Book Title: Tilakamanjiri Part 3
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 77
________________ तिलकमञ्जरी वासाभिः शबरपल्लीभिरध्यासितविषमपर्वतोद्देशया, क्वचिद् दावदहनाश्लिष्टवंशीवनश्रूयमाणश्रवणनिष्ठरष्टात्कारया, कचिदकुण्ठकण्ठीरवारावचकितसारङ्गलोचनांशुशारया, कचित् तरुतलासीनशबरीविरच्यमानकरिकुम्भमुक्ताशबलगुञ्जाफलप्रालम्बया, क्वचिदधःसुप्तहप्ताजगरनिःश्वासनर्तितमहातरुस्तम्बया, कचिदुदश्रुकणिकश्वागणिकशोच्यमानकोलदलितनिःसन्दसारमेयवृन्दया, कचित् प्रचारनिर्गतवनेचरान्विष्यमाणफलमूलकन्दया [ल], क्वचिच्छेकशाखामृगाच्छिन्नपाथेयपथिकनिष्फललोष्टवृष्टिहासिताटविकवर्गया, कचिच्चर्मलुब्धलुब्धकानुबध्यमानमार्गणप्रहतमर्मद्वीपिमार्गया,सापराधवध्वेव प्रियालपनसफलीभूतपादपातनिष्ठया, वीरपुरुषतूण्येव गौरखराच्छभल्लशरभरोचितया, जठरजीर्णानेकदिव्यौषधिसमूहयापि व्याधीनां गणैराक्रान्तया, गन्तुमट टिप्पनकम्-कण्ठीरवः-सिंहः [ल]। सापराधवध्वेव प्रियालपनसफलीभूतपादपातनिष्टया एकत्र प्रियालापेन सफलीभूतं चरणपतनकष्टं यस्याः सा तथोक्ता तया, अन्यत्र प्रियाल-पनस-प्रियङ्गु-बिभीतकवृक्षातनिष्टया, धीरपुरुष गौरखराच्छभल्लशरभरोचितया एकत्र गौरखर-अच्छभल्ल-शरभशोभितया, अन्यत्र उज्वलतीक्ष्णस्वच्छ कुन्त वाचालिताः, अङ्गणस्थितवृक्षाणां शाखा यासा तादृशीभिः, पुनः अधर्मनगरीभिरिव पापपुरीभिरिव, कृतयुगभयात् सत्ययुगभयात्, गृहीतवनवासाभिः गृहीतः-खीकृतः, वनवासः-धर्माचरणार्थ वने वासो याभिस्तादृशीभिः; पुनः कीदृश्या? क्वचित् कुत्रापि प्रदेशे, दावदहनाश्लिष्टवंशीवनश्रूयमाणश्रवणनिष्ठुरष्टात्कारया दावदहनेन-बनामिना, आश्लिष्टेआक्रान्ते, वंशीवने-क्षुद्रवेणुवने, श्रूयमाणः-श्रवणगोचरीक्रियमाणः, श्रवणनिष्ठुरः-श्रवणकठोरः, ष्टात्कारः-ध्वनिविशेषो यस्यां तादृश्या; पुनः क्वचित् कुत्रचित् स्थाने, अकुण्ठकण्ठीरवारावचकितसारङ्गलोचनांशुशारया अकुण्ठैः-अविरतैः, कण्ठीरवाणां-सिंहानाम् , आरावैः-निनादैः, चकितानां-सम्भ्रान्तानां, सारङ्गलोचनानां-हरिणनेत्राणाम् , अंशुभिः-रश्मिभिः, शारया-शबलया; पुनः क्वचित् कस्मिंश्चित् प्रदेशे, तरुतलासीनशबरीविरच्यमानकरिकुम्भमुक्ताशबलगुञ्जाफलप्रालम्बया तरुतलासीनाभिः-वृक्षाधःस्थलोपविशन्तीभिः, शबरीभिः-शबरजातीयस्त्रीभिः, विरच्यमानं-प्रथ्यमानं, करिकुम्भमुक्ताशबलं-हस्तिमस्तकाहृतमुक्तामणिचित्रं, गुञ्जाफलप्रालम्बं-गुञ्जाफलसम्बन्धि ऋजु कण्ठलम्बि