित् , बद्धं प्रकृतगजबन्धनाय, अधः प्रकृतगजाधोदेश, प्रविश्य, पातितपादपाशैः पातितः-प्रक्षिप्तः, पादपाश:-पादबन्धनविशेषो यैस्तादृशैः, पुनः आश्रितदुर्गदेशैरपि अधिष्ठितदुर्गमस्थानैरपि, त्रासतरलेक्षणैः भयसम्भ्रान्तलोचनैः; पुनः कीदृशम् ? मर्तम आकृतिमन्तम् , क्रोधमिव; पुनः उपजातगजविवर्त्तम् उपजातः-सम्पन्नः, गजविवर्तः-गजात्मना अन्यथाभावो यस्य ताहशम् , अन्तकमिव यमराजमिव; पुनः आरब्धान्धकारातिसमरगजासुरभासुराकारम् आरब्धः-प्रवर्तितः, अन्धकारातिना-शिवेन सह, समरः-संग्रामो येन तादृशस्य, गजासुरस्य-गजाकारराक्षसस्येव, भासुरः-दीप्तः, आकारो यस्य तादृशम् । पुनः आत्मशरीरसंरक्षणविहस्तैः स्वशरीररक्षणव्यप्रैः, हस्तिपालकैः, इतस्ततः अत्र तत्र, सशवं शङ्कासहितं यथा स्यात् तथा, उपसृत्य उपसृत्य असकृन्निकटं गत्वा, ढौकिताभिः प्रापिताभिः, वशाभिः करिणीभिः, परिगतमपि परिवेष्टितमपि, अवशम् अवशीभूतम् [ज]।
"Aho Shrutgyanam"