Book Title: Tilakamanjiri Part 3
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 55
________________ तिलकमञ्जरी गमनवेगश्रमश्वाससन्नपदातिसैन्यशून्यीकृतपुरोभागानि दूरविच्छिन्नच्छत्रधारपतिस्वशक्तिकृतानुसरणानि केशहस्तैरपि जवानिलार्धप्रसारितकुसुममालैर्द्विरदसंयमनाय सज्जीकृतवरत्रैरिव नयनपक्ष्मभिरपि प्रतिपन्नवर्त्मभि रोन्मुखैर्वनविभागावलोकनपरैरिव चरणैरप्युभयतश्चलितपादकटकैरश्वपार्श्वेषु निरर्गलं वल्गद्भिर्धावमानैरिव प्रकटिताकूतानि सत्वराध्यासिताशुगत्वरवरतुरङ्गाणि वेगादधावन्त सर्वतः पर्वतोपकण्ठावासितान्यनीकनायकवृन्दानि [3] | समरकेतुरपि तत्कालसंनिहितराजपुत्रपरिवृतः प्रजविनां वाजिनां बलेन कवलयन्निव सपर्वतसरित्तटावटामटवीमितस्ततो दत्ततरलदृष्टिः 'इदमग्रतो धावति तद्दानगन्धावकृष्टमलिपटलम् , इतः श्रूयतेविप्रकर्षादनतिपटु घण्टारणितम् , इतः पूर्णशशिबिम्बमालाविडम्बीनि वननिम्नगावतारकर्दमे घटितपरिपाटीनि जलभृतानि पदमुद्रामण्डलानि, एतन्मार्गतरुशाखा शिखाने विलग्नमभिनवमृणालतन्तुकलापकोमलमनिलाहतं टिप्पनकम्-प्रतिपन्नवर्त्मभिः एकत्र वर्म-मार्गः, अन्यत्र पक्ष्मोद्गमस्थानम् । [पक्ष्मोद्गमस्थानं च-नेत्रावरक. रोमराज्याधारभूतनेत्रावरकचर्मपुटमयस्थानं च] [ड] । सभिहिताः, अश्ववाराः-अश्ववाहका यैस्तादृशानि; पुनः गमनवेगश्रमश्वाससन्नपदातिसैन्यशून्यीकृतपुरोभागानि गमनवेगश्रमेण-धावनजन्यखेदेन, यः श्वासः-नासिकोत्थितवायुः, तेन सन्नैः-क्लान्तैः, पदातिभिः-पादगामिसैनिकैः शून्यीकृतःरिक्तीकृतः, पुरोभागः-अग्रभागो येषां तादृशानि; पुनः दूरविच्छिन्नच्छत्रधारपङ्किस्वशक्तिकृतानुसरणानि दूरविच्छि नया-दूरविघटितया, छत्रधारपतया-छत्रधारिश्रेण्या, खशक्त्या-खसामर्थेन, कृतम् , अनुसरणम्-अनुगमनं येषां तादृशानि; पुनः प्रकटिताकूतानि स्फुटीकृतेङ्गितानि, कैः ? केशहस्तैरपि केशकलापैरपि, कीदृशैः ? जवानिलार्धप्रसारितकुसुममालै जवानिलेन-वेगजन्यवायुना, अर्ध-अर्धभागे, प्रसारिता-विस्तारिता, कुसुममाला-पुष्पमाला येषु तादृशैः, अत एव द्विरदसंयमनाय प्रकृतगजनियन्त्रणाय, सन्जीकृतवरत्रैरिव सज्जीकृता-परिष्कृता, वरत्रा-गजबन्धनरजुयस्तादृशैरिवेत्युत्प्रेक्षा; पुनः कैरपि ? नयनपश्मभिरपि नेत्रावारकरोमराजिभिरपि, कीदृशैः ? प्रतिपन्नवर्त्मभिः प्रतिपन्नम् -आधारतया आरोढुं वा