Book Title: Tilakamanjiri Part 3
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text ________________
३४
टिप्पनक-परागविवृतिसंवलिता। युवराजसमरकेतो क्तिरितः प्रदेशादारभ्य पश्चिमेन समग्रोऽपि ग्रामनगरपामो विलम्भके सेनान्यः कमलगुप्तस्य, इत्येवं च सर्वतो निवेद्यमानमण्डलविभागः सविभ्रम इतस्ततो भ्रमन्नुत्पाककलमकेदारकपिलायमानसकलग्रामसीमान्तमातपक्लान्तकान्तारमहिषयूथाध्युषितपल्वलोपान्तकृष्णागुरुतरुतलमविरलोद्भिन्नकुंसुमगुच्छसप्तच्छदविटपिभिर्बद्धविकटाट्टहासमुद्विकासकमलाकरामोदवासिताशामुखभ्रमन्मदमुखरालिमालमुत्तालशालिवनगोपिकाकरतलतालतरलितपलायमानकीरकुलकिलकिलारावयन्त्रितपथिकयात्रमुच्छ्रितपत्रखण्डपुण्ड़ेक्षुवाटपरम्पराभिरामं कामरूपनाम्ना लब्धव्यपदेशं देशमाससाद [क]।
तत्र च प्रतिदिवसमधिकाधिकोपदर्शितभक्तिना प्राग्ज्योतिषाधिपेन प्रतिबद्धगमनः स्कन्धावारममुञ्चत् । आबद्धनिश्चलाव स्थितिं च तं चारपुरुषेभ्य उपलभ्य सर्वेऽपि सत्वरमुत्तरापथनिवासिनो दर्शनार्थिनः
टिप्पनकम्-प्राग्ज्योतिषः-कामरूपः । सौहित्य-तृप्तिः, लौहित्यः- हृदः । क्षपणं-विनाशः, विधेयः-आयत्तः [ख]।
चिह्निताः, तीरदेशाः-तटप्रदेशा यस्यास्तादृशीम् , इमां, तरङ्गिणी नदीम् , उत्तीर्य अतिक्रम्य, युवराजसमरकेतोः समरकेतुनाम्नो नृपकुमारस्य, भुक्तिः भोजनार्थ भोगार्थ वा प्रदत्ता भूमिः, अस्तीति शेषः । इतः अस्मात्, प्रदेशात् , आरभ्य, पश्चि. मेन पश्चिमायां दिशि अदूरे भवः, समग्रोऽपि अशेषोऽपि, ग्रामनगरग्रामः ग्रामनगरगणः, सेनान्यः सेनानायकस्य, कमलगुप्तस्य तन्नाम्नः, विलम्भके विपुलदाने, जीविकार्पण इत्यर्थः, अस्तीति शेषः । इत्येवम् इत्थं, सर्वतः परितः, निवेद्यमानमण्डलविभागः तत्तत्स्वरूपदर्शनद्वारा विज्ञाप्यमानराष्ट्रविभागः सन् , सविभ्रममिव सविलासमिव, इतस्ततः अत्र तत्र, भ्रमन् विहरन , कामरूपनाम्ना तत्संज्ञया, लब्धव्यपदेशं प्राप्तप्रसिद्धिं, देशं ब्रह्मवगमध्यवर्तिदेशम् , आसामप्रदेशमित्यर्थः, आससाद गतवान् । कीदृशम् ? उत्पाककलमकेदारकपिलायमानसकलग्रामसीमान्तम् उत्पाकाः-परिपक्काः, कलमाः-शालयो येषु तादृशैः, केदारैः-क्षेत्रैः, कपिलायमानः-पिशङ्गायमानः, ग्रामसीमान्तः-तत्सीमाचरमावयवो यस्मिस्तादृशम् ; पुनः