SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ ३८ टिप्पनक-परागविवृतिसंवलिता । कोऽपि तद्हणाय साधनिकः' इति ब्रुवाणे तत्र हरिवाहनः क्षणमिव ध्यात्वा 'भद्र ! न किञ्चिदादिष्टेनान्येन, वयमेव तं व्यावर्तयिष्यामः' इत्युक्त्वा सत्वरस्तरुतलादुत्तस्थौ [3] । शिबिरनिक्षिप्तकमलगुप्तश्च तत्क्षणादिष्टपरिवर्धकबद्धपर्याणमधिरुह्य प्रधानवाजिनमधिष्ठितापरवरवाजिपृष्ठेन वारंवारमभिमुखचलञ्चक्षुषा सिंहलेश्वरसुतेन सार्धमारब्धतत्कालसमुचितसंकथो यथासन्नविनिवर्तितानुयायिमान्यराजलोकः स्तोकपदातिबलपरिवृतो मुहुर्निशावृत्तं गजगमनवृत्तान्तमावेदयता, मुहुर्मार्गभूमेः समविषमस्थानानि कथयता, मुहुश्चिह्नीकृतैरचलसानुभिर्निरन्तरालतरुगहननिद्भुतं यातव्यदेशमुपदर्शयता, सह प्रस्थायिना महामात्रवर्गेण सूच्यमानमार्गोऽभिजवेनाटवीमगच्छत् [च] । तत्र चाविरलपत्रतरुणतरुगणे निर्झरिणि विपुलविषमोपलपटलदुःसंचरे शैलपरिसरे कृतावस्थानम् , टिप्पनकम्-परिवर्धकः-अश्वाकर्षकः [च]। प्रविशति, वा अथवा, व्यालबहुले “व्यालो दुष्टगजे सर्प शठे श्वापदहिंस्रयोः" इति वचनाद् दुष्टगजादिसंकुले, वन्यद्विरदयूथे वनसम्बन्धिहस्तिसङ्के, स्थितिं न बध्नाति द्रढ़यति, तावत् तावन्तं कालं, कोऽपि कश्चित्, साधनिकः सैनिकः, तहणाय तन्नियन्त्रणाय, आदिश्यताम् आज्ञाप्यताम्, इति इत्थं, ब्रुवाणे कथयति, तत्र तस्मिन् पुष्करे, हरिवाहनः, क्षणं किञ्चित् कालं, ध्यात्वा इव विचिन्य इव, सत्वरः ससम्भ्रमः, तरुतलात् वृक्षाधःस्थलात् , उत्तस्थौ उत्थितवान् , किं कृत्वा ? 'भद्र ! कल्याणिन् !, अन्येन खभिन्नेन, आदिष्टेन आज्ञप्तेन, न किश्चित् किमपि, प्रयोजनमिति शेषः, किन्तु वयमेव अहमेव, तं हस्तिनं, व्यावर्तयिष्यामः प्रत्यावर्तयिष्यामः' इत्युक्त्वा इत्थं कथयित्वा [6] । च पुनः, शिबिरनिक्षिप्तकमलगुप्तः सैनिकावासस्थापितकमलगुप्ताख्यसेनानायकः सन् , तत्क्षणादिष्टपरिवर्धकबद्धपर्याणं तत्क्षणं-तत्कालम् , आदिष्टेन-आज्ञप्तेन, परिवर्धकेन-अश्वप्रसाधकेन, अश्वाकर्षकेन वा, बर्द्ध-निवेशितं, पर्याणपृष्ठस्थरत्नपीठं यस्मिन् तादृशं, प्रधानवाजिनं मुख्याश्वम् , आरुह्य तदुपरि स्थित्वा, अधिष्ठितापरवरवाजिपृष्ठेन अधिष्ठितम्-अध्यासितम्, अपरस्य-अन्यस्य, वरवाजिनः-श्रेष्ठाश्वस्य, पृष्ठं येन तादृशेन, पुनः वारंवारम् अनेकवारम् , अभिमुखचलचक्षुषा अभिमुख-सम्मुखं, चलन्ती-उन्मिषन्ती, चक्षुषी-लोचने यस्य तेन, सिंहलेश्वरसुतेन सिंहलेश्वरस्यसिंहलद्विपाधिपस्य चन्द्रकेतोः, सुतेन-पुत्रेण, समरकेतुनेत्यर्थः, साधंसह,आरब्धतत्कालसमुचितसंकथः प्रवर्तिततत्कालयोग्यालापः; पुनः यथाऽऽसन्नविनिवर्तितानुयायिमान्यराजलोकः यथाऽऽसन्नं-यथानिकटं, निवर्तिताः-खेन सह गमनान्निवारिताः, अनुयायिनः-अनुगामिनः, मान्याः-मानार्हाः, राजलोकाः-नृपजना येन तादृशः; पुनः स्तोकपदातिबलपरिवृतः स्तोकेन-अल्पेन, पदातिबलेन-पादगामिसैन्येन, परिवृतः-परिवेष्टितः, निशावृत्तं रात्री सजातं, गजगमनवृत्तान्तं हस्तिपलायनवार्ता, मुहुः वारंवारम् , आवेदयता विज्ञापयता, मार्गभूमेः मार्गरूपभुवः, समविषमस्थानानि निम्नोन्नतस्थलानि, कथयता वर्णयता, पुनः निरन्तरालतरुगहननिहतं निरन्तरालानां-निरन्तराणां, परमसान्द्राणामित्यर्थः, तरूणांवृक्षाणां, गहनेन-वनेन, निद्भुतम्-आवृतं, यातव्यदेशं हस्तिप्रत्यावर्तनायै गन्तव्यस्थानम् , चिह्नीकृतैः चिह्न संकेतितैः, अचलसानुभिः पर्वतीयसमभूमिमार्गः, उपदर्शयता निर्दिशता, पुनः सह प्रस्थायिना सह प्रयायिना, महामात्रवर्गेण महाहस्तिपकवर्गेण, सूच्यमानमार्गः विज्ञाप्यमानमार्गः सन् , अभिजवेन अतिवेगेन, अटवीम् अरण्यम् , अगच्छत् गतवान् [च]। च पुनः, तत्र तस्मिन् वने, इमं प्रकृतहस्तिनम् , अद्राक्षीत् अवलोकितवान् , इत्यग्रेणान्वेति । कीदृशं ? शैलपरिसरे पर्वतप्रान्तप्रदेशे, कृतावस्थानम् अवस्थितम्, कीदृशे १ अविरलपत्रतरुणतरुगणे अविरलानि-सान्द्राणि, पत्राणि येषु तादृशाः, तरुणाः- प्रौढाः, तरुगणाः-वृक्षराशयो यस्मिस्तादृशे, पुनः निर्झरिणि जलप्रवाहवति, पुनः विपुलविषमोपलपटलदुस्सश्चरे विपुलाना-विशालानां प्रचुराण वा, विषमोपलानां-निम्नोन्नतशिलानां, पटलेन-समूहेन, दुःसञ्चरे-दुःखेन शक्यगमने; "Aho Shrutgyanam"
SR No.008457
Book TitleTilakamanjiri Part 3
Original Sutra AuthorN/A
AuthorDhanpal Mahakavi, Shantyasuri, Lavanyasuri
PublisherVijaylavanyasurishwar Gyanmandir Botad
Publication Year
Total Pages202
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy