________________
टिप्पनक - परागविवृतिसंबलिता ।
कांश्चिच्छृङ्गकोटिबद्धोत्कृष्टपट्टांशुकपताकान्, कांश्चित् कण्ठघटितवाचाटकनकघण्टिकाभरणान्, कांश्चित् पुच्छनालदोलायमानविपुलपल्लवपूलान्, उदीरितोत्तालकलकलपदातिबलतुमुलतालख तरलितानेक हेलयैवोदस्राक्षुः । तैश्च त्रासवशविलोलतारैर्विकृतरूप दर्शनादन्योऽन्यमसंगच्छमानैस्तुच्छजनविस्तारिताट्टहासरसमसमञ्जसं दिङ्मुखेषु प्रपलायमानैः क्षणमात्र माहितोत्कण्ठाभरविरामो राजपुत्रः प्रतिदिवसमक्रीडत् [ ग ] |
एकदा च प्रातरेव तं मृगारण्यमुपगतमविश्रान्तमदकलजलरङ्कुविरुतौ मारुतानीतजलतुषारासारशीतले शिलातलनि शैलनिम्नगातीरतरुतले निविष्टमन्तिकोपविष्टेष्ट्रसेवकलोकमधिकसुलिष्टसंयोजित कलाया नूतनगुणारोपसविशेषलब्धसौम्यसंपदः सविलासमङ्कदेशोपवेशिताया प्रियवनिताया इव विपचयाश्चटुल
३६
टिप्पनकम् - अधिकसुलिष्टसंयोजितकलायाः एकत्र विज्ञानं कला, अन्यत्राधारकाष्टम्, नूतनगुणारोपस विशेषलब्ध सौम्यसम्पदः एकत्र नूतनगुणाः कान्तिसौम्यादयः, अन्यत्र नूतनतन्त्री । मन्मनः - अव्यक्तध्वनिः । मेदुर:- पीनः [घ] |
वर्णचामरान् कर्णयोः - श्रोत्रयोः, लम्बितानि - नियोजितानि, विचित्रवर्णानि - नानावर्णकानि चामराणि - महिषाकृतिमृगविशेषपुच्छनिर्मितव्यजनानि येषां तादृशान् ; पुनः कांश्चित् कानपि शृङ्गकोटिबद्धोत्कृष्टपट्टांशुकपताकान् शृङ्गकोटौ-शृङ्गा, बद्धा, उत्कृष्टं पट्टांशुकं-कौशेयवस्त्रं यस्यां तादृशी, पताका येषां तादृशान् ; पुनः कांश्चित् कानपि कण्ठघटितवाचाटकनकघण्टिकाभरणान् कण्ठेषु-ग्रीवासु, घटितानि - निवेशितानि, वाचाटानि - मुखराणि, कनकघण्टिकाभरणानि - सुवर्णकिङ्किणीरूपालङ्करणानि येषां तादृशान् ; पुनः कांश्चित् कानपि पुच्छनाल दोलायमानविपुलपल्लवपुलान् पुच्छनालेषु - लाङ्गूलकाण्डेषु, दोलायमानं, विपुलं - प्रचुरं, पहवपूलं - पलवरा शिर्येषां तादृशान् पुनः उदीरितोत्तालकलकलपदातिवलतुमुलतालरवतरलितान् उदीरितः - उद्गमितः, उत्तालः -- उच्चः, कलकलः - कोलाहलो यैस्तादृशानां पदातिबलानां - पादगामिसैनिकानां, तुमुलैःगम्भीरैः, तालरवैः-करतल ध्वनिभिः, तरलितान्-चञ्चलितान्, सम्भ्रातानित्यर्थः, एक हेलयैव युगपदेव, उदस्राक्षुः त्यक्तवन्तः । च पुनः, त्रासवशविलोलतारैः त्रासवशेन-भयवशेन, विलोला- चञ्चला, तारा- नेत्रकनीनिका येषां तादृशैः, चञ्चलाक्षैरित्यर्थः, पुनः विकृतरूपदर्शनात् विलक्षणरूपदर्शनाद्धेतोः, अन्योऽन्यं परस्परम्, असङ्गच्छमानैः असंघटमानैः; पुनः तुच्छजन विस्तारिताट्टहासरसं तुच्छजनैः - पामरजनैः विस्तारितः, अट्टहासरसः - महाहासकौतुकं यस्मिंस्तादृशं यथा स्यात् तथा, असमञ्जसं प्रतिकूलं च यथा स्यात् तथा, दिङ्मुखेषु दिगन्तेषु, प्रपलायमानैः प्रधावमानैः तैः श्वापदैः क्षणमात्र मुहूर्तमात्रम्, आहितोत्कण्ठाभरविरामः जनितक्रीडनौत्सुक्यातिशयनिवृत्तिः सन्, राजपुत्रः नृपकुमारः, हरिवाहन इत्यर्थः, प्रतिदिवस प्रतिदिनम्, अक्रीडत् क्रीडितवान् [ग] !
एकदा एकस्मिन् दिने, प्रातरेव प्रभात एव, मृगारण्यं मृगवनम्, उपगतं गतवन्तम् ; पुनः शैलनिम्नगातीरतरुतले पर्वतीयनदीतटवृक्षाधःस्थले निविष्टम् उपविष्टम् कीदृशे ? अविश्रान्तमदकलजलरङ्कुविरुतौ अविश्रान्ताअविरता, मदकलानां-मदोत्कटानां, जलरङ्कणां-जलीयमृगाणां विरुतिः - शब्दो यस्मिंस्तादृशे पुनः मारुतानीतजलतुषारासारशीतले मास्तानीतैः - पवनोपस्थापितैः, जलतुषारासारैः - जलकणधारासम्पातैः, शीतले - शैत्यमापन्ने, पुनः शिलातलनि प्रस्तरमये; पुनः अन्तिकोपविष्टेष्ट्रसेवकलोकम् अन्तिके- पार्श्वे, उपविष्टाः, इष्टाः - प्रियाः, सेवकलोकाः - सेवकजना यस् तादृशम् ; पुनः विषयाः वीणायाः, ध्वनिविशेषान् नादभेदान्, अवधारयन्तं निरूपयन्तम् कीदृश्याः ? अधिकसुश्लिष्टसंयोजित कलायाः अधिकसुश्लिष्टं - परस्परमत्यन्तसङ्गतं यथा स्यात् तथा, संयोजिताः - सन्निवेशिताः, कलाः- अवयवाः यस्यां तादृश्याः, पक्षे चतुष्षष्टिप्रकारा वायादिकलाः पुनः नूतनगुणारोपस विशेषलब्ध सौम्यसम्पदः नूतनानाम्अभिनवानां, गुणानां-तन्त्रीणाम्, आरोपेन- संघटनेन, सविशेषम् - अतिमात्रं लब्धा - प्राप्ता, सौम्यसम्पत्-मनोहरतासमृद्धिर्यया तादृश्याः, पक्षे नूतनगुणारोपेण नवनवगुणस्थापनेन, सविशेषं लब्धा सौम्यसम्पद् यया तादृश्याः, पुनः प्रियवनिताया इव प्रियविलासिन्या इव, सविलासं विलासेन - लीलया सहितं यथा स्यात् तथा, अङ्कदेशोपवेशितायाः क्रोड तलोपवेशितायाः, कीदृशान् ध्वनिविशेषान् ? चटुलनखकोटिघट्टनावाप्तजन्मनः चटुलाभिः - तीव्राभिः, नखकोटिभिः नखायैः, घट्टनया
"Aho Shrutgyanam"