Book Title: Tilakamanjiri Part 3
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text ________________
mmmmmwroom
तिलकमञ्जरी गतात्मीयपरकीयपरिजनमवलोकितासन्नवर्तिसुहृद्वन्धुवर्गमेकहेलोत्तीर्णसर्वाङ्गसंज्वरमुद्वहन्नात्मानमादरप्रहितनयनयुगलो गुरुमिव स्वामिनमिवाराध्यमिव जीवितप्रदमिवेष्टदैवतमिव सुचिरमवलोक्य तं पुरुषमाहूय संभाव्य चासनदानवचनेन ‘भद्रमुख ! भद्रमसदृशसौहार्दशालिशीलामृतमहोदधेः परमसुहृदः कमलगुप्तस्य' इत्यवोचत् [व]।
अथ स तेन संभ्रमवता तस्य संभाषणेन कृतकृयमात्मानं मन्यमानो भृत्यवत् समुपसृत्य सत्वरकृतप्रणामः 'अद्य भद्रं मच्चक्षुषा महाभागदेहारोग्यदर्शनेन' इत्युदीर्योत्तरीयपटपल्लवप्रान्तसंयतं सयत्नमादाय दक्षिणकरेणापतो लेखमक्षिपत् [भ] ।
सिंहलेश्वरतनयोऽपि तं गृहीत्वा निरीक्ष्य च क्षणं तूष्णीमेव दृष्ट्वा किमपि हृष्टचेताः सतर्षमर्पितश्रवणस्य शृण्वतः सकलस्यापि राजकस्य स्पष्टवर्णोच्चारया वाचा स्वयमवाचयत् [म]।
टिप्पनकम्-सम्भाव्य संमान्य [व] ।
तक्षकजातीयस्य, आशीविषस्य-सर्पराजस्य, यद् विषं-गरलं, तद्वेदनया-तत्पीडया, उन्मुक्तमिव त्यक्तमिवेति सर्वत्रोत्प्रेक्षा, पुनः अभिव्यक्तोपलक्षिताकाशकालदिग्विभागं अभिव्यक्तं-परिस्फुटं यथा स्यात् तथा, उ लक्षितः-प्रतीतः, आकाशस्य कालस्य दिशश्च, विभागः-अवान्तरभेदो येन तादृशम् । पुनः अवगतात्मीयपरकीयपरिजनम् अवगताः-परिचिताः, आत्मीयाःस्वकीयाः, परकीयाः-अन्यदीयाश्च, परिजनाः-परिवारा येन तादृशम् ; पुनः अवलोकितासन्नवर्तिसुहृद्वन्धुवर्ग अवलोकितःदृष्टः, आसन्नवी-पार्श्ववर्ती, सुहृदां-मित्राणां, बन्धूनां च, वर्गः-गणो येन तादृशम् ; पुनः एकहेलोत्तीर्णसर्वाङ्गसंज्वरम् एकहेलया-युगपत् , उत्तीर्णः-विमुक्तः, सर्वाङ्गसंज्वरः-समस्ताङ्गसम्बन्धिसन्तापो येन तादृशम् ; आत्मानं खम् , उद्वहन् धारयन्, आदरप्रहितनयनयुगल: प्रीत्या व्यापारितलोचनद्वयः सन् , गुरुमिव आचार्यमिव, पुनः स्वामिनमिव, खाधिपतिमिव, पुनः आराध्यमिव स्वसेव्यमिव, पुनः जीवितप्रदमिव प्राणाधायकमिव, पुनः इष्टदेवतमिव खोपास्यदेवमिव, तं लेखहारकं, पुरुषं जनं, सुचिरं अतिदीर्घकालम् , अवलोक्य निरीक्ष्य, आहूय स्खनिकटमागमय्य, च पुनः, आसनदानवचनेन आसनार्पणादेशवाक्येन, संभाव्य सत्कृत्य, भद्रमुख! भव्यवदन !, असदृशसौहार्दशालिशीलामृतमहोदधेः असशम् -असाधारण, यत् सौहार्द-सुहृद्भावः, तच्छालि शीलं -स्वभाव एवामृत, तन्महोदधेः-तत्समुद्रस्य, कमलगुप्तस्य तदाख्यत्वत्वामिनः, भद्रं कुशलम् , अस्तीति शेषः, इति इत्थं, अवोचत् कुशलं पृष्टवान् [व]
__ अथ अनन्तरं, सः लेखहारकः, संभ्रमवता औत्सुक्यपूर्णेन, तस्य समरकेतोः, तेन अनुपदोक्तेन, संभाषणेन आलापेन, आत्मानं खं, कृतकृत्यं कृतार्थ, मन्यमानः, भृत्यवत् परिचारक इव, समुपसृत्य सम्यगुपगत्य, सत्वरकृतप्रणामः शीघ्रकृताभिवादनः, 'अद्य अस्मिन् दिने, मच्चक्षुषा मदीयनेत्रेण, महाभागदेहारोग्यदर्शनेन महाभागस्यमहानुभावस्य भवतः, देहारोग्यदर्शनेन-शारीरिकस्वास्थ्यनिरीक्षणेन, भद्रं कुशलम् , अस्तीति शेषः, इति इत्थम् , उदीर्य उक्त्वा, उत्तरीयपटपल्लवप्रान्तसंयतं उत्तरीयपटपल्लवस्य-उत्तरीयवस्त्ररूपपल्लवस्य, प्रान्ते-अञ्चलप्रदेशे, संयत-बद्धं, लेखं पत्रम् , दक्षिणकरेण दक्षिणहस्तेन, सयत्नं यत्नपूर्वकम् , आदाय गृहीत्वा, अग्रतः समरकेतोरने, अक्षिपत् प्रक्षिप्तवान् [भ] ।
सिंहलेश्वरतनयोऽपि सिंहलेश्वरस्य-सिंहलद्वीपाधिपतेश्चन्द्रकेतोः, तनयोऽपि-सुतोऽपि, समरकेतुरपीत्यर्थः, तं लेख, गृहीत्वा हस्तेनादाय, च पुनः, निरीक्ष्य अवठोक्य, क्षणं क्षणपर्यन्तं, तूष्णीमेव निर्वचनमेव, किमपि किञ्चित् , दृष्ट्वा, दृष्टचेताः प्रसन्नहृदयः सन् , सतर्ष साभिलाषम् , अर्पितश्रवणस्य दत्तकर्णस्य, शण्वतः तल्लेखवृत्तान्तमाकर्णयतः, सकलस्यापि समस्तस्यापि, राजकस्य नृपसमूहस्य, वाचनविधौ तमनाहत्येत्यर्थः, स्वयं खेनैव, स्पष्टवर्णोच्चारया स्पष्टः-स्फुटः, वर्णानां-अक्षराणाम् , उच्चारः-उच्चारणं यस्यां तादृश्या, वाचा वाण्या, अवाचयत् पठितवान् [म]।
"Aho Shrutgyanam"
Loading... Page Navigation 1 ... 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202