Book Title: Tilakamanjiri Part 3
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 58
________________ टिप्पनक-परागविवृतिसंवलिता । निरन्तरगवा क्षितेन प्रकामरूक्षत्वचा कायेन दुर्गाटवीपर्यटनमनक्षरं व्याचक्षाणान् , सर्वदा व्यायामेन तक्षितानि तदा तु तेन व्यायामेन क्षुधा च क्षामता परामानीतानि क्षीणजीवनोपायानीव प्रकटवंशपृष्ठमाश्रितानि बिभ्रतो जठराणि, सत्वरचरणपातपरम्परोत्थापितेनारण्यपथरेणुना पाण्डुरीकृतशिरःश्मश्रुकेशान् , अपक्रान्तयौवनावलेपलब्धान्तरया जरयेवागत्य कवलितान् , अप्रसाधितारब्धकार्यचिन्ताश्रान्तपौरुषान, अभिमुखं मुखनिखातदृष्टिमार्गोपविष्टमिष्टस्वामिकुशलवार्ताश्रवणपर्युत्सुकं राजकमवलोक्यावलोक्य लज्जया परस्परस्य पृष्ठे निलीयमानांस्तानपश्यत् [थ] । दृष्ट्वा च दूनचेताः समीपागतानकृतप्रणामानेव पप्रच्छ-'भद्राः ! किमाकुला यूयम् , आयात विश्रब्धम् , अवदद्भिरेव युष्माभिरनेन दूरावनतपक्ष्मणा ब्रीडाजडविलोकनेन प्रयत्नरक्षितगलद्वाष्पाम्भसा लोचनद्वयेनैवावेदितमदर्शनं द्विपस्य, तथाप्यलीकाशया खलीकृतः पृच्छामि किञ्चित् , दृष्टः कचिदरण्योद्देशे गच्छत खदिराख्यवृक्षशाखाग्रभागोद्धर्षणजन्यरेखाभिः, निरन्तरगवाक्षितेन निरन्तरच्छिद्रितेन, प्रकामरूक्षत्वचा प्रकाम-अत्यन्त, रूक्षा-अचिक्कणा, त्वक्-चर्म यस्य तादृशेन, कायेन शरीरेण, अनक्षरं अक्षरोच्चारणं विनैव, दुर्गाटवीपर्यटनं दुर्गादुःखेन गम्या, या अटवी-वनं, तस्या पर्यटनं-परिभ्रमणं, व्याचक्षाणान् व्याहरतः, सूचयत इत्यर्थः पुनः सर्वदा सर्वस्मिन काले, पूर्वकालेऽपीत्यर्थः, व्यायामेन शरीरविस्फारणेन, तक्षितानि तनूकृतानि, तदा तु तस्मिन् काले तु, तेन व्यायामेन, चपुनः, क्षुधा बुभुक्षया, परां अत्यन्तां, क्षामतां कृशताम् , आनीतानि आपादितानि, अत एव क्षीणजीवनोपायानीव क्षीणाः-अपगताः, जीवनस्य-प्राणधारणस्य, उपायाः-भोजनपानादयः प्रतीकारा येषां तादृशानीवेत्युत्प्रेक्षा, प्रकटवंशष्ट प्रकटः-त्वक्क्षयेण प्रकटीभूतो यो वंशः-पृष्ठभागा स्थिपञ्जरः, तस्यापि पृष्ठं-पश्चाद्भागम् , आश्रितानि अन्तर्गतानि, जठराणि उदराणि, बिभ्रतः धारयतः । पुनः सत्वरचरणपातपरम्परोत्थापितेन सत्वराणां-त्वरापूर्वकाणां, चरणपातानापादविक्षेपाणां, परम्परया-धारया, उत्थापितेन-उत्क्षिप्तेन, अरण्यपथरेणना वनमार्गधूल्या. पाण्डरीकृतशिरःश्मश्रकेशान् पाण्डुरीकृताः-पीतसम्बलितशुक्लतामापादिताः, शिरसः-मस्तकस्य, इमश्रणः-दाढिकासम्बन्धिनश्च, केशा