________________
तिलकमञ्जरी
नखकोटिघट्टनावाप्तजन्मनः स्वभावमन्मनानविरतमवतरतः कर्णकोटराध्वनि ध्वनिविशेषानवधारयन्तम् , 'इयमृक्षसंकुला वृक्षसंहतिः, एष वनमहिषयूथाधिष्ठितो नापकण्ठः, इदमुदरदेशासीनमेदुरवराहमद्रिगह्वरम् , असावन्तरनिभृतभ्रान्तशरभः शरस्तम्बनिकुरम्बः' [घ] । इत्युपेत्योपेत्य सरभसमावेदयन्तमवधानदानेन विदधानमनुचरगणं कृतकृत्यमुपसृत्य सत्वरकृतप्रणामः पुष्करो नाम करिसाधनाध्यक्षः स्फुटाक्षरमवादीत्-'कुमार ! विरमतु विनोदैकफला तावदेषा गीतगोष्ठी, गरिष्ठमन्यत् प्रतिविधेयं राजकार्यम् , अद्य यामिन्याश्चरमयामे वैरियमदण्डाभिधानः प्रधानदन्ती दिगन्तरव्यापिना घ्राणपथमुपगतेन प्रबोधितो मदगन्धेन सविधचारिणमरण्यवारणं रणायानुबध्नन्नवबुध्यमानो निपुणमन्धकारसंपर्कादध्वन्यतय॑माणगतिरेव कठिनकर्करव्यतिकरकष्टसंचारमतिमहत् कान्तारं प्रविष्टः, दृष्टश्च दिनकरोदये पृष्ठतः पदानुसारप्रधावितैस्तत्प्रतिबद्धैराधोरणगणैः, आरब्धश्च शिबिरमानेतुम् , न तु कृतानेकयत्नैरपि पारितो निवर्तयितुम् । तदेष यावन्नातिदूरं याति, दुर्गमं वा वनप्रदेशं न विशति, व्यालबहुले वा वन्यद्विरदयूथे न स्थिति बनाति, तावदादिश्यतां
तन्त्रीघर्षणेन, अवाप्तं-प्राप्त, जन्म-उत्पत्तियस्तादृशान् , पुनः स्वभावमन्मनान् खभावतो मनोहरान् , पुनः कर्णकोटराध्वनि कर्णविवरमार्गे, अविरतं निरन्तरम् , अवतरतः आपततः । पुनः ऋक्षसंकुला भटूकजातीयप्राणिगणसहिता, इयं, वृक्षसंहतिः वृक्षसमूहः । पुनः घनमहिषयथाधिष्ठितः वनमहिषगणव्याप्तः, एषः अयं, नद्युपकण्ठः नदीनिकटप्रदेशः; उदरदेशासीनमेदुरवराहम् उदरदेशे-मध्यदेशे, आसीनाः-उपविष्टाः, मेदुराः-पीनाः, वराहाः-शूकरा यस्मिंस्तादृशम् , इदं सन्निकृष्टं अद्रिगह्वरं पर्वतगुहा । अन्तरनिभृतभ्रान्तशरभः अन्तरे-मध्ये, निभृतं-निश्चलं यथा स्यात् तथा, भ्रान्ताः-कृतभ्रमणाः, शरभाः-मृगभेदा यस्मिंस्तादृशः, शरस्तम्बनिकुरम्बः शराणां-तृणभेदानां, ये स्तम्बाः-काण्डाः, तेषां निकुरम्बः-राशिः, सर्वत्र अस्तीति शेषः[घ] । इति इत्थम्, उपेत्य उपेत्य निकटं गत्वा गत्वा, सरभसं सवेगम्, अनुचरगणं भृत्यगणम्, आवेदयन्तं विज्ञापयन्तम् , अवधानदानेन मनसः सावधानतासम्पादनेन, कृतकृत्यं कृतकार्य, सफलमित्यर्थः, विदधानं कुर्वन्तम् , तं