माल्यं यस्यां तादृश्या; पुनः क्वचित कुत्रापि प्रदेशे, अधःसुप्तदृप्ताजगरनिःश्वासनर्तितमहातरुस्तम्बया अधः-मूलस्थले, सुप्तानां-शयितानां, दृप्तानां दर्यान्वितानाम् , अजगराणां-तज्जातीयमहासाणां, निःश्वासैः-नासिकोद्गतपवनैः, नर्तिताः-उत्क्षिप्ताः, महातरुस्तम्बा-महावृक्षकाण्डा यस्यां तादृश्या; पुनः क्वचित् कुत्रापि स्थाने, उदश्रुकणिकश्यागणिकशोच्यमानकोलदलितनिःस्पन्दसारमेयवन्दया उद्गताः, अश्रकणिकाः-नेत्राम्बुकणा येषां तादृशैः, श्वागणिकैः-श्वगणेन-कुक्करगणेन, चरन्तीति श्वागणिकास्तैः, शोच्यमानं, कोलैः-शूकरैः, दलितं-खण्डितम् , अत एव निःस्पन्द-निश्चेष्टं, सारमेयवृन्द-कुकुरकलापो यस्यां तादृश्या; पुनः क्वचित् क्वापि स्थाने, प्रचारनिर्गतवनेचरान्विष्यमाणफलमूलकन्दया प्रचारनिर्गतैः-निवृत्तयात्रैः, मार्गनिर्गतैर्वा, वनेचरैः-शबरादिभिः, अन्विष्यमाणानि-गवेष्यमाणानि, फलानि, मूलानि कन्दाः-शूरणाश्च यस्यां तादृश्या [ल]। पुनः क्वचित कस्मिंश्चित् प्रदेशे, छेकशाखामृगाच्छिन्नपाथेयपथिकनिष्फललोष्टवृष्टिहासिताटविकवर्गया छेकैः-गृहासक्तपक्षिभिः, चतुरैर्वा, शाखामृगैः-मर्कटैश्च, आच्छिन्नं-बलाद्गृहीतं, पाथेयं-पथि-मार्गे भोज्यं वस्तु येषां तादृशैः, पथिकैःमार्गगामिभिः, निष्फललोष्टवृष्ट्या-व्यर्थमृत्खण्डप्रहारैः, हासितः-हासमापादितः, आटविकवर्ग:-वन्यजनता यस्यां तादृश्या; पुनः क्वचित कुत्रापि स्थले, चर्मलब्धलब्धकानुबध्यमानमार्गणप्रहतमर्मद्वीपिमार्गया चर्मलुब्धैः-चर्माभिलाषिभिः लुब्धकैः-व्याधैः, अनुबध्यमानः-निरुध्यमानः, मार्गणैः-बाणैः, प्रहतं-व्रणितं, मर्म-हृदयादिस्थानं येषां तादृशाना, द्वीपिनांव्याघ्राणां, मार्गो यस्यां तादृश्या; मार्गस्थाने वर्गेति पाठे अनुबध्यमानः-गाढबन्धनमापाद्यमानः, तादृशो वर्गः समूहो यत्र तादृश्या; पुनः सापराधवध्वेव कृतापराधनार्येव, प्रियालपनसफलीभूतपादपातनिष्ठया प्रियालैः-तदाख्यवृक्षविशेषैः, पनसैः-स्वनाम्ना लोकप्रसिद्धवृक्षः, फलीभिः-प्रियङ्गवृक्षैः, भूतपादपैः-“भूतवृक्षस्तु शाखोटे स्योनाककलिवृक्षयोः” इत्युक्तैर्वक्षविशेषैः, अतनिट्या-समृद्धया, पक्षे प्रियालपनेन-प्रियकर्तृकालापेन, सफलीभूता-पफला, पादपातस्य-प्रियपादयोः पतनस्य, निष्टा-क्लेशो यस्यास्तादृश्या, पुनः वीरपुरुषतूण्येव वीरपुरुषाणां-भटजनाना, तूण्या-बाणाधारपात्रेण, इव, गौरखराच्छ ९ तिलक "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202