येषां तादृशान् । पुनः अपक्रान्तयौवनावलेपलब्धान्तरया अपक्रान्तेन-अपगतेन, निवृत्तेनेत्यर्थः, यौवनावलेपेन-तारुण्यमदेन, तदपगमेनेत्यर्थः, लब्धं-प्राप्तम् , अन्तरं-अवकाशो यया तादृश्या, जरया वार्धक्यावस्थया, आगत्य उपस्थाय, कवलितानिव प्रस्तानिवेत्युत्प्रेक्षा; पुनः अप्रसाधितारब्धकार्यचिन्ताश्रान्तपौरुषान् अप्रसाधितम्-अनिष्पादितम् , आरब्धं-उपकान्तं . च, यत् कार्य-मजाफहतहरिवाहनान्वेषणं, तच्चिन्तया, श्रान्तं-निवृत्तकार्य, पौरुषं-शक्तिर्येषां तादृशान् ; पुनः लजया लज्जावशेन, परस्परस्य अन्योऽन्यस्य, पृष्ठे पश्चाद्भागे, निलीयमानान् तिरोभवतः, किं कृत्वा? राजकं राजसमूहम् , अवलोक्य भवलोक्य दृष्ट्वा दृष्ट्वा, कीदृशम् ? अभिमुखं सम्मुखस्थं, पुनः मुखनिखातदृष्टिमार्गोपविष्ठं मुखे-मुखमण्डलमध्ये, निखातायाः-निवेशितायाः, दृष्टेः, मार्गे-गोचरे, उपविष्ट-स्थितम् , पुनः इष्टस्वामिकुशलवार्ताश्रवणपर्युत्सुकम् , इष्टस्यश्रोतुमाकासितस्य, खामिकुशलस्य-हरिवाहनशुभस्य, या वार्ता-वृत्तान्तः, तच्छ्रवणे, पर्युत्सुकम्-अत्यन्तोत्कण्ठितम् [थ]। च पुनः, दृष्ट्वा तानवलोक्य, दूनचेताः परितप्तहृदयः, समरकेतुरिति शेषः, समीपागतान निकटमायातान् , अकृतप्रणामानेव प्रणामात् प्रागेव, प्रपच्छ पृष्टवान् , तानिति शेषः । किमित्याह-भद्राः! कल्याणिनः ! यूयं भवन्तः, किं कस्माद्धेतोः, आकुलाः-व्यग्राः, विश्रब्धं सविश्वासम् , आयात आगच्छत; अवदद्भिरेव अकथयद्भिरेव, ष्माभिः भवद्भिः, दावनतपक्ष्मणा दूरम् , अवनतम्-नम्रीभूत, पक्ष्म-नयनोपरिस्थरोमराजियस्य तादृशेन, पुनः ब्रीडाजडविलोकनेन वीडया-लज्जया, जड-शिथिलतामापन्नं, विलोकन-दर्शनव्यापारो यस्य तादृशेन, पुनः प्रयत्नरक्षितगलद्वाष्पाम्भसा प्रयलेन-प्रयासेन, रक्षितम्-अधःक्षरणानिवारितं, गलत्-अन्तःस्यन्दमानं, बाष्पाम्भ:-अश्रुजलं यस्य तादृशेन, अनेन प्रत्यक्षवर्तिना, लोचनद्वयेनैव नयनयुगलेनैव, द्विपस्य प्रकृतहस्तिनः, अदर्शनं दर्शनाभावः, आवेदितं सूचितम् । तथाऽपि तदावेदनेऽपि, अलीकाशया मिथ्याऽऽशया,-खलीकृतः तुच्छतामापादितः सन् , किञ्चित् किमपि, पृच्छामि जिज्ञासाम् भावेदयामि, कचित् कस्मिंश्चित् , अरण्योद्देशे वनप्रदेशे, गच्छतः, उच्छन्नमूर्तेः अदृश्याकृतेः, तस्य प्रकृतस्य, मृगाधमस्य "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202