Book Title: Tilakamanjiri Part 3
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 54
________________ ४२ टिप्पनक-परागविवृतिसंवलिता। बद्धा परिकरं च क्षिप्रतरपातिभिः पदक्षेपैरुपासर्पत् । दूरविततस्तम्भनिश्चलं च क्रमेण निजमिव प्रासादमतितुङ्गमप्युदप्रविकटेन दन्तसंक्रमेणाध्यारोहत् [८] । आरूढमात्र एव च तत्र स द्विपः सपदि तां विमुच्य वल्लकीरवश्रवणजनितामानन्दनिद्रामुन्मुद्रितलोचनश्चचाल तस्माच्छैलपरिसरात् । अङ्कुशोऽङ्कश इति श्रुत्वा च सत्वरं कुमारव्याहारमतिरभसप्रधावितैः संभ्रमस्खलितगतिभिरनवरतकृततर्जनैः प्राजनपाणिभिः परिकरवृन्दैः पृष्ठतः कृतानुगमनो गमनवेगोड्डीनसंध्यारागनिमकुम्भसिन्दूरपूरो दूरोच्छलितशृङ्खलागुणद्विगुणतारटकारेण घण्टाद्वयेन घटिताभ्यर्णवर्तिजनकर्णरोगः, 'एष गच्छति' 'एष गच्छति' 'इतो गतः' 'इतो गतः' इति परस्परमुदस्तदक्षिणकरेण दर्शयता सशोकेन राजलोकेनावलोक्यमानो झगित्यदर्शनमगात् [3] । अथाकर्णितकुमारहरणवृत्तान्तभयसंभ्रान्तानि चलत चलतेति सत्वरादिष्टयथादृष्टसनिकृष्टाश्ववाराणि टिप्पनकम्-दूरविततस्तम्भनिश्चलम् एकत्र स्तम्भः-स्तम्भनम् , अन्यत्र भालानम् [८] । तत्कालमेव, परिकरं दृढ़गात्रबन्ध, बद्धा कृत्वा, क्षिप्रतरपातिभिः अतिशीघ्रताशालिभिः, पदक्षेपैः पादन्यासैः, उपासर्पत् समीपमगच्छत् । च पुनः, निजं खकीय, प्रासादमिव राजभवनमिव, दूरविततस्तम्भनिश्चलं दूरविततेन-दूरपर्यन्तविस्तृतेन, अत्यन्तेनेत्यर्थः, स्तम्भन-स्तम्भनेन, अत्यन्तजडीभावेन, पक्षे दूरविततैः-अतिदीर्घः, स्तम्भैः-गृहावष्टम्भकस्थाणुभिः, निश्चलं-स्थिरम् , पुनः अतितुङ्गं अत्युन्नतम् , अपि, तमिति शेषः, उदयविकटेन उन्नतविशालेन, दन्तसंक्रमेण दन्तरूप. मार्गेण, पक्षे दन्तमयसोपानमार्गेण, क्रमेण क्रमिकगत्या, पादेन वा, अध्यारोहत् आरूढ़वान् [ट च पुनः, तत्र तस्मिन् , कुमार इत्यर्थः, आरूढमात्रे कृतारोहणमात्रे, आरोहणानन्तरमेवेत्यर्थः, स प्रकृतः, द्विपः हस्ती, सपदि तत्क्षणे, वल्लकीरवश्रवणजनितां वीणाक्वणनश्रवणजनितां, ताम् अनुभूताम् , आनन्दनिद्रां आनन्दयुक्तनिद्रा, विमुच्य त्यक्त्वा, मुद्रितलोचन: उद्घाटितनयनः सन् , तस्मात् अधिष्ठितात्, शैलपरिसरात् पर्वतप्रान्तात्, चचाल चलितुं प्रवृत्तः । च पुनः, 'अङ्कशः, अङ्कुशः' इति, सत्वरं ससम्भ्रम, कुमारव्याहारं हरिवाहनस्य वचनं श्रुत्वा श्रवणगोचरीकृत्य, अतिरभसप्रधावितैः अतिरभसेन-अतित्वरया, प्रधावितैः-कृतप्रधावनैः, पुनः सम्भ्रमस्खलितगतिभिः सम्भ्रमेण-अतित्वरावशेन, स्खलिता-मार्गभ्रष्टा, गतिः-गमनं येषां तादृशैः, पुनः अनवरतकृततर्जनः निरन्तरोद्धोषितगजभर्त्सनात्मकवाक्यैः, पुनः प्राजनपाणिभिः अङ्कुशहस्तैः, परिकरवृन्दैः परिवारगणैः, पृष्ठतः पश्चात् , कृतानुगमनः अनुसृतः, पुनः गमनवेगोड्डीनसन्ध्यारागनिभकुम्भसिन्दूरपूरः गमनवेगेन-अतिक्षिप्रगमनवशेन, उड्डीनः-उत्क्षिप्तः, सन्ध्यारागनिभः-संध्याकालिकारणधुतितुल्यः, कुम्भसिन्दूरपूरः-मस्तकस्थसिन्दूरराशिर्यस्य तादृशः, पुनः दूरोच्छलितशृङ्खलागुणद्विगुणतारटङ्कारेण दूरम्, उच्छलितैः-उद्धृतैः, शृङ्खलागुणैः-निगडरज्जुभिः, द्विगुणतारः-द्विगुणोच्चः, टङ्कारः-तीवध्वनिविशेषो यस्य तादृशेन, घण्टादयेन स्कन्धोभयभागावलम्बिघण्टायुगलेन, घटिताभ्यर्णवर्तिजनकर्णरोगः घटितः-उद्भावितः, अभ्यर्णवर्तिजनाना-निकटस्थितलोकानां, कर्णरोग:-कर्णव्यथा येन तादृशः, पुनः एषः अयम्, एतत्स्थानस्थ इत्यर्थः, गच्छति पलायते, पुनः एषः अयम्, एतत्स्थानस्थः, गच्छति, इतः अस्मिन् स्थाने, गतः पलायितः, पुनः इतः अस्मिन् स्थाने, गतः, इति इत्थम् , उदस्तदक्षिणकरेण उत्क्षिप्तदक्षिणहस्तद्वारा, दर्शयता दृष्टिपथमानयता, सशोकेन शोकाकुलेन, राजलोकेन अवलोक्यमानः निरीक्ष्यमाणः स गज इति शेषः, झगिति शीघ्रम् , अदर्शनम् अदृश्यताम् , दृष्टिपथाद् बहिरित्यर्थः, अगात् प्राप्तवान् []। ..अथ अनन्तरम् , अनीकनायकवृन्दानि सेनापतिगणाः, वेगात् सम्भ्रमवशात्, सर्वतः परितः, अधावन्त उपसृतवन्ति। कीदृशानि? आकर्णितकुमारहरणवृत्तान्तमयसम्भ्रान्तानि आकर्णितेन-श्रुतेन, कुमारहरणवृत्तान्तेनप्रकृतगजकृतहरिवाहनापहारवार्तया, यद् भयं तेन सम्भ्रान्तानि-संक्षुभितानि; पुनः चलत चलत अपसरत अपसरत, इति इत्थं, सत्वरादिष्टयथादृष्टसन्निकृष्टाश्ववाराणि सत्वरं-ससंभ्रमम् , आदिष्टाः-आज्ञप्ताः, यथादृष्टं - दर्शनानुसारं, सन्निकृष्टाः "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202