Book Title: Tilakamanjiri Part 3
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 49
________________ तिलकमञ्जरी नखकोटिघट्टनावाप्तजन्मनः स्वभावमन्मनानविरतमवतरतः कर्णकोटराध्वनि ध्वनिविशेषानवधारयन्तम् , 'इयमृक्षसंकुला वृक्षसंहतिः, एष वनमहिषयूथाधिष्ठितो नापकण्ठः, इदमुदरदेशासीनमेदुरवराहमद्रिगह्वरम् , असावन्तरनिभृतभ्रान्तशरभः शरस्तम्बनिकुरम्बः' [घ] । इत्युपेत्योपेत्य सरभसमावेदयन्तमवधानदानेन विदधानमनुचरगणं कृतकृत्यमुपसृत्य सत्वरकृतप्रणामः पुष्करो नाम करिसाधनाध्यक्षः स्फुटाक्षरमवादीत्-'कुमार ! विरमतु विनोदैकफला तावदेषा गीतगोष्ठी, गरिष्ठमन्यत् प्रतिविधेयं राजकार्यम् , अद्य यामिन्याश्चरमयामे वैरियमदण्डाभिधानः प्रधानदन्ती दिगन्तरव्यापिना घ्राणपथमुपगतेन प्रबोधितो मदगन्धेन सविधचारिणमरण्यवारणं रणायानुबध्नन्नवबुध्यमानो निपुणमन्धकारसंपर्कादध्वन्यतय॑माणगतिरेव कठिनकर्करव्यतिकरकष्टसंचारमतिमहत् कान्तारं प्रविष्टः, दृष्टश्च दिनकरोदये पृष्ठतः पदानुसारप्रधावितैस्तत्प्रतिबद्धैराधोरणगणैः, आरब्धश्च शिबिरमानेतुम् , न तु कृतानेकयत्नैरपि पारितो निवर्तयितुम् । तदेष यावन्नातिदूरं याति, दुर्गमं वा वनप्रदेशं न विशति, व्यालबहुले वा वन्यद्विरदयूथे न स्थिति बनाति, तावदादिश्यतां तन्त्रीघर्षणेन, अवाप्तं-प्राप्त, जन्म-उत्पत्तियस्तादृशान् , पुनः स्वभावमन्मनान् खभावतो मनोहरान् , पुनः कर्णकोटराध्वनि कर्णविवरमार्गे, अविरतं निरन्तरम् , अवतरतः आपततः । पुनः ऋक्षसंकुला भटूकजातीयप्राणिगणसहिता, इयं, वृक्षसंहतिः वृक्षसमूहः । पुनः घनमहिषयथाधिष्ठितः वनमहिषगणव्याप्तः, एषः अयं, नद्युपकण्ठः नदीनिकटप्रदेशः; उदरदेशासीनमेदुरवराहम् उदरदेशे-मध्यदेशे, आसीनाः-उपविष्टाः, मेदुराः-पीनाः, वराहाः-शूकरा यस्मिंस्तादृशम् , इदं सन्निकृष्टं अद्रिगह्वरं पर्वतगुहा । अन्तरनिभृतभ्रान्तशरभः अन्तरे-मध्ये, निभृतं-निश्चलं यथा स्यात् तथा, भ्रान्ताः-कृतभ्रमणाः, शरभाः-मृगभेदा यस्मिंस्तादृशः, शरस्तम्बनिकुरम्बः शराणां-तृणभेदानां, ये स्तम्बाः-काण्डाः, तेषां निकुरम्बः-राशिः, सर्वत्र अस्तीति शेषः[घ] । इति इत्थम्, उपेत्य उपेत्य निकटं गत्वा गत्वा, सरभसं सवेगम्, अनुचरगणं भृत्यगणम्, आवेदयन्तं विज्ञापयन्तम् , अवधानदानेन मनसः सावधानतासम्पादनेन, कृतकृत्यं कृतकार्य, सफलमित्यर्थः, विदधानं