Book Title: Tilakamanjiri Part 3
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 75
________________ तिलकमञ्जरी ६३ तलगम्भीरभीमगह्वरया, समरभूम्येव साहसरहितजनदुष्प्रवेशया, शिथिलमूलदुर्बलजटाजालकैः परस्परावकाशमिव दातुमप्रसारितशाखा मण्डलैस्तारकानिकुरुम्बमिव कुसुमस्तबकतां नेतुमम्बराग्रलमैः सरलसर्जार्जुनकरञ्जशाकशल्लकीप्रायैः पादपैरपास्तदिनकरोदयास्तमयदर्शनया, दुरवतातुङ्गतटाभिरुत्को टिपाषाणपटलस्खलन बहुमुखप्रवृत्तमुखर श्रोतोजला भिरनतिनि बिडनिर्गुण्डीलतागुल्म गुपिली कृतोपलवालुका बहुलविच्छिन्नान्तरालपुलिनाभिरुच्छलत्कूलनलव ननिलीन नाहलनिवह्काहलकोलाहलाभिः शैलनिम्नगाभिर्निम्नीकृतान्तरालया [ ऋ ], वनान्तरालसर्पिभिस्तार तुमुलैर्मरुद्भिरिव दिङ्मुखेषु मुखरिताद्रिकुहरकुञ्जः काहलाकूजितैः सूचितापतत्सुचिरसंग लितजनसंघातया, युवजनादतिरेकनिर्विवेकस्थविराभिर्निषादलोकादधिकनिर्दयद्विजातिभिर्दि टिप्पनकम् — काहलः - अव्यक्तः [ ऋ ] । सरन् आश्रयन्, 'अटवीभुवा वन्यभूम्या, गमनाय, प्रावर्तत प्रवृत्तः' इत्यप्रेणान्वेति कीदृश्या ? रसातलगम्भीरभीमगह्वरया रसातलं - पातालं, तद्वद् गम्भीरः - निम्नः, भीमः - भयंकरः, गह्वरः- गुहा यस्यां तादृश्या; पुनः समरभूम्या इव संग्रामभूम्या इव साहसरहितजन दुष्प्रवेशया साहसरहितैः - असाहसिकैः, जनैः, दुष्प्रवेशया - दुःखेन प्रवेष्टुं शक्ययाः पुनः पादपैः वृक्षैः, अपास्तदिनकरोदयास्तमयदर्शनया अपास्तं निवारितं, दिनकरस्य - सूर्यस्य, उदयास्तमययोः - उद्गमनास्तंगमनयोः, दर्शनं यस्यां तादृश्या, कीदृशैः ? शिथिलमूलदुर्बलजटाजालकैः शिथिलं विशीर्ण, मूलं येषां तादृशैः, अत एव दुर्बलं-क्षीणं, विघटितमिति यावत्, जटाजालं - शिफासंघातो येषां तादृशैः, पुनः परस्परावकाशं परस्परस्य - अन्योऽन्यस्य, अवकाशं-अवस्थितिसम्पादकं देशं दातुं सम्पादयितुम्, इव अप्रसारितशाखामण्डलैः अविस्तारितशाखा समूहैः, पुनः तारकानिकुरम्बं नक्षत्रमण्डलं, कुसुमस्तबकतां वपुष्पगुच्छरूपतां नेतुं सम्पादयितुमित्र, अम्बराग्रलग्नैः गगनाप्रसंसृष्टैः, पुनः सरलसर्जार्जुनशाकशल्लकीप्रायैः तत्तज्जातीयवृक्षप्रचुरैः; पुनः कीदृश्या ? शैलनिम्नगाभिः पर्वतीयनदीभिः, निम्नीकृतान्तरालया निम्नीकृतं - नीचैस्त्वमापादितम्, अन्तरालम् - अभ्यन्तरं, मध्यमिति यावत्, यस्यास्तादृश्या, कीदृशीभिः ? दुरवतार तुङ्गतटाभिः दुरवतारः - दुष्करः, अवतारः - अधस्ताद्गमनं येभ्यस्तादृशाः, तुङ्गाः- उन्नताः, तटा यासां तादृशीभिः पुनः