हरिवाहनम् , उपसृत्य समीपमागत्य, सत्वरकृतप्रणामः ससंभ्रमविहिताभिवादनः, पुष्करो नाम तत्संज्ञकः, करिसाधनाध्यक्षः करिसाधनस्य-हस्तिसैन्यस्य, अध्यक्षः-अधिकारी, स्फुटाक्षरं व्यक्ताक्षरं यथा स्यात् तथा, अवादीत् उक्तवान् । किमित्याह-तावदिति वाक्यालङ्कारे, विनोदैकफला केवलकुतूहलफला, इयं, गीतगोष्ठी गानसभा, विरमतु निवर्तताम् , गरिष्ठं गुरुतमम् , अन्यत् अतिरिक्तं, राजकार्य राज्ञः कर्तव्यं, प्रतिविधेयं प्रतिकर्तुमुचितं, यद्वा प्रतिकर्तु प्राप्तकालम् , अस्तीति शेषः । तत् किमित्याह-अद्य अस्मिन् दिने, अहोरात्रमध्य इत्यर्थः, यामिन्याः रात्रेः, चरमयामे अन्तिमप्रहरे, वैरियमदण्डाभिधानः वैरिणा-शत्रूणां कृते, यमदण्ड:-यमराजदण्डसदृश इत्यन्वर्थको वैरियमदण्डनामकः, प्रधानदन्ती सर्वप्रमुखहस्ती, दिगन्तरव्यापिना दिङ्मध्यव्यापकेन, यद्वा अन्यदिग्व्यापकेन, पुनः घ्राणपथं घ्राणेन्द्रियगोचरताम् , उपागतेन प्राप्तेन, मदगन्धेन दानवारिगन्धेन, प्रबोधितः उन्मदितः सन् , रणाय संग्रामाय, सविधचारिणं निकटचारिणम् , अरण्यवारणं वनगजम् , अनुबध्नन् आक्रमन् , अनुधावन्नित्यर्थः, अन्धकारसंपर्कात् अन्धकारसत्त्वात् , निपुणं सम्यक्, अनवबुध्यमानः अविज्ञायमानः, अदृश्यमान इति यावत् , अध्वनि मार्गे, अतळमाणगतिरेव अतय॑माणा-अनालोच्यमाना, गतिः-गमनं यस्य तादृश एव, कठिनकर्करव्यतिकरकष्टसञ्चारं कठिनानां-कठोराणां; कर्कराणां-पाषाणखण्डानां, व्यतिकरेण-सम्पर्केण, कष्ट:-कष्टावहः, सञ्चारः-गमनं यस्मिंस्तादृशम् , अतिमहत् अतिविस्तृतं, कान्तारं महावनं, प्रविष्टः प्रवेशमकार्षीत् । च पुनः, पृष्ठतः पश्चात् , पदानुसारप्रधावितैः पदानुसार-तत्पादविक्षेपानुगुणं, प्रधावितैः-अतित्वरया गन्तुं प्रवृत्तः, तत्प्रतिबद्धः तदधिकृतैः, आधोरणगणैः हस्तिपकसमूहैः, दिनकरोदये सूर्योदये सति, दृष्टः अवलोकितः । च पुनः, शिबिरं सैनिकावासम् , आनेतुं प्रत्यागमयितुम् , आरब्धः प्रवर्तितः, तु किन्तु, कृतानेकयत्नैरपि कृताधिकप्रतिकारैरपि, निवर्तयितुं परावर्तयितुं, न पारितः शक्तः, तत् तस्माद्धेतोः, एषः बुद्धया सन्निकृष्टो हस्ती, यावत् यावन्तं कालम् , अतिदूरम् अतिमात्रदुरं, न याति गच्छति, वा अथवा, दुर्गमं दुःखेन गन्तुं योग्य, वनं न विशति
"Aho Shrutgyanam"