आतपक्लान्तकान्तारमहिषयूथाध्युषितपल्वलोपान्तकृष्णागुरुतरुतलम् आतपक्लान्तैः-सूर्यकिरणतापव्याकुलीभूतैः, कान्तारमहिषयूथैः-वनमहिषगणैः, अध्युषितानि-अधिष्ठितानि, पल्वलोपान्तवर्तिनाम्-अल्पजलाशयतटवर्तिनां, कृष्णागुस्तरूणां-कालागुरुवृक्षाणां, तलानि-अधःस्थलानि यस्मिंस्तादृशम् ; पुनः अविरलोद्भिन्नकुसुमगुच्छसप्तच्छदविटपिभिः अविरलं-समग्रं यथा स्यात् तथा, उद्भिन्नाः-उद्गताः, कुसुमगुच्छाः -पुष्पस्तबका येषु तादृशैः, सप्तच्छदविटपिभिः-सप्तसप्त- . पत्रपुटितस्तबकविशिष्टवृक्षविशेषैः, बद्धविकटाहासंबद्धः-निरन्तरं प्रवर्तितः, विकट:-प्रकटः, अट्टहासः-महाहासो यस्मिस्ताहशम् ; पुनः उद्विकासकमलाकरामोदवासिताशामुखभ्रमन्मदमुखरालिमालम् उद्विकासानाम्-ऊर्ध्वमुखविकसिताना, कमलानाम् , आकरस्य-वनस्य, आमोदेन-उत्कटसौरभेण, वासिताना-सुरभीकृतानाम् , आशाना-दिशां, मुखे-अन्ते, भ्रमन्तीविचरन्ती, मदमुखराणां-मदेन गुञ्जताम् , अलीनां-भ्रमराणां, माला-श्रेणी यस्मितादृशम् ; पुनः उत्तालशालिवनगोपिकाकरतलतालतरलितपलायमानकीरकुलकिलकिलारावयन्त्रितपथिकयात्रम् उत्तालानि-उन्नतानि, यानि शालिवनानि-धान्यविशेषवनानि, तद्गोपिकानां-तद्रक्षिकाणां स्त्रीणां, करतलतालै:-हस्ततलवनिभिः, तरलितानां-चपलितानाम् , अत एव पलायमानाना-त्वरितमपसरतां, कीरकुलाना-शुकगणानां, किलकिलारावैः-किलकिलात्मककूजनैः, यन्त्रिता-निवारिता, पथिकानांमार्गगामिना, यात्रा-प्रयाणं यस्मिंस्तादृशम् ; पुनः उच्छ्रितपत्रखण्डपुण्ड्रेक्षुवाटपरम्पराभिरामम् उच्छ्रिताः-उन्नताः, पत्रखण्डाः-पल्लवप्रदेशयुक्ताः, पुण्डेक्षवः-इक्षुविशेषा यस्यां तादृश्या, वाटपरम्परया-वाटिकापरम्परया, अभिरामम्-मनोहरम् [क] । .. च पुनः, तत्र तस्मिन् कामरूपदेश इत्यर्थः, प्रतिदिवसं प्रत्यहम् , अधिकाधिकोपदर्शितभक्तिना अधिकादपि अधिकं यथा स्यात् तथा, उपदर्शिता-प्रकटिता, भक्तिः-प्रीतिर्येन तादृशेन, प्राग्ज्योतिषाधिपेन प्राक्-प्रथम, ज्योतिःप्रकाशो यत्रासौ प्राग्ज्योतिषः-पूर्वदेशः, तदधिपेन, कामरूपदेशाधीशेनेत्यर्थः, प्रतिवद्धगमनः अवरुद्धप्रस्थानः सन् , स्कन्धावार शिबिरम् , अमुञ्चत् सन्निवेशितवान् । चारपुरुषेभ्यः गूढजनेभ्यः, गुप्तचरद्वारेत्यर्थः, आवद्धनिश्चलावस्थिांत कृतः स्थिरस्थिति हरिवाहनम् , उपलभ्य ज्ञात्वा, स समस्ता अपि, उत्तरापथनिवासिनः उत्तरदेशवास्तव्याः, पार्थिवाः
"Aho Shrutgyanam"
Loading... Page Navigation 1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202