Book Title: Tilakamanjiri Part 3
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 79
________________ तिलकमञ्जरी तदुपनीतसहायः पुनरचलत् । अनेन च क्रमेण प्रतिदिवसमखण्डितप्रयाणस्य करिकलभकस्येव दूरपातिभिः पदैरध्वनि सर्पतो, यावकरसस्येव वारं वारं लङ्घितमहेलाधरस्य, मारुतेरिव क्रमेणोत्तीर्णदुरवतारसिन्धोः, कदाचिदग्न्याहिताग्नेरिव शुष्कपादपारण्याश्रयिणः, कदाचिदुत्तमप्रकृतेरिव महाजनपदानुसारिणः, कदाचिन्महामुनेरिव फलमूलकन्दैः कल्पिताभ्यवहारस्य, कदाचिदमरस्येव संकल्पमात्रोपनतदिव्याहारस्य, कदाचिदनेरिव शीतलैः प्रस्रवणवारिभिः स्वयंधौतपादस्य, कदाचिदिष्टदैवतस्येव दर्शनानुरक्तजनेन स्नपनवसनाङ्ग टिप्पनकम्-यावकसरस्येव वारं वारं लच्चितमहेलाधरस्य एकत्र आक्रान्तयोषिदधरौष्ठस्य, अन्यत्र अतिफ्रान्तगुरुपर्वतस्य । मारुतेरिव क्रमेणोत्तीर्णदुरवतारसिन्धोः एकत्र परिपाट्या उत्तीर्णदुःखावतारसमुद्रस्य, अन्यत्र उत्तीर्णदुःखावतारसरितः, मारुतिः-हनूमान् । अग्न्याहिताग्नेरिव शुष्कपादपारण्याश्रयिणः एकत्र शुष्कवृक्षारणिकाष्टाश्रितस्य, अन्यत्र शुष्कवृक्षकान्तारसेविनः । उत्तमप्रकृतेरिव महाजनपदानुसारिणः एकत्र पूज्यजनस्थानानुसृतस्य अन्यत्र बृहद्देशानुगामिनः । महामुनेरिव फलमूलकन्दैः कल्पिताभ्यवहारस्य उभयत्रापि समानम् । अमरस्येव संकल्पमात्रोपनतदिव्याहारस्य एकत्र चिन्तनमात्रोपगतामृताहारस्य, अन्यत्र चिन्तनमात्रागतचारुभोजनस्य । अद्रेरिव वारिभिः धौतपादस्य एकत्र प्रक्षालितपर्यन्तपर्वतस्य, अन्यत्र धौतचरणस्य । इष्टदैवतस्येव दर्शनानुरक्तजनेनापाद्यमानचित्तप्रसादस्य एकत्र दर्शनं -मतम् , अन्यत्र अवलोकनम् , शेषं समानम् । प्रेतसाधकस्येव कृतगतिप्रतिबन्धं कृतप्रयाणप्रतिबन्धं, तं मित्रधरम् , उपपत्तिभिः स्वप्रयाणसमर्थकयुक्तिभिः, संबोध्य सम्यग बोधयित्वा, प्रतिबन्धाद् वारयित्वेत्यर्थः, च पुनः, सुदरम् अतिदूरं, कृतानुव्रजनं कृतानुगमनं, तं मित्रधर, विनिवर्त्य परावर्त्य, अनपेक्षिततदुपनीतसहायः अनपेक्षितः-उपेक्षितः, तदुपनीतः-तेन-मित्रधरेण, उपनीतः-समर्पितः, सहायः-सार्थगामी येन तादृशः सन् , पुनः अचलत् प्रयातः । अनेन अनुपदवर्णितेन, क्रमेण विधिना, प्रतिदिवसं प्रतिदिनम् , अखण्डितप्रयाणस्य अविच्छिन्नयात्रस्य, समरकेतोरिति शेषः,कमेण पर्यायेण, षड्मासाः, अतिजग्मुः अतिक्रान्ता इत्यग्रेणान्वेति । कीदृशस्य ? करिकलभकस्येव हस्तिशावकस्येव, दूरपातिभिः दूरपर्यन्तोत्क्षेपणशालिभिः, पदैः