Book Title: Tilakamanjiri Part 3
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 59
________________ तिलकमञ्जरी ४७ स्तस्योच्छन्नमूर्तेर्मृगाधमस्य गतिमार्गः ।' त एवमनुयुक्ताः समरकेतुना निःश्वस्य दीर्धमाघ्रातमनसो मन्युना प्रणम्य शनकैः सगद्गदं जगदुः -- 'युवराज ! न केवलं गमनमार्गः, सोऽपि दुष्टात्मा पापकर्मभिर्दृष्टोऽस्माभिः । केवलं यद्व्यावर्तनाशया तस्य पृष्ठे प्रधाविताः, यं चान्वेषयद्भिरनुभूतो दिनत्रयमसावसद्यः क्षुत्पिपासाकृतः परिक्लेशः, यं चानीय युवराजेन योजयितास्म इति पुरा चिन्तितमस्माभिः, स नास्ति सकलमेदिनीचक्रचन्द्रमाः कुमारः' इत्यभिधाय बाष्पजललवानधोमुखाः ससृजुः [द] । युवराजस्तु तदकाण्डकुलिशपाशपातप्रख्यमाकर्ण्य तेषां वचनमक्रमोपचितेन पूरितः परमशोकेन – 'भद्राः ! किमद्यापि कथयिष्यथ, श्रुतं श्रोतव्यम्, उपसंहरत वार्ताम्, अतः परमशक्तः श्रोतुमस्मि' इत्युदीर्यावच्छाद्य च त्वरितमुत्तरीयवाससा सोत्तमाङ्ग 'हा सर्वगुणनिधे ! हा बुधजनैकवल्लभ ! हा प्रजाबन्धो ! हा समस्तकलाकुशल ! कोसलेन्द्रकुलचन्द्र ! हरिवाहन ! कदा द्रष्टव्योऽसि' इति विलपन्नेव मीलितेक्षणः क्षणेनैव निकटोपविष्टस्य खड्ग प्राहिणो जगाम पर्यस्त - विग्रहस्तिर्यगुत्सङ्गम् । अत्रान्तरे निरन्तरोदितरुदितरवसंभेदमेदुरो दारयन्निव दयालुहृदयानि रोधोरन्ध्र टिप्पनकम् - अनुयुक्ताः पृष्टाः । मन्युना दैन्येन [द] | अधमगजस्य, गतिमार्गः गमनमार्गः, दृष्टः दृष्टिगोचरीकृतः । समरकेतुना एवं अनेन प्रकारेण, अनुयुक्ताः पृष्टाः, ते हस्तिपकजनाः, दीर्घ विस्तृतं निःश्वस्य नासिकापवनं मुक्त्वा मन्युना शोकेन, आघ्रातमनसः व्याप्तहृदयाः सन्तः, प्रणम्य नमस्कृत्य, शनकैः मन्दं, सगद्गदं अव्यक्ताक्षरसहितम्, जगदुः उक्तवन्तः । किमित्याह-युवराज ! केवलं गमनमार्गः गमनमार्ग एव न, किन्तु दुष्टात्मा दुष्टखभावः सोऽपि गजोऽपि पापकर्मभिः दुष्टकर्मवशवर्तिभिः अस्माभिः, दृष्टः साक्षात्कृतः, केवलं किन्तु, यड्यावर्तनाशया यस्य- कुमारस्य, परावर्तनाकाङ्क्षया, तस्य गजस्य, पृष्ठे पश्चाद्देशे, प्रधाविताः सत्वरं गताः, वयमिति शेषः । च पुनः, यं कुमारम्, अन्वेषयद्भिः गवेषयद्भिः अस्माभिरित्यध्याहारः, दिनत्रयम्, असह्यः सोढुमशक्यः, क्षुत्पिपासाकृतः बुभुक्षापिपासाप्रयुक्तः, असौ परिक्लेशः अतिकष्टम्, अनुभूतं भुक्तम्, च पुनः, यं कुमारम्, आनीय उपस्थाप्य, युवराजेन कुमारेण भवता सह, योजयितास्मः सम्मेलयितास्मः, इति इत्थम्, अस्माभिः पुरा पूर्वं चिन्तितं आलोचितं, सकलमेदिनीचक्रचन्द्रमाः समस्तभूमण्डलचन्द्रखरूपः, सः प्रकृतः कुमारः, हरिवाहन इत्यर्थः, नास्ति न वर्तते इति इत्थम्, अभिधाय उक्त्वा, अधोमुखाः अवनतवदनाः सन्तः, बाष्पजललवान् अनुजलबिन्दून्, ससृजुः मुक्तवन्तः [द] | युवराजस्तु समरकेतुस्तु, अकाण्डकुलिशपाशपातप्रख्यम्, अकाण्डे - अनवसरे, कुलिशपाशस्य - निन्द्यवज्रस्थ, असह्यवज्रस्येत्यर्थः, यः पातः - पतनं तत्प्रख्यं तत्तुल्यं, तेषां हस्तिपकजनानां तत् अनुपदोक्तं वचनम्, आकर्ण्य श्रुत्वा, अक्रमोपचितेन युगपत्प्रवृद्धेन, परमशोकेन अत्यन्तशोकेन, पूरितः व्याप्तः सन्, 'भद्राः ! कल्याणवन्तः 1 अद्यापि अधुनापि, किं कथयिष्यथ वक्ष्यथ, श्रोतव्यं श्रोतुं योग्यं श्रुतं वृत्तं वार्तां प्रकृतवृत्तान्तम्, उपसंहरत समाद्भुत, अतः अस्मात् परं अनन्तरं श्रोतुं तद्वार्ता श्रवणगोचरीकर्तुम्, अशक्तः असमर्थः, अस्मि' इति इत्थम्, उदीर्य उक्त्वा, च पुनः, सोत्तमाङ्गं उत्तमाङ्गेन- मस्तकेन सहितम्, अङ्गं शरीरावयवम्, उत्तरीयवाससा उत्तरीयवस्त्रेण, अवच्छाय आच्छाय, हा सर्वगुणनिधे ! निखिलगुणाकर !, हा बुधजनैकवल्लभ ! विद्वज्जनपरमप्रिय 1 हा समस्तकला कुशल ! अशेषकलाकोविद ! कोसलेन्द्रकुलचन्द्र ! कोसलेश्वरकुमुदकानन विकासकचन्द्र !, हरिवाहन ! तदाख्ययुवराज !, कदा कस्मिन् काले, द्रष्टव्योऽसि द्रष्टुं शक्योऽसि, इति इत्थं, विलपन्नेव क्रन्दन्नेव, मीलितेक्षणः मुद्रितनेत्रः, क्षणेनैव क्षणमात्रेण, निकटोपविष्टस्य समीपोपविष्टस्य, खड्गग्राहिणः खङ्गघारिणः, उत्सङ्गं कोडं, पर्यस्तविग्रहः विक्षिप्तगात्रः सन्, तिर्यक् कुटिलं, जगाम गतवान् । अत्रान्तरे अस्मिन्नवसरे, निरन्तरोदितरुदितरवसम्मेदमेदुरः निरन्तरं -अविरतम्, उदितानां - उत्थितानाम्, रुदितरवाणां - रोदनशब्दानाम्, सम्भेदेन-मिश्रणेन, मेदुरः सान्द्रः, अत एव दयालुहृदयानि सदयहृदयानि, दारयन्निव भिन्दन्निव, दारुणः भीषणः, राजवृन्दस्य राजसमूहस्य, आक्रन्दः विलापः, रोधोरन्ध्र वटवित्ररम्, "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202