Book Title: Tilakamanjiri Part 3
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 45
________________ तिलकमञ्जरी ३३ परिगतोपरिस्थनगरः स्थवीयसा प्राकारवलयेन बन्दीकृतानामरिनरेन्द्राणामेकमन्दिरं मन्दरकाख्यो दुर्गगिरिः, असावनेकनिकटग्रामपरिसरविसारिसारणिजला शरावती नाम किमपि सेव्यकूला सरित्, एतदुन्मदचक्रवाकवक्राङ्गकुररकारण्डवाकुलमुद्दण्डकमलिनीखण्डमण्डिततीरमंशावतार इव क्षीरजलधेः पुरा दिग्विजयागतेन देवेन खानितं सरः, एष दशसीरसहस्रसंमितसीमा सूर्यग्रहणपर्वणि पूर्वमपवर्जितो मदिरावतीदेव्या सर्वमण्डलग्रामाणामग्रिमो देवाग्रहारः, इदमतिस्निग्धसान्द्रसकलद्रुमगहनमुन्मुखैर्मुनिभिरनुदिनमुदीक्ष्यमाणमार्गापतदतिथिवर्गमनादरप्राप्यसुन्दरस्वादुफलमूलकन्दं मत्रिणा सुरानन्देन निर्मापितं धर्मारण्यम् [ज्ञ], इह करालकरिकुम्भास्थिकूटस्थपुटिततलायामचलपरिसरप्रान्तसीमनि समारब्धसमरकर्मणा प्रापितः प्रेतनगरमुत्तरदिगन्तदण्डनायकेन नीतिवर्मणा हूणपतिः, इमामविच्छिन्नकुङ्कुमकच्छलाञ्छिततीरदेशां तरङ्गिणीमुत्तीर्य टिप्पनकम्-अपवर्जितः दत्तः [३] । परिगतोपरिस्थनगरः परिगतानि, व्याप्तानि, उपरिस्थानि-ऊर्चलोकसम्बन्धीनि नगराणि यैरतादृशः, पुनः बन्दीकृतानां निगृहीतानाम् , अरिनरेन्द्राणां शत्रुभूतनरेन्द्राणाम् , एकमन्दिरं प्रधानकारागारम् । पुनः अनेकनिकटग्रामपरिसरविसारिसारणिजला अनेकेषां-बहूनां, निकटग्रामाणां-प्रत्यासन्नग्रामाणां, परिसरेषु-प्रान्तेषु, विसारिण्यः-निःष्यन्दिन्यः, सारणयः-कुल्या येषां तादृशानि जलानि यस्यां तादृशी, असौ किञ्चिदूरस्था, शरावती नाम तन्नानी, सरित् पूर्वपश्चिमदेशविभाजिका नदी, अस्तीति शेषः । पुनः उन्मदचक्रवाक-वक्राङ्ग-कुरर-कारण्डवाकुलम् उन्मदैः-मदान्वितैः, चक्रवाकैःनिशि प्रियाविश्लिष्टपक्षिभेदैः, वक्राङ्गैः-कुटिलाङ्गः, बकैरिति यावत्, कुररैः-उत्क्रोशजातीयपक्षिभिः, कारण्डवैः-हंसविशेषः, आकुलं-संकीर्णम् , पुनः उहण्डकमलिनीखण्डमण्डिततीरम् उद्दण्डैः-उन्नतैः, कमलिनीखण्डै:-कमलिनीकाननैः, मण्डितम्अलङ्कतं, तीरं यस्य तादृशम् , पुनः क्षीरजलधेः क्षीरसमुद्रस्य, अंशावतार इव अंशात्मना अवतीर्ण इवेत्युत्प्रेक्षा, पुरा पूर्व, दिग्विजयागतेन दिग्विजयोद्देशेनागतेन, देवेन राज्ञा, मेघवाहनेनेत्यर्थः, खानितं खाननयोद्गमितम् , एतत् प्रत्यक्षं, सरः कासारः, अस्तीति शेषः । पुनः दशसीरसहस्रसम्मितसीमा दशसीरसहस्रैः-दशसहस्रसंख्यकहलदण्डैः, सम्मिता-परिच्छिन्ना, सीमा यस्य तादृशः, सर्वमण्डलग्रामाणां सम्पूर्णराष्ट्रग्रामाणाम् , अग्रिमः अग्रेसरः, श्रेष्ठ इति यावत् , पूर्व, सूर्यग्रहणपर्वणि सूर्यग्रहणोत्सवे, मदिरावतीदेव्या तदाख्यपट्टराज्या, अपवर्जितः दानकर्मीकृतः, एषः अयं, देवाग्रहारः देवसेवार्थ दत्तः क्षेत्रादिप्रदेशः, अस्तीति शेषः, पुनः मन्त्रिणा मेघवाहननृपसचिवेन, सुरानन्देन तदाख्यधार्मिकपुरुषेण, निर्मापितम् , इदं प्रत्यक्षं, धर्मारण्यं तपोवनम् , अस्तीति शेषः, कीदृशम् ? अतिस्निग्धसान्द्रसकलद्रुमगहनम् अतिस्निग्धैः-अत्यन्तमनोहरैः, सान्दैः-निबिडैः, सकलै:-अशेषैः, द्रुमैः-वृक्षैः, गहनं-व्याप्तम् , पुनः उन्मुखैः ऊर्ध्वमुखैः, उन्नमितनेत्रैरिति यावत्, मुनिभिः तपखिभिः, अनुदिनं प्रतिदिनम् , उदीक्ष्यमाणमार्गापतदतिथिवर्गम् उदीक्ष्यमाणः-ऊर्ध्वमवलोक्यमानः, मार्गापततां-मार्गागच्छताम् , अतिथीना, वर्ग:-समूहो यस्मिंस्तादृशम् , पुनः अनादरप्राप्यसुन्दरस्वादुफलमूलकन्दम् अनादरप्राप्याणि-अनायासलभ्यानि, सुन्दराणि-दृष्टिप्रियाणि, स्वादूनि-रसनाप्रियाणि च, फलानि-कन्दल्यादीनि, मूलानि-शिफाः, कन्दानि-शूरणादीनि यस्मिंस्तादृशम् [३] । करालकरिकुम्भास्थिकूटस्थपुटिततलायां करालैः-भीषणैः, करिकुम्भास्थिकूटैः-हस्तिमस्तकास्थिराशिभिः, स्थपुटितं-विषमोन्नतप्रदेशीकृतं, तलम्-अधःस्थलं यस्यास्तादृश्याम् , इह अस्याम् , अचलपरिसरप्रान्तसीमनि अचलस्य-पर्वतस्य, यः परिसरः-सीमाप्रदेशः, तत्प्रान्तसीमनि-तनिकटसीमनि, समारब्धसमरकर्मणा प्रवर्तितसंग्रामरूपकार्येण, उत्तरदिगन्तदण्डनायकेन उत्तरस्या दिशो यः, अन्तः-अवसानं, तत्र दण्डनायकेन-सेनापतिना, नीतिवर्मणा तन्नाम्ना क्षत्रियेण, हणपतिः म्लेच्छजातिविशेषाधिपतिः, प्रेतनगरं यमपुरी, प्रापितः प्रेषितः, व्यापादित इति यावत् । अविच्छिन्नकुङ्कमकच्छलाञ्छिततीरदेशाम् अविच्छिन्ना:-निरन्तराः, कुश्माः-काश्मीरजौषधिविशेषा येषु तादृशैः, कच्छै;-जलपायप्रदेशः, लाञ्छिताः ५तिलक. "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202