Book Title: Tilakamanjiri Part 3
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 51
________________ तिलकमञ्जरी ३९ अविरतप्रसृतमदजलासारसूत्रिताकालजलदागमम् , अधःकृतप्रलयजलधरस्तनितेन विस्तारिणा कण्ठरसितेन वित्रासितसकलवनचरवृन्दम् , आसक्तवनदन्तिदानपरिमले पुरोवर्तिनि महति पर्वतपादपाषाणे सरोषनिहितोभयविषाणम्, वारंवारमतिदूरोल्लासितेन सरससल्लकीविटपधारिणा करदण्डेन दमयितुमकाण्ड एवोद्यताः शमयितव्या मयैते दुष्टलेशिका न मे दोष इति शाखोद्धारमिव कुर्वाणम् [छ ], कैश्चिदनवरतकृतनिष्ठुरनिर्भर्सनैः, कैश्चिन्मधुरवचनघटितचित्रचाटुभिः, कैश्चिदितस्ततो विसृष्टलोष्टविसरैः, कैश्चिदग्रतः क्षिप्तकोमललतापल्लवकवलैः, कैश्चिदारोढुमध्यासितपृष्ठपीठोपरिस्थपादपशाखैः, कैश्चिद्वद्धुमधः पातितपादपाशैः, आश्रितदुर्गदेशैरपि त्रासतरलेक्षणैराधोरणगणैः सर्वतो निरुद्धं, क्रोधमिव मूर्तम् , अन्तकमिवोपजातगजविवर्तम् , आरब्धान्धकाराविसमरगजासुरभासुराकारमात्मशरीरसंरक्षणविहस्तैरितस्ततो हस्तिपालकैः सशङ्कमुपसृत्योपसृत्य ढौकिताभिः परिगतमपि वशाभिरवशमिभमद्राक्षीत् [ज] । टिप्पनकम्-लेशिका-पडिकाराः [छ] । पुनः कीदृशम् ? अविरतप्रसृतमदजलासारसूत्रिताकालजलदागमम् अविरतप्रसूतानां-निरन्तरविस्तृताना, मदजलानांदानजलानाम् , आसारैः-धारासम्पातैः, सूत्रितः-बद्धः, अकाले-असमये, जलदागमः-मेघागमः, वर्षाकाल इवेत्यर्थः, येन ताहशम् ; पुनः कण्ठरसितेन कण्ठश्वनिना, वित्रासितसकलवनचरवृन्दं वित्रासितं-भीतिमनुभावितं, सकलं-समग्रं, वनचरवृन्द-वन्यजीवगणो येन तादृशम् , कीदृशेन ? अधःकृतप्रलयजलधरस्तनितेन अधःकृतं-तिरस्कृतं, प्रलयजलधरस्य-प्रलय. कालिकमेघस्य, स्तनितं-गर्जितं येन तादृशेन, पुनः विस्तारिणा विस्तृतेन, पुनः कीदृशम् ? पर्वतपादपाषाणे पर्वतमूलवर्तिशिलायो, सरोषनिहितोभयविषाणं सरोष-सक्रोधं यथा स्यात् तथा, निहितं-स्थापितम् , उभयविषाण-शृङ्गद्वयं येन तादृशम् , कीदृशे ? आसक्तवनदन्तिदानपरिमले आसक्तः-संलग्नः, वनदन्तिनां-वन्यगजाना, दानपरिमल:-मदजलोत्कटगन्धो यस्मिस्तादृशे, पुनः पुरोवर्तिनि अग्रवर्तिनि, पुनः महति विशाले; पुनः कीदृशम् ? वारंवारम् अनेकवारम् , अतिदूरोल्लासितेन अत्यन्तदूरोन्नमितेन, पुनः सरससल्लकीविटपधारिणा आगजभक्षाख्यलतासम्बन्धिशाखाधारिणा, करदण्डेन शुण्डादण्डेन, शाखोद्धारं शाखोन्नयनं, कुर्वाणमिव सम्पादयन्तमिवेत्युत्प्रेक्षा, किमर्थम् ? अकाण्ड एव अनवसर एव, उद्यताः उत्थिताः, एते इमे, दुष्टलेशिकाः दुष्टाः-उपद्राविणः, लेशिका:-जन्तुविशेषाः, मया, शमयितव्या दमयितुमुचिताः, मे मम, दोषःतद्दमनेऽनौचित्यं, न, वर्तत इति शेषः, इति हेतोः, दमयितुं तानुपशमयितुम् , उत्सारयितुमित्यर्थः [छ], पुनः कीदृशम् ? आधोरणगणैः हस्तिपकवृन्दैः, सर्वतः परितः, निरुद्धम् आवृतम् , कीदृशैः ? कैश्चित् कैरपि, अनवरतकृतनिष्ठुरभर्त्सनैः अनवरतं-निरन्तरं, कृतं प्रयुक्तं, निष्ठुरं-रूक्षतापूर्ण, भर्त्सनम्-अप्रियवाक्यं यस्तादृशैः, पुनः कैश्चित् कैरपि, इतस्तत अस्मात् तस्मात् स्थानात् , विसृष्टलोष्टविसरैः विसृष्टः-विक्षिप्तः, लोष्टानां-पाषाणखण्डाना, विसरः-समूहो यैस्तादृशैः, पुनः कैश्चित् कैरपि, अग्रतः अने, क्षिप्तकोमललतापल्लवकवलैः क्षिप्ताः-प्रेरिताः, कोमलानां लतानां पल्लवाः-नूतनदलरूपाः, कवलाः-प्रासा यस्तादृशैः, पुनः कैश्चित् कैरपि, आरोढुं प्रकृतगजारोहणाय, अध्यासितपृष्ठपीठोपरिस्थपादपशाखैः अध्यासिता-अधिष्ठिता, पृष्टपीठोपरिस्था-पृष्ठस्थासनोपरिस्थिता, पादपशाखा-वृक्षशाखा यैस्तादृशैः, पुनः कैश्चित् , बद्धं प्रकृतगजबन्धनाय, अधः प्रकृतगजाधोदेश, प्रविश्य, पातितपादपाशैः पातितः-प्रक्षिप्तः, पादपाश:-पादबन्धनविशेषो यैस्तादृशैः, पुनः आश्रितदुर्गदेशैरपि अधिष्ठितदुर्गमस्थानैरपि, त्रासतरलेक्षणैः भयसम्भ्रान्तलोचनैः; पुनः कीदृशम् ? मर्तम आकृतिमन्तम् , क्रोधमिव; पुनः उपजातगजविवर्त्तम् उपजातः-सम्पन्नः, गजविवर्तः-गजात्मना अन्यथाभावो यस्य ताहशम् , अन्तकमिव यमराजमिव; पुनः आरब्धान्धकारातिसमरगजासुरभासुराकारम् आरब्धः-प्रवर्तितः, अन्धकारातिना-शिवेन सह, समरः-संग्रामो येन तादृशस्य, गजासुरस्य-गजाकारराक्षसस्येव, भासुरः-दीप्तः, आकारो यस्य तादृशम् । पुनः आत्मशरीरसंरक्षणविहस्तैः स्वशरीररक्षणव्यप्रैः, हस्तिपालकैः, इतस्ततः अत्र तत्र, सशवं शङ्कासहितं यथा स्यात् तथा, उपसृत्य उपसृत्य असकृन्निकटं गत्वा, ढौकिताभिः प्रापिताभिः, वशाभिः करिणीभिः, परिगतमपि परिवेष्टितमपि, अवशम् अवशीभूतम् [ज]। "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202