________________
तिलकमञ्जरी पार्थिवाः समाजग्मुः, उपनिन्युश्च निजनिजदेशजातानि जातप्रीतयः प्रधानानि तस्मै प्राभृतानि । प्रारब्धनवनवोपचारसंभृतप्रणयैश्च तैः प्रत्यहमनुगम्यमानः स्निग्धपत्रलतागुल्मगहनेष्वनेकतरुफलरसास्वादजनित. नानाशकुनिकुलसौहित्येषु लौहित्योपकण्ठकाननेषु विचचार । विहरमाणश्च यदृच्छया तेषु तेषु स्थानेषु कृतावस्थानानेणकानरण्यमहिषान् मृगपतीन् वराहान द्वीपिनश्चमरान द्विपानन्यांश्च नानारूपधारिणः श्वापदविशेषान् सहस्रशो ददर्श । जातकौतुकैश्च मृगयाव्यसनिभिः क्षितिपतिकुमारैः क्षपणाय तेषामनुक्षणं व्यापार्यत, न च प्रकृतिसानुक्रोशतया शस्त्रगोचरगतानपि तान् जघान । केवलं कुतूहलोत्पादनाय प्रधाननृपतीनामनवरततश्रीताडनाभ्यासलघुतराङ्गुलिव्यापारेण सव्येतरपाणिना स्फुटतरास्फालितरत्नवीणस्तद्धनिश्रवणनिश्चल. निमीलितेक्षणानर्भकानपि विधेयांश्चकार [ख] ।
दृष्ट्वा च तांस्तथाविधानुपजातधृतयो विधृत्य ते क्षितिभृतो निभृतमेव तान् कांश्चिदङ्गदत्तस्थूलकुङ्कुमस्थासकान , कांश्चिच्छिरसि विरचितोचकुसुमशेखरान् , कांश्चित् कर्णलम्बितविचित्रवर्णचामरान ,
नृपाः, दर्शनार्थिनः दर्शनाभिलाषिणः सन्तः, सत्वरं शीघ्रं, समाजग्मुः । च पुनः, जातप्रीतयः उत्पन्नस्नेहाः सन्तः, निजनिजदेशजातानि स्वस्वदेशोद्भवानि, प्रधानानि श्रेष्ठानि, प्राभूतानि उपहारान् , उपनिन्युः उपस्थापितवन्तः । च पुनः, प्रारब्धनवनवोपचारसम्भृतप्रणयैः प्रारब्धैः-प्रवर्तितैः, नवनवोपचारैः-नवीननवीनसत्कारैः, सम्भृतः-प्रवर्धितः, प्रणयः-प्रीतियस्तादृशैः, तैः पार्थिवैः, अनुगम्यमानः अनुत्रियमाणः सन् , प्रत्यहं प्रतिदिनं, लौहित्योपकण्ठकाननेषु लौहित्यस्य-तदाख्यनदस्य, उपकण्ठे-समीपे, यानि काननानि-वनानि, तेषु, विचचार विहारमकार्षीत् ; कीदृशेषु ? स्निग्धपत्रलतागुल्मगहनेषु स्निग्धानि-सरसानि, पत्राणि येषां तादृशैः, लतागुल्मैः-लताभिः-प्रसिद्धाभिः, गुल्मैः-स्कन्धरहितवृक्षश्च, गहनेषु-व्याप्तेषु; पुनः अनेकतरुफलरसास्वादजनितनानाशकुनिकुलसौहित्येषु अनेकेषां तरूणां-वृक्षाणां, यानि, फलानि तद्रसास्वादेन, जनित-कृतं, नानाशकुनिकुलाना-नानापक्षिगणानां, सौहित्य-तृप्तिर्येषु तादृशेषु; पुनः यदृच्छया यथेच्छं, विहरमाणः विचरन , तेषु तेषु स्वखोचितेषु, स्थानेषु, कृतावस्थानान् अवस्थितान् , एणकान् हरिणान् , पुनः अरण्य महिषान् वन्यमहिषान , पुनः मृगपतीन् सिंहान् , पुनः वराहान् शुकरान् , पुनः द्वीपिनः व्याघ्रान्, पुनः चमरान मृगविशेषान् , पुनः द्विपान् गजान , च पुनः, अन्यान् तद्व्यतिरिक्तान , नानारूपधारिणः नानाऽऽकारान् , सहस्रशः सहस्रसंख्यकान् , श्वापदविशेषान् वन्यहिंस्रविशेषान् , पशून् , ददर्श दृष्टवान् । जातकौतुकैः उत्पन्नलालसैः, मृगयाव्यसनिभिः आखेटकव्यासङ्गिभिः, क्षितिपतिकुमारैः नृपकुमारैः, तेषां श्वापदानां, क्षपणाय विनाशाय, व्यापार्यत हरिवाहनः प्रेरित इत्यर्थः । च किन्तु, शस्त्रगोचरगतानपि शस्त्रविषयीभूतानपि, शस्त्रसन्निकृष्टानपीत्यर्थः, तान् श्वापदान, प्रकृतिसानुक्रोशतया स्वभावतो दयालतया, न जघान हतवान् । केवलं प्रधाननृपतीनां प्रमुखनृपाणां, कुतूहलोत्पादनाय विनोदोत्पादनाय, अनवरततन्त्रीताडनाभ्यासलघुतराङ्गुलिव्यापारेण अनवरतं-सततं, तत्रीताडनस्य-वीणागुणस्फालनस्य, अभ्यासेन-पौनःपुन्येन, लघुतरः-अतिक्षिप्रताशाली, अङ्गुलिव्यापारः-अङ्गुलिसंचारो यस्य तादृशेन, सव्येतरपाणिना वामकरण, स्फुटतरास्फालितरत्नवीणः स्फुटतरम्-अतिस्फुटं यथा स्यात् तथा, आस्फालिता-ताडिता, रत्नवीणा-रत्नखचिता वीणा येन तादृशः सन् , तद्धनिश्रवणनिश्चलनिमीलितेक्षणान् तद्धनिश्रवणेन-तत्वणनाकर्णेन, निश्चलानि-निःस्पन्दानि, निमीलितानि-मुद्रितानि च, ईक्षणानि-नेत्राणि यैस्तादृशान् , अर्भकान् बाल्यावस्थानपि, तानित्यध्याहारः, विधेयान् खवश्यान् , चकार सम्पादितवान् [ख]।
च पुनः, ते मृगयाव्यसनिनः, क्षितिभृतः नृपतयः, तान् श्वापदशिशुन् , तथाविधान विधेयतापन्नान् , दृष्टवा, उपजातधृतयः उत्पन्नतुष्टयः सन्तः, विधृत्य निगृह्य, निभृतमेव निश्चलमेव, तान् तदर्भकान्, कांश्चित् कतिपयान् , अङ्गदत्तस्थूलकुङ्कमस्थासकान् अङ्गेषु दत्तः-अर्पितः, स्थूलः-महान् , कुङ्कुमस्थासकः-कुङ्कुमद्रवेण हस्तबिम्बं येषां तादृशान् ; पुनः कांश्चित् कतिचित् , शिरसि मस्तके, विरचितोच्चकुसुमशेखरान् विरचितः-निर्मितः, उच्चः-उन्नतः, यद्वा उच्चानां-श्रेष्ठाना, कुसुमानां-पुष्पाणां, शेखरः-शिरोमाल्यं येषां तादृशान् ; पुनः कांश्चित कतिपयान्, कर्णलम्बितविचित्र
"Aho Shrutgyanam"