Book Title: Tilakamanjiri Part 3
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 48
________________ टिप्पनक - परागविवृतिसंबलिता । कांश्चिच्छृङ्गकोटिबद्धोत्कृष्टपट्टांशुकपताकान्, कांश्चित् कण्ठघटितवाचाटकनकघण्टिकाभरणान्, कांश्चित् पुच्छनालदोलायमानविपुलपल्लवपूलान्, उदीरितोत्तालकलकलपदातिबलतुमुलतालख तरलितानेक हेलयैवोदस्राक्षुः । तैश्च त्रासवशविलोलतारैर्विकृतरूप दर्शनादन्योऽन्यमसंगच्छमानैस्तुच्छजनविस्तारिताट्टहासरसमसमञ्जसं दिङ्मुखेषु प्रपलायमानैः क्षणमात्र माहितोत्कण्ठाभरविरामो राजपुत्रः प्रतिदिवसमक्रीडत् [ ग ] | एकदा च प्रातरेव तं मृगारण्यमुपगतमविश्रान्तमदकलजलरङ्कुविरुतौ मारुतानीतजलतुषारासारशीतले शिलातलनि शैलनिम्नगातीरतरुतले निविष्टमन्तिकोपविष्टेष्ट्रसेवकलोकमधिकसुलिष्टसंयोजित कलाया नूतनगुणारोपसविशेषलब्धसौम्यसंपदः सविलासमङ्कदेशोपवेशिताया प्रियवनिताया इव विपचयाश्चटुल ३६ टिप्पनकम् - अधिकसुलिष्टसंयोजितकलायाः एकत्र विज्ञानं कला, अन्यत्राधारकाष्टम्, नूतनगुणारोपस विशेषलब्ध सौम्यसम्पदः एकत्र नूतनगुणाः कान्तिसौम्यादयः, अन्यत्र नूतनतन्त्री । मन्मनः - अव्यक्तध्वनिः । मेदुर:- पीनः [घ] | वर्णचामरान् कर्णयोः - श्रोत्रयोः, लम्बितानि - नियोजितानि, विचित्रवर्णानि - नानावर्णकानि चामराणि - महिषाकृतिमृगविशेषपुच्छनिर्मितव्यजनानि येषां तादृशान् ; पुनः कांश्चित् कानपि शृङ्गकोटिबद्धोत्कृष्टपट्टांशुकपताकान् शृङ्गकोटौ-शृङ्गा, बद्धा, उत्कृष्टं पट्टांशुकं-कौशेयवस्त्रं यस्यां तादृशी, पताका येषां तादृशान् ; पुनः कांश्चित् कानपि कण्ठघटितवाचाटकनकघण्टिकाभरणान् कण्ठेषु-ग्रीवासु, घटितानि - निवेशितानि, वाचाटानि - मुखराणि, कनकघण्टिकाभरणानि - सुवर्णकिङ्किणीरूपालङ्करणानि येषां तादृशान् ; पुनः कांश्चित् कानपि पुच्छनाल दोलायमानविपुलपल्लवपुलान् पुच्छनालेषु - लाङ्गूलकाण्डेषु, दोलायमानं, विपुलं - प्रचुरं, पहवपूलं - पलवरा शिर्येषां तादृशान् पुनः उदीरितोत्तालकलकलपदातिवलतुमुलतालरवतरलितान् उदीरितः - उद्गमितः, उत्तालः -- उच्चः, कलकलः - कोलाहलो यैस्तादृशानां पदातिबलानां - पादगामिसैनिकानां, तुमुलैःगम्भीरैः, तालरवैः-करतल ध्वनिभिः, तरलितान्-चञ्चलितान्, सम्भ्रातानित्यर्थः, एक हेलयैव युगपदेव, उदस्राक्षुः त्यक्तवन्तः । च पुनः, त्रासवशविलोलतारैः त्रासवशेन-भयवशेन, विलोला- चञ्चला, तारा- नेत्रकनीनिका येषां तादृशैः, चञ्चलाक्षैरित्यर्थः, पुनः विकृतरूपदर्शनात् विलक्षणरूपदर्शनाद्धेतोः, अन्योऽन्यं परस्परम्, असङ्गच्छमानैः असंघटमानैः; पुनः तुच्छजन विस्तारिताट्टहासरसं तुच्छजनैः - पामरजनैः विस्तारितः, अट्टहासरसः - महाहासकौतुकं यस्मिंस्तादृशं यथा स्यात् तथा, असमञ्जसं प्रतिकूलं च यथा स्यात् तथा, दिङ्मुखेषु दिगन्तेषु, प्रपलायमानैः प्रधावमानैः तैः श्वापदैः क्षणमात्र मुहूर्तमात्रम्, आहितोत्कण्ठाभरविरामः जनितक्रीडनौत्सुक्यातिशयनिवृत्तिः सन्, राजपुत्रः नृपकुमारः, हरिवाहन इत्यर्थः, प्रतिदिवस प्रतिदिनम्, अक्रीडत् क्रीडितवान् [ग] ! एकदा एकस्मिन् दिने, प्रातरेव प्रभात एव, मृगारण्यं मृगवनम्, उपगतं गतवन्तम् ; पुनः शैलनिम्नगातीरतरुतले पर्वतीयनदीतटवृक्षाधःस्थले निविष्टम् उपविष्टम् कीदृशे ? अविश्रान्तमदकलजलरङ्कुविरुतौ अविश्रान्ताअविरता, मदकलानां-मदोत्कटानां, जलरङ्कणां-जलीयमृगाणां विरुतिः - शब्दो यस्मिंस्तादृशे पुनः मारुतानीतजलतुषारासारशीतले मास्तानीतैः - पवनोपस्थापितैः, जलतुषारासारैः - जलकणधारासम्पातैः, शीतले - शैत्यमापन्ने, पुनः शिलातलनि प्रस्तरमये; पुनः अन्तिकोपविष्टेष्ट्रसेवकलोकम् अन्तिके- पार्श्वे, उपविष्टाः, इष्टाः - प्रियाः, सेवकलोकाः - सेवकजना यस् तादृशम् ; पुनः विषयाः वीणायाः, ध्वनिविशेषान् नादभेदान्, अवधारयन्तं निरूपयन्तम् कीदृश्याः ? अधिकसुश्लिष्टसंयोजित कलायाः अधिकसुश्लिष्टं - परस्परमत्यन्तसङ्गतं यथा स्यात् तथा, संयोजिताः - सन्निवेशिताः, कलाः- अवयवाः यस्यां तादृश्याः, पक्षे चतुष्षष्टिप्रकारा वायादिकलाः पुनः नूतनगुणारोपस विशेषलब्ध सौम्यसम्पदः नूतनानाम्अभिनवानां, गुणानां-तन्त्रीणाम्, आरोपेन- संघटनेन, सविशेषम् - अतिमात्रं लब्धा - प्राप्ता, सौम्यसम्पत्-मनोहरतासमृद्धिर्यया तादृश्याः, पक्षे नूतनगुणारोपेण नवनवगुणस्थापनेन, सविशेषं लब्धा सौम्यसम्पद् यया तादृश्याः, पुनः प्रियवनिताया इव प्रियविलासिन्या इव, सविलासं विलासेन - लीलया सहितं यथा स्यात् तथा, अङ्कदेशोपवेशितायाः क्रोड तलोपवेशितायाः, कीदृशान् ध्वनिविशेषान् ? चटुलनखकोटिघट्टनावाप्तजन्मनः चटुलाभिः - तीव्राभिः, नखकोटिभिः नखायैः, घट्टनया "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202