कुर्वन्तम् , तं हरिवाहनम् , उपसृत्य समीपमागत्य, सत्वरकृतप्रणामः ससंभ्रमविहिताभिवादनः, पुष्करो नाम तत्संज्ञकः, करिसाधनाध्यक्षः करिसाधनस्य-हस्तिसैन्यस्य, अध्यक्षः-अधिकारी, स्फुटाक्षरं व्यक्ताक्षरं यथा स्यात् तथा, अवादीत् उक्तवान् । किमित्याह-तावदिति वाक्यालङ्कारे, विनोदैकफला केवलकुतूहलफला, इयं, गीतगोष्ठी गानसभा, विरमतु निवर्तताम् , गरिष्ठं गुरुतमम् , अन्यत् अतिरिक्तं, राजकार्य राज्ञः कर्तव्यं, प्रतिविधेयं प्रतिकर्तुमुचितं, यद्वा प्रतिकर्तु प्राप्तकालम् , अस्तीति शेषः । तत् किमित्याह-अद्य अस्मिन् दिने, अहोरात्रमध्य इत्यर्थः, यामिन्याः रात्रेः, चरमयामे अन्तिमप्रहरे, वैरियमदण्डाभिधानः वैरिणा-शत्रूणां कृते, यमदण्ड:-यमराजदण्डसदृश इत्यन्वर्थको वैरियमदण्डनामकः, प्रधानदन्ती सर्वप्रमुखहस्ती, दिगन्तरव्यापिना दिङ्मध्यव्यापकेन, यद्वा अन्यदिग्व्यापकेन, पुनः घ्राणपथं घ्राणेन्द्रियगोचरताम् , उपागतेन प्राप्तेन, मदगन्धेन दानवारिगन्धेन, प्रबोधितः उन्मदितः सन् , रणाय संग्रामाय, सविधचारिणं निकटचारिणम् , अरण्यवारणं वनगजम् , अनुबध्नन् आक्रमन् , अनुधावन्नित्यर्थः, अन्धकारसंपर्कात् अन्धकारसत्त्वात् , निपुणं सम्यक्, अनवबुध्यमानः अविज्ञायमानः, अदृश्यमान इति यावत् , अध्वनि मार्गे, अतळमाणगतिरेव अतय॑माणा-अनालोच्यमाना, गतिः-गमनं यस्य तादृश एव, कठिनकर्करव्यतिकरकष्टसञ्चारं कठिनानां-कठोराणां; कर्कराणां-पाषाणखण्डानां, व्यतिकरेण-सम्पर्केण, कष्ट:-कष्टावहः, सञ्चारः-गमनं यस्मिंस्तादृशम् , अतिमहत् अतिविस्तृतं, कान्तारं महावनं, प्रविष्टः प्रवेशमकार्षीत् । च पुनः, पृष्ठतः पश्चात् , पदानुसारप्रधावितैः पदानुसार-तत्पादविक्षेपानुगुणं, प्रधावितैः-अतित्वरया गन्तुं प्रवृत्तः, तत्प्रतिबद्धः तदधिकृतैः, आधोरणगणैः हस्तिपकसमूहैः, दिनकरोदये सूर्योदये सति, दृष्टः अवलोकितः । च पुनः, शिबिरं सैनिकावासम् , आनेतुं प्रत्यागमयितुम् , आरब्धः प्रवर्तितः, तु किन्तु, कृतानेकयत्नैरपि कृताधिकप्रतिकारैरपि, निवर्तयितुं परावर्तयितुं, न पारितः शक्तः, तत् तस्माद्धेतोः, एषः बुद्धया सन्निकृष्टो हस्ती, यावत् यावन्तं कालम् , अतिदूरम् अतिमात्रदुरं, न याति गच्छति, वा अथवा, दुर्गमं दुःखेन गन्तुं योग्य, वनं न विशति "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202