उत्कोटिपाषाणपटलस्खलन बहुमुख प्रवृत्तमुखरथ्रोतोजलाभिः उत्-उन्नता, कोटि :- अग्रभागो यस्य तादृशे, पाषाणपटले - प्रस्तरराशौ, स्खलनेन - विनिपातेन, बहुमुखप्रवृत्तानि - अभितः स्यन्दितुमुपक्रान्तानि, मुखराणि - शब्दायमानानि, स्रोतांसिप्रवाहा येषां तादृशानि जलानि यासु तादृशीभिः, पुनः अनतिनिविड निर्गुण्डीलतागुल्म गुपिली कृतोपलवालुका बहुलविच्छिन्नान्तरालपुलिनाभिः अनतिनिबिडाभिः - किञ्चित्सान्द्राभिः, निर्गुण्डीनाम्नीभिर्लताभिः, गुल्मैः - स्कन्दरहिततरुभिश्च, गुपिलीकृतानि - समृद्धीकृतानि, व्याप्तानीति यावत् उपलानां प्रस्तराणां वालुकानां - सिकतानां च यद्वा प्रस्तरसम्बन्धिसिकतानां बहुलेन - राशिना, विच्छिन्न । नि-आवृतानि, व्याप्तानीति यावत्, अन्तरालपुलिनानि - मध्यवर्त्यचिरनिर्गतजलस्थलानियासां तादृशीभिः, यद्वा पिली कृतानि - आवृतानि, उपलवालुका बहुलानि - प्रस्तरसिकताप्रचुराणि विच्छिन्नान्तरालानि संलग्नानि च पुलिनानि यासां तादृशीभिः, पुनः उच्छलत्कूलनलवननिलीननाहलनिवहकाहलकोलाहलाभिः उच्छलन्तः - उद्गच्छन्तः, कूलनलवननिलीनस्य-कूलेषु--तटेषु, यानि नलानां तृणविशेषाणां वनानि तेषु निलीनस्य - प्रच्छन्नस्य, नाहलनिवहस्य - म्लेच्छजातिविशेषसमूहस्य, काहलकोलाहलाः - काहलाः - अव्यक्ताः, कोलाहलाः --ध्वनिविशेषा यासां तादृशीभिः ; [ ऋ ] । पुनः कीदृश्या ? काहलाकूजितैः वाद्यविशेषध्वनिभिः सूचितापतत्सुचिरसंगलितजनसंघातया सूचितः - प्रत्यायितः, आपतन्आगच्छन्, सुचिरसंगलितः - अतिदीर्घकालविघटितः, जनसंघातो यस्यां तादृश्या, कीदृशैः ? वनान्तरालसर्पिभिः वनमध्यव्यापिभिः, पुनः तार तुमुलैः अत्युच्च गम्भीरैः, पुनः मरुद्भिरिव पवनैरिव, दिङ्मुखेषु दिगन्तेषु, मुखरिताद्रि कुहरकुः मुखरितानि - शब्दायमानानि, अद्विकुहराणि - पर्वतगुहाः, कुञ्जाः - लता पिहितोदरगृहाच यद्वा पर्वतगुहास्थ कुजा यैस्तादृशैः; पुनः कीदृश्या ? शबरपल्लीभिः शबराणां म्लेच्छजातिविशेषाणां, पल्लीभिः क्षुद्रतरगृहौघैः, अध्यासितविषमपर्वतोद्देशया अध्यासिताः-अधिष्ठिताः, विषमाः - निम्नोन्नताः, पर्वतोद्देशाः - पर्वतप्रदेशा यस्यां तादृश्या, कीदृशीभिः ? युवजनात् तरुणलोकापेक्षयापि, अतिरेकनिर्विवेकस्थ विराभिः अतिरेकनिर्विवेकाः - अत्यन्तविवेकशून्याः, स्थविराः - वृद्धजना यासु तादृशीभिः पुनः निषादलोकात् चाण्डालजातिविशेषजनादपि, अधिकनिर्दय द्विजातिभिः अधिकनिर्दयाः - अत्यन्तदयाशून्याः, द्विजातयः "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202