स्वीकृतम्, वर्म-नेत्राच्छादकचर्मपुटं यैस्तादृशैः, पक्षे प्रतिपन्नं-अन्वेषणाय स्वीकृतं, वर्म-मार्गो यैस्तादृशैः, दूरमद्तं मुखम्-अग्रं येषां तादृशैः, अत एव वनविभागावलोकनपरिव वनसम्बन्धितत्तत्प्रदेशदर्शनोद्यतैरिवेत्युत्प्रेक्षा; पुनः कैरपि चरणैरपि पादैरपि, कीदृशैः उभयतः भागद्वये, चलितपादकटकैः चलितौ-चलितुं प्रवृत्ती, पादकटको-पादवलयो, नूपुरावित्यर्थः, येषु तादृशैः, पक्षे पादकटकैः-पदगामिसैन्यैः, पुनः अश्वपार्वेषु अश्वनिकटेषु, अश्वानामुभयतः पीठाधोभागेषु वा, निरर्गलं अप्रतिहतं, वल्गद्भिः गच्छद्भिः, अत एव धावमानैरिव शीघ्रगमनप्रवृत्तैरिवेत्युत्प्रेक्षा; पुनः कीदृशानि ? सत्वराध्यासिताशुगत्वरवरतुरङ्गाणि सत्वरं-क्षिप्रम् , अध्यासिता:-अध्यारूढाः, आशुगत्वराः-क्षिप्रगमनशीलाः, वराः-श्रेष्ठाः, तुरङ्गाः-अश्वा यैस्तादृशानि; तुरङ्गस्थाने 'कुरङ्ग' इति पाठे तु "कुरङ्ग ईषत्ताम्रः स्याद्धरिणाकृतिको महान्" इत्युक्ता मृगविशेषाः कुरङ्गाः; पुनः पर्वतोपकण्ठावासितानि पर्वतान्तिकनिवासितानि []| समरकेतरपि तदाख्यहरिवाहनसुहृदपि, तत्कालसन्निहितराजपुत्रपरिवृतः तत्कालसन्निहितैः-तत्क्षणान्तिकस्थैः, राजपुत्रैः-नृपकुमारैः, परिवृतःपरिवेष्टितः सन् , प्रजविनां अतिक्षिप्रताशालिना, वाजिनां अश्वानां, बलेन शक्त्या सेनया वा, सपर्वतसरित्तटावटां पर्वतैः, सरित्तटैः-नदीतीरैः, अवटै:-गर्तप्रदेशैश्च, सहिताम् , अटवीं अरण्यम्, कवलयचिव प्रसन्निव, इतस्ततः अत्र तत्र, दत्ततरलदृष्टिः क्षिप्तचञ्चललोचनः, "तहानगन्धावकृष्ट तस्य-प्रकृतगजस्य, दानगन्धेन मदपरिमलेन, अवकृष्ठभूभाकृष्ठम् , इदम् , अलिपटलं भ्रमरराशिः, अग्रतः अग्रे, धावति उड्डीयते; पुनः इतः अस्मिन् स्थाने, विप्रकर्षात् दूरत्वाद्धेतो, अनतिपटु अनत्यन्ततीत्रं, घण्टारणितं घण्टाध्वनिः, श्रूयते; पुनः इतः अस्मिन् प्रदेशे, पूर्णशशिबिम्बमालाविडम्बीनि पूर्णचन्द्रमण्डलसमूहानुकारीणि, वननिम्नगावतारकर्दमे वननदीप्रवेशस्थानस्थपङ्के, घटितपरिपाटीनि बद्धपतिकानि, पुनः जलभृतानि जलाप्लुतानि, पदमुद्रामण्डलानि चरणचिह्नगणाः, सन्तीति शेषः; पुनः एतत् प्रत्यक्षभूतं, कर्णचामरं प्रकृतगजकर्णावलम्बिमुगविशेषबालव्यजनं, घूर्णति श्रमति, कीदृशम् ? मार्गतरुशाखाशिखाग्रे मार्गवर्ति। "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202