चरणैः, अध्वनि मार्गे, सर्पतः गच्छतः, पुनः यावकरसस्येव अलक्तरसस्येव, लङ्घितमहेलाधरस्य लचितः-अतिक्रान्तः, महान्-विशालः, इलापृथ्वी धरतीति इलाधरः-पर्वतो येन, पक्षे महस्य-उत्सवस्य, इला-स्थानमिति महेला-नारी, तस्याः, अधरः-ओष्ठः, लङ्घितःआक्रान्तः, व्याप्त इति यावत् , येन तादृशस्य, पुनः मारुतेरिव हनूमत इव, क्रमेण शनैः, उत्तीर्णदुरवतारसिन्धोः उत्तीर्णा-उल्लचिता, दुरवतारा - दुष्प्रवेशा, सिन्धुः-नदी, पक्षे सागरो येन तादृशस्य; पुनः कदाचित् कस्मिंश्चित् काले, अग्न्याहिताग्नेरिव अग्न्याहितस्य-विधिना स्थापिताग्नेः, अग्निहोत्रिण इत्यर्थः, अग्नेरिव, शुष्कपादपारण्याश्रयिणः शुष्काः-नीरसाः, पादपाः-वृक्षा यस्मिंस्तादृशं यत् अरण्य-वनं तदाश्रयिण:-तत्सेविनः, पक्षे शुष्कपादपसम्बन्धी यः, अरणिः-निर्मन्थ्यकाष्ठं, यद्वा पादपः-वृक्षसम्बन्धिकाष्ठं, तथा अरणिः-निर्मन्थकाष्ठं, तदाश्रयिणः; पुनः कदाचित् कस्मिंश्चित् समये, उत्तमप्रकृतेरिव सच्छीलस्येव, महाजनपदानुसारिणः महान्-विशालो यो जनपदः-प्राग्ज्योतिषादिदेशः, पक्षे महाजनस्य-पूज्यजनस्य, यत् पदं-स्थान चरणं वा, तदनुसारिणः-तदाश्रयिणः, पुनः कदाचित् कस्मिंश्चिदवसरे, महामुनेरिव महर्षेरिव, फलमूलकन्दैः कल्पिताभ्यवहारस्य फलेन-कदलीफलादिना, मूलेन-वृक्षशिफया, कन्देन-शूरणेन च, कल्पितः-सम्पादितः, अभ्यवहारः-भोजनं येन तादृशस्य; पुनः कदाचित् कस्मिंश्चित् काले, अमरस्येव देवस्येव, संकल्पमात्रोपनतदिव्याहारस्य संकल्पमात्रेण-चिन्तनमात्रेण, उपनतः-उपस्थितः, दिव्यः-उत्तमः, आहारः-भोज्यवस्तु, पक्षे दिव्याहारः-अमृतं यस्य तादृशस्य; पुनः कदाचित् कस्मि. श्चिदवसरे, अद्रेरिव पर्वतस्येव, शीतलैः शैत्यशालिभिः,प्रस्रवणवारिभिःप्रवाहजलैः,स्वयंधौतपादस्य स्वयं-खेनैव, धौतीप्रक्षालितो, पादौ, पक्षे पादाः-महापर्वतप्रान्तस्थक्षुद्रपर्वता यस्य तादृशस्य; पुनः कदाचित् कस्मिंश्चित् काले, इष्टदै शित काले दण्व तस्येव इष्टदेवस्येव, दर्शनानुरक्तजनेन तदवलोकनकुतूहलिना लोकेन, पक्षे तन्मतानुरागयुक्तजनेन, स्नपनवसनाङ्गरागकुसुमादिभिः स्नपन-नानीयजलाहरणं, बसनं-परिधानीयार्पणम् , अङ्गरागः- विलेपनद्रव्योपहरणं, कुसुमं-पुष्पमाल्यार्पणं, तदादिभिः-तत्प्रभृतिभिरुपचारैः, आपाद्यमानचित्तप्रसादस्य आपाद्यमानः-सम्पाद्यमानः, चित्तप्रसादः-हृदयप्रीतियेस्य तादृशस्य; पुनः कदाचित् "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202